________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
इति स्मृतिरप्युपपद्यते । अथाऽव्याप्यवृत्तिनीलादिकल्पने गौरवम् , तथाहि-अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वमस्मिन् पक्षे वाच्यम् , अन्यथा पीतावय. वावच्छेदेन नीलोत्पत्तिप्रसङ्गात्, न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिः, विनैतादृशप्रतिबध्यप्रतिबन्धकमावं तथास्वाभाच्या निर्वाहात् । ननु समवायेंन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत् ? न- समवायस्येवावच्छेदकताया अपि कारणनियम्यस्वात् , एवं च नीलादौ नीलेतररूपादीनाम् , नीलेतररूपादौ वा नीलादीनां प्रतिबन्धकरवे विनिगमकाभावः, मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वम, नील-पीतारब्धे नीरूपत्वप्रसङ्गस्य बाधकत्वादिति चेत् ? मैवम्- ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकम् , न तु नीलेतररूपत्वादि गौरसमावेशप्रतिपादिका तदैवोपपद्येत योकस्मिन्नानाध्याप्यवृत्तिरूपाभ्युपगम: स्यादिति । प्राचीनमतानुयायी शङ्कते- अथेति । अवयविनि अव्याप्यवृत्तिरूपं तदेव स्याद् यद्यवयवे अवच्छेदकतासम्बन्धेन तदुत्पद्येत, तद् यदि सर्वावयवत्पद्येत तदा व्याप्यवृत्त्येव स्यान्नाव्याप्यवृतीत्यतः समवायेनावयविन्यव्याप्यवृत्तिनीलमुत्पद्यमानमवच्छेदकतया तत्रैवायवे उत्पद्यते यत्र समवायेन नीलरूपमस्ति, यत्र तु समवायेन नीलेतररूपादीनि सन्ति तत्रावच्छेदकतया तन्नोत्पद्यत इत्येतदर्थ समवायेन नीलेतररूपादिकमवच्छेदकतया नीलं प्रति प्रतिबन्धकं वाच्यमिति गौरवमित्याह-तथाहीति । 'नीलादिकम्' इत्यत्रादिपदात् पीतादेरुपग्रहः । 'नीलेतररूपादीनाम्' इत्यत्रादिपदात् पीतेतररूपादः परिग्रहः । अस्मिन् पक्षे एकस्मिनवयविन्यव्याप्यवृत्तिनानारूपाभ्युपगन्तृपक्षे । अन्यथा अवच्छेदकतासम्बन्धन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वानभ्युपगमे । नन्ववयवगत नोलमवयविगतनीलं प्रति कारणम् , तस्य चायमेव स्वभावः, यदुत-स्वाश्रयावच्छेदेनैव नीलमुपजनयति, इति न पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । न तदापत्तिः न पीतावयवावच्छेदेन नीलोत्पत्त्यापत्तिः । निषेधे हेतुमाह-विनेति । एतादृशेति- अवच्छेदकतासम्बन्धन नीलादिकं प्रति समवायेन नौलेतररूपादीनां प्रतिबन्ध कत्व मित्येवस्वरूपेत्यर्थः । तथास्वाभाव्येति - नीलस्य स्वाश्रयावच्छेदेन नीलजननस्वाभाव्यत्यर्थः। उक्ताशङ्कायां नवीनानुयायी समाधानमाशङ्कते-नन्विति- समवायेनाक्यविनि जायमानं नीलं पीतावयवावच्छेदनापि जायत इत्यापादनमापादकाभावान्न सम्भवतीत्यर्थः । यथा समवायेन नीलं प्रति स्वाश्रय समवेतत्वसम्बन्धेन नीलं कारणमिति कार्यकारणभावबलादेवावयविनि नीलसमवायस्य राम्भवस्तथैवावयविगतनीलस्यावच्छेदकता नीलावयव एव न पीतावयवादावित्यत्रापि किश्चित् कारणं वाच्यमेव, तादृशकारणबलादेवावच्छेदकताया नियमनसम्भवादित्याशयेनोक्तसमाधानाशङ्का प्रतिक्षिपति-नेति । एवं च अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वस्य नव्यमते आवश्यकत्वे च। नीलादाविति- यथाऽवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलतररूपादीनां प्रतिबन्धकत्वं तथाऽवच्छेदकतासम्बन्धेन नीलेतररूपादिकं प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमपि विनिगमकाभावामव्यमते प्रसज्येतेत्यर्थः । मम त्विति-प्राचीनमते तु यथा समवायेन नीलादिक प्रति स्वाश्रयसमवेतत्वसम्बन्धन नीलेतररूपादीनां प्रतिबन्धकत्वमिति नानारूपवदवयवारब्धेऽवयविनि नीलरूपाद्यसम्भवाचित्रं रूपं सिद्धयति, तथा समवायेन नीलेतररूपादौ स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां प्रतिबन्धकत्वमिति न सम्भवति, तथा सति नील-पीताद्यवयवारब्धे यथा न नील-पीतादिरूपं तथा चित्ररूपस्यापि नीलेतररूपत्वादिलक्षण प्रतिबध्यतावच्छेदकधर्माकान्तत्वेन न स्यात् तत्र सम्भव इति नीरूपमेव तदवयविस्वरूपमिति तत्प्रत्यक्षमपि न भवेदिति विनिगमकस्य भावान्नीलादिकं प्रत्येव नीलेतररूपादानां प्रतिबन्धकत्वम्, न तु नीलेतररूपादिकं प्रति नीलादीनां प्रतिबन्धकत्वमित्यर्थः । उक्तप्राचीनमतानुयायिशङ्का नवीनमतानुयायिनः प्रतिक्षिपन्ति-मैवमिति । ममापि नवीनमतानुयायिनोऽपि । नीलत्वादिकमेवेति-अवच्छेदकतासम्बन्धेन नीलादिकं प्रति समवायसम्बन्धेन नीलेतररूपादीनामेव प्रतिबन्धकत्वम्, न त्ववच्छेदकतासम्बधेन नीलेतररूपादिक प्रति समवायसम्बन्धेन नीलादीनां प्रतिबन्धकत्वम् , नीलेतररूपत्वस्य प्रतिबध्यतावच्छेदकत्वकल्पनापेक्षया नीलत्वस्य प्रतिबध्यतावच्छेदकत्वे लाघवादिति गौरवरूपबाधकबलान्न नीलेतररूपत्वं प्रतिबध्यतावच्छेदकमिति विनिगमकस्य वक्तुं शक्यत्वादित्यर्थः। ननु अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलतररूपत्वेन प्रतिबन्धकत्वे नीलेतररूपत्वं प्रतिबन्धकतावच्छेदकम् , अवच्छेदकतासम्बन्धन नीलेतररूपत्वावच्छिन्नं प्रति समवायसम्बन्धेन नीलत्वेन प्रतिबन्धकत्वे नीलत्वं प्रतिबन्धकतावच्छेदकमिति नीलेतररूपत्वापेक्षया नीलत्वं लघुभूतमिति तदेव प्रतिबन्धकतावच्छेदकं भवितुमर्हतीत्यत्रापि दीयतां
.