________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
इति, तत्र नील-पीतोभयकपालारब्धे घटे पाकनाशितावयवपीते स्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तिः, न च कार्यसहभावेन नीलाभावादीनां तद्धेतुत्वादयमदोषः, नील-पीत-श्वेतत्रितय. कपालारब्धे पीत-श्वेतयोः क्रमेण नाशे श्वेतनाशकालेऽपि तदापत्तरिति, पाकजचित्रे च न व्यभिचारः, पाकादेवावयवे नानारूपोत्पत्त्यनन्तरमेवावयविनि चित्रस्वीकारात्, पाकजचित्रस्वीकारे च विजातीयचित्रं प्रति नीलेतरत्वादिना हेतुता, अग्मिसंयोगजचित्रे चावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताका च्छेदकः, स्वाश्रयससमवेतत्वसम्बन्धः कारणतावच्छेदकः, केवलनीलकपालारब्धघटे तु स्वाश्रयसमवेतत्वसम्बन्धेन पीताभावादिपञ्चकस्य सत्त्वेऽपि तेन सम्बन्धेन नीलाभावस्यासत्त्वात् तद्रूपकारणाभावान्न चित्रोत्पत्तिः, एवं केवलपीतकपालारब्धघटादावपि पीताभावाद्यभावान चित्रोत्पत्तिः, नील-पीतकपालद्वयारब्धघटे तु नीलाभावस्य पीतकपालमादाय पीतामावस्य नीलकपालमादाय रक्षाभावादीनां च कपालद्वयमप्यादाय सत्त्वात् तत्र चित्रोत्पत्तिः सम्भवतीत्यर्थः। निरुक्ककार्यकारणभावं दूषयति-तत्रेति- निरुक्तकार्यकारणभावे इत्यर्थः । नीलेति-यस्य घटस्यारम्भकमेकं कपालं नौलं कपालान्तरे च नेलपोतोभयकपालिकारन्धत्वान्नीलपीतोभयरूपारब्धचित्ररूपवत् , तत्र पाकेन कपालिकागतपीते नष्टे सति कपाले तत्र व्याप्यवृत्तिनीलोत्पत्तिकाले घटे चित्रोत्पत्यापत्तिस्तदानीं नीलाभावस्यापि तत्र सत्त्वादिति व्याख्यानं 'स्वचित्रेऽवयवे' इति पाठमाश्रित्य स्यात्, किन्तु 'स्वचित्रेऽवयवे' इति पाठोऽधिक एव, तथा चात्रेत्थं व्याख्यानम्- कपालमेकं नीलमपरं च पीतम्, तदुभयारब्धे घटे पाकनाशितावयवपीते सति व्याप्यवृत्तिनीलमुत्पद्यते कपाले नीलोत्पत्तितः, तत्र कपाले पीतरूपनाशकाले तत्कपालमादाय नीलाभावोऽपि वर्तते, पीताभाषादयस्तु पञ्च नीलकपालमादाय वर्तन्त एवेति निरुत रूपाभावषट्रकस्य सस्वाचित्रोत्पत्त्यापत्तिः स्यादित्यर्थः, वस्तुतः 'पाकनाशिताक्थवपीतस्वचित्रेऽवयवे' इति पाठः समीचीनः, तत्र नीलकपाल-पीतकपालोभयारब्धो घटः पूर्व चित्ररूपवानेव, ततः, पाकेन कपालस्य पीतं रू घटस्य च चित्रं रूपं विनष्टम् , ततः कपाले नीलरूपमुत्पद्यते, ततः कपालद्वयस्य नीलरूपवत्त्वाद् विनष्टचित्ररूपे घटेऽपि नीलरूपमुत्पद्यते, तत्र घटे कपाले नीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तिरित्यर्थो ज्यायानिति बोध्यम् । ननु कार्यसहभावेन नीलाभावादीनां हेतुत्वादवयवे नीलोत्पत्तिकालेऽवयविनि चित्ररूपोत्पत्त्यापादनं न सम्भवति, तदानीं नीलरूपोत्पत्त्या नीलाभाव. रूपकारणस्याभावादित्याशङ्कय प्रतिक्षिपति-न चेति । तद्धतुत्वात् चित्ररूपं प्रति हेतुत्वात् । अयं चित्रोस्पत्त्या. पत्तिलक्षणः । निषेधे हेतुमाह-नीलपीतेति- एक कपालं नीलमपरं च पीतं तदन्यच्च श्वेतमिति तादृशकपालत्रया. रब्धे घटे, पीत-श्वेतयोः क्रमेण नाशे-पूर्व पीतस्य नाशः, ततः श्वेतस्य नाश इत्येवं पीत-श्वेतयोशे सति, श्वेतनाशकाले तत्र श्वेताभावोऽपि विद्यत इति कार्यसहभावेन तत्र रूपाभावषटकस्य सत्त्वात् , तदापत्तेः चित्ररूपापत्तेः, अवयवे नानारूपसत्त्व एवावयविनि चित्ररूपस्याभिमत्वात् पीतनाशकाले नीलरूपस्य श्वेतरूपस्य च सत्त्वात् तदानीं तदुभयमुपादाय चित्ररूपस्य सम्भवेन तदानीं तदापत्तेरिष्टापत्त्याऽपि परिहतुं शक्यत्वान्न तदानीं चित्ररूपापादनं कृतम्, श्वेतरूपनाशकाले च पीतरूपनाशस्य पूर्वमेव वृत्तत्वात् तदानीं श्वेतस्याप्यभावादेकमेव नीलं रूपमवयवे समस्तीति न तदानी चित्ररूपापादनस्थेटापत्त्या परिहारो युक्त इत्याशयः। ननु पाकजचित्रमापि चित्रत्वात्मककार्यतावच्छेदकधर्माकान्तम् , तच्च नीलेतररूपादि. लक्षणकारणं विनाऽपि पाकादेव भवतीति व्यतिरेकव्यभिचारानीलेतररूपत्व-पीतेतररूपत्वादिना चित्रत्वावच्छिन्नं प्रति कारणत्वं न सम्भवतीत्यत आह-पाकजचित्रे चेति-पाकजत्वेनाभिमते चित्रे स्वित्यर्थः, तेन पाकजं चित्रं नास्ति किन्तु तत्रावयवगतनानारूपोत्पत्त्यनन्तरं तथाभूतनानारूपेभ्य एवावयविनि चित्रमित्येवं स्वीकारेण व्यभिचारपरिहारस्य नायुक्तत्वम् । व्यभिचाराभावे हेतुमाह-पाकादेवावयव ईति- अत्र 'पाकादवयवे' इति पाठो युक्तः, तथा च पाकजत्वेनाभिमतं चित्ररूपमपि नीलेतररूपादिभ्य एवोपजायत इति न तत्र व्यभिचार इति भावः । यदि च पाकस्थले पाकादेवावयविनि चित्ररूपमुपेयते तदा तचित्ररूपमवयवरूपजचित्ररूपतो विजातीयमेव, तथा च विजातीयचित्रत्वावच्छिन्न प्रति नीलेतररूपत्यादिना हेतुत्वम् , विजातीयचित्रत्वावच्छिन्नं प्रति चावच्छेदकत्वसम्बन्धावच्छिन्ननीलजनका निसंयोगादिनिष्टप्रतियोगिताकामावा रूपजनकविजातीयामिसयोगाश्च हेतब इत्येवमुपगमेऽपि न दोष इत्याह-पाकजचित्रस्वीकारे चेति । नीलेतरत्वादिना' इति स्थाने 'नीलेतररूपरवादिना' इति पाठो युक्तः । संयोगस्याव्याप्यवृत्तित्वेनावयविनि समवायेन वर्तमानो नीलजनकाग्निसंयोगादिरवयवेऽप्यवच्छेदकतासम्बन्धेन वर्तते, नीलजनकाग्निसंयोगादवयविनि नीलरूपमेवोत्पद्यते पीतजनका. ग्निसंयोगादवयविनि पीतरूपमेवोत्पद्यते, एवं रक्तादिजनकाग्निसंयोगादितो रक्तादिरेवोत्पद्यत इत्यतस्तेषां चित्ररूपोत्पत्तो