________________
नयामृततरङ्गिणी-तरक्रिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।।
नीलजनकाग्निसंयोगादेरभावा रूपजनकविजातीयाग्निसंयोगाश्च हेतवः, अस्तु वा तेजःसंयोगमात्रजन्ये विजातीये चिने विजातीयतेजःसंयोगस्य हेतुत्वम् , पाक-रूपोभयजन्ये विजातीये चित्रे चोभयोरेव, रूपमात्र. जातिरिक्त एव वा विजातीयतेजःसंयोगो हेतुः, फलबलेन वैजात्यकल्पनात् । न चाग्निसंयोगजमात्रातिरिके रूपमेव हेतुरस्तु, इति विनिगमकाभावः, उभयस्थले नीलेतरादिसमाजाभावस्यैव विनिगमकत्वाद्" इत्याहुः ।
शिरोमणिभट्टाचार्यमतानुसारिणस्तु-"चित्रघटेऽव्याप्यवृत्तीन्येव नील-पीतादीनि नानारूपाणि, 'एकरूपम्' इति प्रतीतेः 'एको धान्यराशिः' इतिवत् समूहैकत्वविषयत्वात् , सविषयावृत्ति-व्याप्यवृत्तिवृत्तिजातेरव्याप्यवृत्तिवृत्तित्वविरोधस्त्वप्रामाणिक एव, अत एव-- ___"लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर-विषाणाभ्यां स नीलो वृष उच्यते" ।
प्रतिबन्धकत्वम् , तदभावानां च समवायेन चित्ररूपं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन कारणत्वमित्यवश्यं स्वीकरणम् . अन्यथा रूपजनकविजातीयामिसंयोगमात्रस्य चित्ररूपं प्रति कारणत्वे नीलजनकतेजस्संयोगोऽपि रूपजनकविजातीयाग्निसंयोगो भवत्येवेति ततोऽपि यत्राक्यविनि नीलरूपत्पमुद्यते तत्र चित्ररूपं स्यात् . केवलनिरुक्तप्रतिबन्धकाभावानामेव विजातीयचित्रं प्रति हेतुत्वे च यत्र न रूपजनकविजातीयाग्निसंयोगस्तत्रापि ताशरूपमुत्पद्यतेत्यतो रूपजनकविजातीयाग्निसंयोगानामपि हेतुत्वं तत्र स्वीकरणीयमित्याशयः । प्रकारान्तरेण कार्यकारणभावमुपदर्शयति- अस्त वेति । 'तेजस्संयोगमात्र.' इति मात्रपदेन रूपस्य व्यवच्छदः । उभयोरेव पाक-रूपोभयोरेव, हेतुत्वमित्य नुवर्तते । लाघवादाह- रूपमात्रजातिरिक्त एवेति- यच्च तेजस्संयोगमात्रजन्यं चित्रम्, यदपि पाक-रूपोभयजन्यं चित्रम् , तदुभयमपि रूपमात्रजं न भवति तेन रूपमात्रजातिरिक्तत्वेनोभयोरपि सङ्ग्रहः । तदुभयकारणे तेजस्संयोगे वैजात्यकल्पने किं नियामकमित्यपेक्षायामाह-फलबलेनेति- तादृशतेजस्संयोगादुभयविचित्ररूपमुत्पद्यत इति तदलात् तत्र वैजात्यं कल्प्यत इत्यर्थः। ननु तेजस्संयोगमात्रजे चित्रे तेजस्संयोगो हेतुः, तेजस्संयोगमात्रजातिरिक्त च रूपमेव हेतुरित्येव किं न स्यात् , अत्रापि केवलरूपजन्यस्य पाकरूपोभयजन्यस्य च चित्रस्याग्निसंयोगमात्रजातिरिक्तत्वेन सङ्क-हतो लाघवस्य व्यकत्वात् पूर्वदिशव कारणत्वं नैतदिशेत्यत्र विनिगमकस्य कस्यचिदभावादित्याशङ्कय प्रतिक्षिपति-न चेति । प्रतिक्षेपे हेतुमाह- उभयस्थले इति- यच्च तेजस्संयोगजन्यं चित्रम् , यदपि पाक-रूपोभयजन्यं चित्रम् , तदुभयस्थले नीलेतररूपादिसमाजो नापेक्षित इति नीले तररूपादि. समाजाभाव उभयत्राऽविशिष्टः, रूपमात्रजे तु चित्रे नीलेतररूपादिसमाजोऽपेक्षित एवेति, तथा च यत्रैव चित्रे नीलेतररूपादिसमाजस्य कार णत्वं तत्रैव रूपमात्रस्य कारणत्वमन्यत्र तु विजातीयतेजस्संयोग एव हेतुरिति प्राचीनमतपरिष्कारः ।
शिरोमणिभट्टाचार्य मतानुसारिणां नव्यनैयायिकानां मतमुपदर्शयति-शिरोमणिभट्टाचार्यमतानुसारिणस्वितिअस्य 'आहुः' इत्यनेन सम्बन्धः । 'अव्याप्यवृत्तिन्येव' इत्येवकारेण व्याप्यवृत्तेर्व्यवच्छेदः, चित्रघटे नील-पीतादीनि यदि व्याप्यवृत्तीनि स्युस्तदा नीलकपालावच्छेदेनापि घटे पीतादीनामुपलम्भः प्रसज्येतातोऽव्याप्यवृत्तीन्येव तानीति । यथा च धान्यसमूहगतैकरवविषयकस्वेन ‘एको धान्यराशिः' इति प्रतीतिरुपपद्यते, तथा रूपसमूहगतकत्वविषयकत्वेन 'एक रूपम्' इति प्रतीतिरपि चित्रघटगतनानारूपेषूपपद्यत इत्याह- एकरूपमिति प्रतीतेरिति । सविषयावृत्तीति- सविषयावृत्तिर्या व्याप्यवृत्तिवृत्तिर्जातिस्तस्या अध्याप्यवृत्तिवृत्तित्वविरोधः, अव्याप्यवृत्तिवृत्तित्वं न सम्भवतीति नियमस्त्वप्रामाणिक एवेत्यर्थः, उक्तनियमे सविषयावृत्तित्वं यदि जातिविशेषणतया नोपादीयते तदा व्याप्यवृत्तय ईश्वरगता ज्ञानेच्छाप्रयत्नास्तदतानां सानत्वेच्छात्व-प्रयत्न त्वजातीनामस्मदाद्यात्मगता अव्याप्यवृत्तयो ये ज्ञानेच्छाप्रयत्नास्तद्वत्तित्वं समस्त्येवेति नियमः स्यादिति तदुपादानम्, व्याप्प्रवृत्ति नीलादिकं नीलावयवादिमागतं तदता जातिनीलस्वादिका तस्या अव्याप्यवृत्तिवृत्तित्वं न सम्भवतीति, अयं च नियम एकस्मिन्नवयविन्यव्याप्यवृत्तिनानारूपाभ्युपगमे युज्येत, ततो नाव्याप्यवृत्तिनानारूपसम्भव इति प्राचीनमतस्य खण्डनार्थमुक्तनियमस्याऽप्रामाणिकत्वमुक्तम् , तथा चोक्तनियमस्याऽप्रामाणिकस्य भङ्गो न दोषायेति भावः । अत एव एकस्मिन्नवयविन्यव्याप्यवृत्तिनानारूपस्याभ्युपगमादेव, 'लोहितः' इत्यादिस्मृतिरेकस्मिन् वृषभे नानारूप