________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
साधनं वा । यत् तु- 'नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकम् , नवा ? इति विप्रतिपत्तिः' इति, तन्न- नीलरूपासमवायि कारणस्य नीलस्य पक्षत्वे बाधात् , चित्ररूपस्य पक्षत्वे आश्रयासिद्धः । यदपि- 'नीलरूपासमवाथिकारणकवृत्तित्वविशिष्टरूपत्वं पीतरूपासमवायिकारणवृत्ति, नवा ?' इति केषाकरण्येन साध्याभावनिश्चयलक्षणश्च बाधः प्रतिबन्धक इति पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितौ तु पक्षतावच्छेदकावच्छेदेन साध्याभावनिश्चयलक्षणबाध एव प्रतिबन्धको न पक्षतावच्छेदकसामानाधिकरण्येन साध्याभावनिश्चयलक्षणो बाधः प्रतिबन्धकः, प्रकृते तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वलक्षणसाध्यानुमितिरभिमतेति तत्र नीलात्वावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः प्रतिबन्धको न तु नीलत्वसामानाधिकरण्येन नीलान्यरूपासमवायिकारणत्वाभावनिश्चय इति भावः । सिद्धसाधनं वेति-पक्षतावच्छेदकावच्छेदेन साध्यानुमितौ पक्षतावच्छेदकावच्छेदेन साध्यनिश्चय एव सिद्धसाधन विधया प्रतिबन्धको न तु पक्षतावच्छेदकसामानाधिकरण्येन साध्यनिश्चयः, पक्षतावच्छेदकसामानाधिकरण्येन साध्यानुमितौ तु पक्षतावच्छेदकावच्छेदेन साध्यनिश्चयः पक्षतावच्छदेकसामानाधिकरण्येन साध्यनिश्चयश्च प्रतिबन्धकः, तत्र प्रथमे प्रतिबध्यप्रतिबन्धकभावश्च प्रकृतपक्षतावच्छेदकव्यापकविधेयप्रतियोगिकविधेयतावच्छेदकसम्बन्धावच्छिन्न प्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकाचच्छिन्नविशेष्यताका नुमितित्वावच्छिन्न प्रतिबध्यतानिरूपितप्रकृतपक्षतावच्छेदकव्यारेकविधेयप्रतियोगिकविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपित प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकत्वमिति, द्वितीये प्रतिबध्य-प्रतिबन्धकभावश्च निर्विशेषितविधेयतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्न प्रतिबध्यतानिरूपितविधेयतावच्छेदकसम्बन्धावच्छिन्न प्रकृतसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितप्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यताकनिश्चयत्वावच्छिन्न प्रतिबन्धकतेति, प्रकृते तु नीलस्वावच्छेदेन नीलान्यरूपासमवायिकारणत्वाभाविधेयकानुमितिनव्यमतेऽभिमता, तां प्रति नीलत्वावच्छेदेनैव नीलान्य. रूपासमवायिकारणत्वाभावनिश्चयः सिद्धसाधनविधया विरोधी, त च स प्राचीनमते समस्ति, किन्तु नीलत्वसामानाधिकरध्येन नीलान्यरूपासमवायिकारणत्वाभावनिश्चयः समस्ति, न च स प्रतिबन्धक इत्याशयः। अस्यां विप्रतिपत्तौ प्रसिद्धमेव नीलरूपं पक्षीकृतम्, नीलान्यरूपासमवायिकारणत्वमपि पीतादौ प्रसिद्धमेव, तचेन्नीले चित्ररूपासमवायिकारणत्वमादायैव सिद्धयति सदभावोऽपि नीले चित्ररूपासत्त्वमुपादायैद सिद्धयतीति युक्तेयं विप्रतिपतिः ।
विप्रतिपत्त्यन्तरे पराभिप्रेतमुद्धाव्य प्रतिक्षिपति- यत् स्विति । 'नीलरूपासमवायिकारणकम् । इति पक्षनिर्देशः, 'पीतरूपासमवायिकारणकम्' इति साध्यनिर्देशः प्राचाम्, 'नवा' इति साध्यनिर्देशो नव्यानाम्, अत्र नीलरूपासमवायि. कारणकत्वेन प्राचीन नवीनोभयमतसिद्धं नीलरूपमेव, तद् यदि पक्षस्तहि तत्र पीतरूपासमवायिकारणकत्वं नास्ति, नहि कोऽपि नीलं प्रति पीतरूपस्याऽसमवायिकारणत्वं स्वीकरोतीति प्राचीनैस्तथासाधने बाध एक, नवीनैस्तदभावसाधने सिद्धसाधनमेव, प्राचीनैरपि नीलरूपे पीतरूपासमवायिकारणकत्वाभावस्योपगमात् , प्राचीनमतेन नीलरूपासमवायिकारणकत्वेन सिद्धं चित्ररूपमपि, तस्य पक्षत्वे आश्रयासिद्धिरेव, वादि-प्रतिवाद्युभयसिद्धस्यैव पक्षत्वं नैकतरमात्रसिद्धस्येत्याशयेनोक्तविप्रतिपत्ति प्रतिक्षिपति-तन्नेति-सिद्धसाधनदोषापेक्षया बाधदोषस्य प्रबलत्वात् तन्मात्रोपन्यास इति बोध्यम् ।।
अन्यामपि वाद्यन्तराभिमतां विप्रतिपत्तिमुद्भाव्य प्रतिक्षिपति- यदपीति, 'नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वम्' इति पक्षनिर्देशः, 'पीतरूपासमवायिकारणवृत्ति' इति स्थाने स्पष्टप्रतिपत्तये 'पीतरूपासमवायिकारणकवृत्ति' इति पाठो युक्तः, स च प्राचीनमते साध्यनिर्देशः, 'नवा' इति निषेधकोटिनव्यानाम् , अत्र नीलरूपासमवायिकारणक नीलरूपं चित्ररूपं च प्राचीनमते, तत्र नीलरूपमुपादाय नीलरूपासमवायिकारणवृत्तित्वविशिष्टरूपत्वमुभयमतसिद्धं भवति पक्षः, पीतरूपासमवायिकारणकमपि प्राचीनमते पीतरूपं चित्ररूपं च, तन्त्र पीतरूपमुपादाय पीतरूपासमवाधिकारणकवृत्तित्वलक्षणं साध्यं प्राचीन-नवीनोभयमतेऽपि रूपत्वे पीतरूपत्वे च सिद्धम् , तद्वत्तित्वविशिष्टस्य तत्रेय सत्वमिति नियमेन नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वं नीलरूपासमवायिकारणकवृत्त्येव भवितुमहेति, एवं च तन्त्र पीतरूपासमवायिकारणकवृत्तित्वं तदैव सैद्धमर्हति यदेव रूपं नीलरूपासमवायिकारणकं तदेव यदि पौतरूपासमवायिकारणकमपि भवेत्, न च नीलरूपं पीतरूपं वा तथा, नीलरूपस्य नीलरूपासमवायिकारणकत्वेऽपि पीतरूपासमवायिकारणकत्वाभावात् , पीतरूपस्य पीतरूपासम