________________
६४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । चित्ररूपपक्षेऽप्ये तावन्त एव, चित्ररूपे नीलेतररूपादिषट्कस्य, नीलादौ च नीलादिषट्कस्य हेतुत्वम् , नीलेतरादिषट्कस्य च नीलादौ प्रतिबन्धकत्वमित्यादिनाऽऽधिक्याभावात् , वस्तुतोऽवच्छेदकतया नीलादौ स्वसमवायिसमवेतद्रव्यसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपादिविशिष्टनीलत्वादिनैव हेतुत्वम् , न च नीलेतरत्वाद्यवच्छिन्नं प्रति नीलविशिष्टनीलेतरत्वादिना हेतुत्वेन विनिगमकाभावः, नीलत्वापेक्षया नीलेतरत्वस्य गुरुत्वात् , इत्थं च, अभिनिष्कर्षेऽस्माकं द्वादशैव कार्यकारणभावा इति लाघवाद्" इत्याहुः, तद. सत्-चित्ररूपस्वीकारपक्षेऽपि नीलादौ नौलेतरादिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रारब्धे नीलाद्यनुत्पत्ति
पीतरूपस्य तत्र सत्त्वात् , उक्तदिशा त्रयाणां षट्कार्यकारणभावानां सम्मेलने अवयविगताव्याप्यवृत्तिनानारूपाभ्युपगमपक्षेऽष्टादश कार्यकारणभावा भवन्तीत्याह-इत्यव्याप्यवत्तित्वपक्ष इति । चित्ररूपपक्षेऽप्यष्टादश कार्यकारणभावा इति नाव्याप्यवृत्तिरूपाभ्युपगमापेक्षया तत्पक्षे लापत्रम्, किन्वतिरिक्तचित्ररूपमभ्युपगन्तव्यमिति तत्कल्पनप्रयुक्तगौरवमित्युपदर्शयति-चित्ररूपपक्षेऽपीति । एतावन्त एव अष्टादश एव कार्यकारणभावाः । कथं तत्राष्टादश कार्यकारणभावा इत्यपेक्षायामाह-चित्ररूप इति । 'नीलेतररूपादि' इत्यादिपदात् पीतेतररूपादेरुपग्रहः । ‘नीलेतररूपादिषट्कस्य' इत्यस्य 'हेतुत्वम्' इत्यनेन सम्बन्धः। 'नीलादी' इत्यादिपदात् पीतादेरुपग्रहः, एवं नीलादि' इत्यत्रापि। नीलपीतकपालद्वयारब्धघटे नीलाद्युत्पत्तिवारणाय नीलादौ नीलेतररूपादिषट्कस्य प्रतिबन्धकत्वमिति नीलेतररूपाभावादिषट्कस्य नीलादौ कारणत्वमित्याह-नीलेतरादिषट्रकस्य चेति- अत्र · नीलेतररूपादिषदकस्य च' इति पाठो युक्तः । अव्याप्यवृत्तिरूपवादी स्वपक्षे द्वादश कार्यकारणभावा एवेत्युपदर्शनेन अष्टादशकार्यकारणभावाभ्युपगन्तृचित्ररूपवाद्यपेक्षया लाघवमावेदयितुमाह-वस्तुत इति । 'नीलादौ' इत्यत्रादिपदात् पीतादेरुपग्रहः, 'नीलेतररूपादि' इत्यादिपदात् पीतेतर. रूपादरूपग्रहः, यत्रैकस्मिन् कपाले नीलरूपमयरस्मिन् कपाले पोतरूपम् , तादृशकपालद्वयारब्धघटे जायमाननीलस्यावच्छेदकतया नीलकपाले उत्पत्तिरुक्तकार्यकारणभावबलात् सम्भवति, यतः स्वं नीलेतररूपं पीतरूपम्, तत्समवायि पीतकपालम् , तत्समवेतद्रव्यं तदुभयारब्धघटः, तत्समवायि नीलकपालम्, तत्समवेतत्वं तत्कपाल नीले समस्तीति तेन सम्बन्धेन नीले. तररूपविशिष्ट नील तत् कपालनोलम्, तत् समवायसम्बन्धेन तस्मिन् कपाले वर्तत इति तद्रूपकारणबलात् तद्धटनीलरूपं तन्त्रावच्छेदकतयोत्पद्यत इति तद्धटनीलस्य भवत्यव्याप्यवृत्तित्वम् , यत्र तु नीलकपालद्वयादेव नीलघट उत्पद्यते तत्र तदारम्भके कपाले नैकस्मिन्नपि निरुक्तसम्बन्धन नीलेतररूपविशिष्टनीलरूपमिति ने तत्रावच्छेदकतया नीलोत्पत्तिसम्भव इति तदुघटनोलरूपस्य भवति व्याप्यवृत्तित्वमिति । अत्र विनिगमकाभावात् कार्यकारणभावमाशङ्कय प्रतिक्षिपति-न चेति । 'नीलेतरत्वाद्यवच्छिन्नम्' इति स्थाने 'नीलेतररूपत्वाद्यवच्छिन्नम् ' इति पाठो युक्तः, आदिपदात् पीतेतररूपत्वादेरुपग्रहः । 'नीलविशिष्टनीलेतरत्वादिना' इति स्थाने 'नीलविशिष्टनीलेतररूपत्वादिना ' इति पाठो युक्तः, अत्रा. दिपदात् पोतविशिष्टपीतेतररूपत्वादेग्रहणम् , यत्रावयवद्वये एकजातीयमेव नीलादिरूपं तत्रावयविन्यप्येकमेव नीलादिकम्, तस्याप्यव्याप्यवृत्तित्वं न सम्भवति, यतोऽवयविनि यदि नीलरूपं तस्य पीतेतररूपत्व-रक्ततररूपत्वाद्यन्यतमलक्षण कार्यतावच्छेदकाकान्तत्वं सम्भवति तत्र पीतविशिष्टपीतेतररूपाद्यन्यतमस्यैव कारणत्वं स्यात्, न च पीतविशिष्टपीतेतररूपाद्यन्यतमस्य तत्र सत्वमिति, यत्र तु नील-पीतावयवाभ्यामारब्धेऽवयविनि नील-पीतोभयरूपं तत्र नीलरूपं पीतेतररूपत्वलक्षणकार्यता. पच्छेदकावच्छिन्नं भवति, तत् प्रति पीतविशिष्टपीतेतररूपं यत् कारणं तदपि समस्तीति तस्याव्याप्यवृत्तित्वमुपपद्यते, एव. मुक्कदिशा पीतरूपस्यापि तत्राव्याप्यवृत्तित्वमुपपन्न मिति, एवमुक्तदिशा विनिगमकाभावात् षण्णां कार्यकारणभावान्तराणां प्राप्तावष्टादश कार्यकारणभावा अव्याप्यवृत्तित्वपक्षेऽपि स्युरिति शङ्कितुरभिप्रायः । निषेधे हेतुमाह-नीलत्वापेक्षयेति । 'नीलेतरत्वस्य' इति स्थाने नालेतररूपत्वस्य ' इति पाठो युक्तः। नव्यमतवादी स्वमतमुपसंहरति- इत्थं चेति'वस्तुतः' इत्यादिमन्थोक्तदिशा कार्यकारणभावोररीकारे वेत्यर्थः ।।
प्राचीनमतानुयायी नवीनमतं प्रतिक्षिपति- तदसदिति । — नीलादौ' इत्यत्रादिपदात् पतिादग्रहणम् । 'नीलेतरादि' इति स्थाने नालेतररूपादि ' इति पाठो युक्तः, तत्रादिपदात् पीतेतररूपादेः परिप्रहः, अन्न प्रतिबध्यतावच्छेदकसम्बन्धः समवायः, प्रतिबन्धकतावच्छेदकसम्बन्धश्च स्वसमवायिसमवेतत्वम् , समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन यदि नीलं न कारणं तर्हि शुक्लमात्रावयवारब्धे घटे शुक्लमेव रूपं भवति कथं न नीलमिति नाशनायम्, तत्र