________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
-
-
-
-
श्चिद् विप्रतिपयुद्भावनम् , तदपि न रमणीयम्- विशिष्टस्य विशिष्टाधेयताया वाऽनतिरिकत्वादिति दिक् ।
तत्र साम्प्रदायिकाः-- "नानारूपवदवयवारब्धे वस्तुनि नील-पीतादिभिरेकं सम्भूय चित्रं रूपमारभ्यते, न च सामग्रीसत्त्वान्नीलादिभिः नीलादेरपि तत्र जननापत्तिः ? अगत्या नीलेतररूपादेनीलादिकं प्रति प्रतिबन्धकत्वकल्पनात्, प्रतिबन्धकतावच्छेदकः सम्बन्धः स्वसमवायिसमवेतत्वम्, प्रतिबध्यतावच्छेदकश्च समवायः; चित्रत्वावच्छिन्नेऽपि नीलेतर-पीतेतररूपत्वादिनैव हेतुता, तेन न केवलनीलकपालारब्धे चित्रोत्पत्तिप्रसङ्गः। यत् तु- 'अवयवनिष्ठनीलाभावादिषट्कस्यैव चित्रं प्रति हेतुत्वम् वायिकारणकत्वेऽपि नीलरूपासमवायिकारणकत्वाभावात् , किन्तु चित्ररूपमेष नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकं चेति चित्ररूपमुपादायैव निरुक्तरूपत्वलक्षणपक्षे निरुक्तविधिरूपसाध्यं सिद्धयतीति प्राचीनाभिलषितचित्ररूपसिद्धिः, नवीनमते नीलरूपासमवायिकारणक नीलरूपमेव, पीतरूपासमवायिकारणकं पीतरूपमेवेति न नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वे पीतरूपासमवायिकारणकवृत्तित्वमिति निषेधकोटिस्तदैव सैद्धमर्हति यदि चित्ररूपं न भवेदेवेति । ताश. विप्रतिपत्त्युद्भावनस्याऽरमणीयत्वे हेतुमुपदर्शयति-विशिष्टस्येति-नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वस्य शुद्धरूपत्वानतिरिक्तत्वेन शुद्धरूपत्वस्य पीतरूपासमवायिकारणके पीतरूपे सत्त्वे विशिष्टरूपत्वस्यापि तत्र सत्तया चित्ररूपाभावेऽपि पीतरूपासमवायिकारणकवृत्तित्वस्य तत्र सत्वेन विधिकोटौ सिद्धसाधनात् , तनिषेधस्य तंत्राभावेन निषेधकोटौ बाधाच्चेत्याशयः । यथा च विशिष्टस्य शुद्धानतिरिक्तत्वं तथा विशिष्टाधेयताया अपि शुद्धाधेयतातोऽनतिरिक्तत्वमेवेति तत्साधने सिद्धसाधनं तदभावसाधने बाधः स्यादेवेत्याह-विशिष्टाधेयताया येति- तवृत्तित्वविशिष्टस्य तत्रैव सत्त्वमिति नियमच विशिष्ट-शुद्धयोरनरिक्तत्वाभ्युपगन्त्रा नाभ्युपेयत एवेत्याशयः। यदि च विशिष्टस्य शुद्धानतिरिक्तत्वेऽपि विशिष्टनिरूपिताधिकरणत्वं शुद्धनिरूपिताधिकरणतातो व्यतिरिक्तमेव, तत एवं 'गुणो गुण-कर्मान्यत्वविशिष्टसत्तावान्' इति प्रतीतेने प्रमात्वम् , गुण-कर्मान्यत्वविशिष्टसत्तानिरूपिताधिकरणताया गुणेऽभावादिति विभाव्यते, तदा 'नीलरूपासमवायिकारणवृत्तित्वविशिष्टरूपत्वनिरूपिताधिकरणत्वं पीतरूपासमवायिकारणकवृत्ति नवा ?' इत्यपि विप्रतिपत्तिः सम्भवतीति बोध्यम् ।
एवं विप्रतिपत्ती सत्यां प्राचां मतं प्रथमत उपदर्शयति-तत्रेति । साम्प्रदायिकाः प्राचीनमतानुसारिणः । ननु समवायसम्बधेन नीलं प्रति स्वसमचायिसमवेतत्वसम्बन्धेन नीलं कारणम्, एवं समवायसम्बन्धेन पीतादिकं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतादिकं कारणमित्येवं कार्यकारणभावस्य मतद्वयेऽप्युपगमादवयगतनीलादितो यथाऽवयविनि चित्ररूपस्यैकस्योत्पत्तिस्तथोक्तकारणघटितसामग्रीबलानीलादीनामप्युत्पत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । तत्र नानारूपवदवयवारब्धेऽवयविनि, यद्यत्र कस्यचित् प्रतिबन्धकत्वं न कल्प्येत तदोकसामग्रीबलात् स्यादेव नीलादितो नीलाद्युत्पत्त्यापत्तिः, अतः समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपस्य प्रतिबन्धकत्वम्, एवं समवायेन पीतं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतेतररूपस्य प्रतिबन्धकत्वम् , इत्येवं दिशा रक्तादिकं प्रत्यपि रक्ततररूपादेः प्रतिबन्धकत्वम् , तथा च समवायसम्बन्धेन नीलं प्रति यथा स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणं तथा स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्न नीलेतररूपनिष्ठप्रतियोगिकाभावोऽपि प्रतिबन्धकाभावविधया कारणमिति तद्घटितकारणकूटलक्षणसामन्यभावान्न नानारूपपवदवयवारब्धेऽवयविनि नीलरूपोत्पत्तिः, नवा पीतादिरूपोत्पत्तिरिति निषेधहेतुमुपदर्शयति- अगत्येति-प्रतिबध्य-प्रतिबन्धकभावकल्पनाऽतिरिक्तगत्यभावेनेत्यर्थः । 'नीलेतररूपादे' इत्यत्रादिपदात् पीतेतररूपादेरुपग्रहः, 'नीलादिकम' इत्यत्रादिपदात् पीतादेरुपग्रहः । ननु समवायसम्बन्धेन नीलं प्रति यथा स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणं तथा समवायसम्बन्धेन चित्रं प्रत्यपि स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपं कारणमिति यत्र कपालदयेऽपि नीलरूपमेव तत्रापि तदारब्धघटे चित्ररूपं स्यात् सामग्रीसत्त्वादित्यत आहचित्रत्वावच्छिन्नेऽपीति । 'पीतेतररूपरवादिना' इत्यत्रादिपदाद्रक्तररूपत्वादेरुपग्रहः । एवकारेण चित्रत्वावच्छिन्ने प्रति नीलस्वादिना कारणत्वस्य व्यवच्छेदः, तथा च चित्रत्वावच्छिन्न प्रति नीलेतररूपत्वेनैक कारणत्वम्, एवं पीतेतररूपत्वेन कारणत्वमित्येवं दिशा षट् कारणानि, तथा च केवलनीलकपालारधे घटे न चित्रोत्पत्तिप्रसङ्गः, तत्र पीततररूपादिलक्षणकारणपञ्चकस्य सत्त्वेऽपि नीलेतररूपलक्षणकारणस्याभावादित्याह-तेनेति-- उक्तदिशा षड्विधकार्यकारणभावस्याभ्युपगमेनेत्यर्थः । 'केवलनीलकपालारब्धे' इति तु 'केवलपीतकपालारब्धे इत्यादीनामप्युपलक्षणम् । यत् विति'अवयवनिष्ठनीलाभावादिषदकस्यैव' इत्येवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः, अत्र समवायसम्बन्धः कार्यताक