SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपवेशः । निर्वाहात् ,नीलादौ नीलादिहेतुत्वाकल्पनात् कार्यकारणभावसङ्ख्यासाम्यात् , अव्याप्यवृत्तिनानारूप-तत्प्रागभाव-ध्वंसादिकल्पने परं परस्यैव गौरवात्। किञ्च, अव्याप्यवृत्तिरूपपक्षेऽवच्छेदकतासम्बन्धेन रूपे उत्पन्ने पुनस्तेनैव सम्बन्धेनावयवे रूपोत्पत्तिवारणायाऽवच्छेदकतासम्बन्धेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूपं प्रतिबन्धकं कल्पनीयमिति गौरवम् , न चावयविनि समवायेनोत्पद्यमानमेवावयवेऽत्रच्छेदकतयोत्पत्तुमर्हतीत्यवयविनि रूपस्य प्रतिबन्धकस्य सत्वेन रूपसामध्यभावादेव नावयवेऽवच्छेदकतया तदा रूपोत्पत्तिरिति वाच्यम् , एवं ह्यवयविनिष्ठरूपाभावोऽवच्छेदकतासम्बन्धेन रूपं प्रति हेतुर्वाच्यः, तथा च नानारूपवत्कपालारब्धघटस्य नीलरूपादेर्नीलकपालिकावच्छेदेनाऽनुत्पत्तिप्रसङ्गात् , तदवयविनि कपाले रूपसत्त्वात् , अपि च, नील पीतवत्यग्निसंयोगान् कपालनीलनाशात् तदवच्छेदेन रक्तं न स्यात् समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्धकत्वात् , तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्पने चातिगौरवम् । नीलप्रतिबन्धकस्य नीलेतररूपस्य सत्त्वेन तदभावरूपकारणाभावादेव नीलोत्पत्तेस्तत्रासम्भवात् , एवं पीतेतररूपादेः पोतरूपादिप्रतिबन्धकस्य तत्र सत्त्वेन तदभावरूपकारणाभावान्न पीताद्युत्पत्तिरपि, श्वेतरूपप्रतिबन्धकस्य श्वेतेतररूपस्य तत्राभावादेव तदलाच्छेतरूपोत्पत्तिस्तत्र सम्भवति, तथा च नीलादौ नीलादिषट्कस्य हेतुत्वाकल्पनाच्चित्ररूपपक्षेऽपि द्वादशैव कार्यकारणभावा इति वादद्वयेऽपि कार्यकारणभावसङ्ख्यासाम्यमित्याह-कार्यकारणभावसङ्ख्यासाम्यादिति । ननु भवतु मतदयेऽरि कार्यकारणभावसङ्ख्यासाम्यम् , तथाऽपि चित्ररूप-तत्त्रागभाव-तद्धंसादिकल्पनगौरवं प्राचीनमते समस्तीत्यत आह-अव्याप्यवृत्तीति- यत्र प्राचार्मक चित्र तत्प्रागभावादि तत्र नव्यानामनेकान्यव्याप्यवृत्तिरूपाणि तत्प्रागभावध्वंसादयश्चेति नव्यानामेव गौरवम् । परमित्यस्य किन्त्वित्यर्थः । परस्य नव्यमतानुयायिनः । नव्यमते गौरवान्तरमप्युपदर्शयति-किञ्चति । तेनैव सम्बन्धेन अवच्छेदकतासम्बन्धेनैव । ननु यदेव रूपं समवायेनावयविन्युत्पद्यते तदेव तदवयवेऽच्छेदकतासम्बन्धेनोत्पद्यते मान्यत् , अवयविनि समवायेन रूपस्योत्पत्त्यनन्तरं च न पुना रूपस्य समवायेनोत्पत्तिः, तदर्थ च समवायेन रूपं प्रति समवायेन रूपस्य प्रतिबन्धकत्वं तदभावस्य च कारणत्वम् , तथा च समवायेन रूपोत्पत्तिकारणस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकरूपाभावस्य समवायेन रूपोत्पत्त्यनन्तरमभावात् पुनः समवायेन रूपं नोत्पद्यत इत्यत एवावच्छेदकतासम्बन्धेनाप्यवयवे रूपं पुनर्नोत्पत्तुमहतीति नावच्छेदकतासम्बन्धेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूपस्य प्रतिवन्धकत्व कल्प्यत इति न तत्कल्पना प्रयुक्तगौरवमित्याशङ्कय प्रतिक्षिपति- न चेति । तदा रूपोत्पत्त्यनन्तरम् । समवायसम्बधेन रूपं प्रति कारणीभूतस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकरूपामावस्यावयविनिष्टस्यैवावच्छेदकतासम्बन्धेन रूपं प्रत्यपि कारणत्वमायातम् , तथा च नानारूपवत्कपालद्वयारब्धे घटे यद् नील-पीतादि नानारूपं तस्याव्याप्यवृत्तित्वं तदेव स्याद् यदि नीलकपालिकावच्छेदेन घटे नीलरूपं पीतकपालिकावच्छेदेन पीतरूपमित्युपगम्येत, कपाले तूभयरूपस्यैव भावेन तदवच्छेदे. नैकैकरूपसमावेशस्य कर्तुमशक्यत्वात् , तथा च घंटे जायमानं नीलादि यदि अवच्छेदकत या कपालिकायामप्युपजायत तदा स्यात् तस्य कपालिकावच्छिन्नत्वम् , तच्च न सम्भवति घटे नीलाद्युत्पत्तितः प्रागेव कपाले समवायेन नीलादेः सत्त्वेन समवायसम्बन्धावच्छिन्न प्रतियोगिताकनीलाभावस्य कपालरूपावयविनिष्ठस्य तदानीमभावेन तद्रूपकारणाभावात् कपालिकायामवच्छेदकतासम्बन्धेन नीलात्पत्तरसम्भवेन तघटेऽपि नीलरूपादेनीलकपालिकाद्यवच्छेदेनोत्पत्त्यसम्भवादिति निषेधहेतुमुपदर्शयति-एवं हीति । 'निष्ट' इति स्थाने 'निष्ट' इति पाठः । 'नील कपालिकावच्छेदेन' इति स्थाने 'नीलकपालिकाद्यवच्छेदेन ' इति पाठो युक्तः । तदवयविनि नीलकपालिकाद्यवयविनि । दोषान्तरमाह-अपि चेति । नील-पीतवतीति- यत्र नील-पीतकपालद्वयारब्धे नील-पोतोभयवति घंटेऽग्निसंयोगाद् नीलकपालस्य नीलनाशात् पीतकपालावच्छेदेन विद्यमानपीतरूपवत्येव घटे विनष्टनीलकपालावच्छेदेन रक्तरूपमुपजायते तद्न स्यात्, समवायसम्बन्धेन रूप प्रति समवायसम्बन्धेन रूपं प्रतिबन्धकमिति रूपत्वेन रूपेण रक्तरूपस्यापि प्रतिबध्यतया समवायेन तत् प्रति रूपत्वेन रूपेण प्रतिबन्धकीभूतस्य नीलरूपस्य समवायेन तस्मिन् घटे सत्त्वेन समवायसम्बन्धावच्छिन्न प्रतियोगिताकरूपाभावलक्षणकारणस्य तनाऽभावादित्यर्थः । तदवच्छिम्नरूप इति-समवायेन तदवच्छिन्नरूपं प्रति समवायेन तदवच्छिन्नरूपं प्रति
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy