________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः।
--
-
___ अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतुः, रक्त-नीलारब्धे रक्तनाशकपाकेन व्याप्यवृत्तिनीलोत्पत्ती चावयविनि नीलाभावाभावान्नावच्छिन्ननीलोत्पत्तिः, केवलनीले पाकेन कचिद् रक्तोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत् ? न-नील-पीत-श्वेताचारब्धे श्वेत्ताधवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षया, एक. चित्रकल्पनाया एवं लघुत्वात् । अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया नीलादिकं प्रत्येव समवायेन नीलादेहेतुत्वम् , न चैवं घटेऽपि तया नीलाधुत्पत्तिः, अवयवनीलत्वेन द्रव्यविशिष्टनीलत्वेन बन्धकम् , तदभावस्तदवच्छिन्नरूपं प्रति कारणम् , तथा च यस्मिन् नीलकपाले नीलरूपविनाशस्तकपालावच्छिन्नघटीयरूपे रक्कात्मके तत्कपालावच्छिन्नस्यैव रूपस्य समवायन प्रतिबन्धकत्वेन तस्य तस्मिन् घटेऽभावात् तद्रूपकारणसत्त्वेन तत्कपालमवच्छिन्नरकरूपं समवायेन घटे स्यादेवेत्युपगमे चातिगौरवमित्यर्थः ।
नध्यमतानुयायी शङ्कते-अथेति । अत्र समवायसम्बन्धेनावच्छिन्ननीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलाभावस्य कारणत्वमित्येतावताऽवयवगतस्य नीलाभावस्य कारणत्वं लभ्यते, समवायसम्बन्धेनावच्छिन्नील प्रति विशेषणतासम्बन्धेन नीलाभावस्य कारणत्वमित्यतश्चावयविगतस्य नीलाभावस्य कारणत्वम्, एवं समवायसम्बन्धेनाऽवच्छिमपीतादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन पीताभावादीनां विशेषणतासम्बन्धेन च पीताभावादीनां कारणत्वमित्येवं द्वादश कार्यकारणभावाः, तथा च यत्रावयवद्वयगतं नीलरूपमेव तत्रावयविनि नावच्छिन्ननीलोत्पत्तिः सम्भवति, अवयवगतनीलाभावरूपकारणस्याऽभावात् , यत्र त्वेकस्मिन्नवयवे नीलमपरस्मिन् पीतम् , तदुभयारब्धे घटे पीतकपालगतनीलाभावस्य नीलकपालगतपीताभावस्य सत्त्वादवच्छिन्न नीलस्यावच्छिन्नपीतस्य चोत्पत्तिः सम्भवति, यत्र तु नील-पीतवत्यग्निसंयोगात् कपालनीलनाशात् तत्कपालावच्छिन्नरक्तस्योत्पत्तिस्तत्रावयच गतरक्ताभावोऽपि विद्यतेऽवयविगतरक्ताभावोऽपीति । अवयविगतनीलाभावादिषट्कस्य कारणत्वाभ्युपगमस्य प्रयोजनमुपदर्शयति- रक्त-नीलारब्ध इति- यत्रैकं कपालं रक्तमपरं च नीलम् , तदुभयारब्ध. रक्त-नीलघटे रक्तनाशकपाकेन कपालगतस्य घटगतस्य च रक्तस्य नाशतो घटे व्याप्यवृत्तिनीलस्योत्पत्तिस्तत्र तदुत्पत्तितः प्राग् रकनाशकाले एकस्मिन् कपाले नीलरूपस्य सत्त्वेऽप्यपरस्मिन् कपाले न किञ्चिद्रूपमिति तद्गतनीलाभावस्य स्वाश्रयंसमवेतत्वसम्बन्धेन घटे सत्त्वेऽपि कपालान्तरावच्छेदेन तत्र समवायेन नीलस्यैव सत्त्वेनाक्यविगतनीलामावस्याभावान्नावच्छिन्ननीलोत्पत्तिः, अवयविगतनीलाभावस्य कारणत्वाभावे त्ववयवमतनीलाभावस्य तत्र सत्वादवच्छिन्ननीलोत्पत्यापत्तेः, अतोऽवयविगतनीलाभावस्यापि कारणत्वमित्यर्थः । केवलनीलकपालाभ्यामारब्धे केवलनीलघटे एकस्मिन् कपाले पाकेन नीलनाशतो यत्र रकोत्पत्तिस्तत्रावविनि रक्कमप्यव्याप्यवृत्ति नीलमप्यव्याप्यवृत्ति भवति, परं तत्रैकस्मिन् कपाले नीलनाशे तद्वतनीलाभावस्य सत्त्वेऽप्यपरस्मिन् कपाले नीलस्य सत्त्वतो घटेऽपि नीलस्य सत्सया घटगतनीलाभावस्यावच्छिन्ननीलकारणस्याऽभावेन तद्रूपकारणाभावात् कथं तत्रावच्छिमनीलोत्पत्तिरिति न वाच्यम्, तत्र घटगतस्य नीलस्य नाशादेवावच्छिन्नोत्पत्तिरित्यवयविगतमीलाभावस्यापि तत्र सस्वमस्त्येवेत्यर्थः ।
उक्ताशयां प्राचीनमतानुयायी प्रतिक्षिपति- नेति । नील-पीतेति-नील-पीत-श्वेतकपालैरारब्धे नील-पीत-प्रेतरूपवति घटे श्वेतावच्छेदेन नीलजनकपाके सति तदवयवावच्छेदेनापि तत्र नीलमुत्पद्यते तदर्थ पूर्वनीलस्थ नाशो घटेऽप्युपेयः, अन्यथाऽक्यविगतनीलाभावस्याभावात् तदवयवावच्छिन्नं नील न स्यात् , एवं च यस्मिन्नवयवे नीलमस्त्येव तदवयवावच्छिन्नमपि नीलं घटे उत्पन्नम् , यस्मिन्नवयवे वेतनाशतो नालमुत्पन्नं तदवयवावच्छिन्नमपि घटे नीलमुत्पन्न मिस्येवं नानानीलकल्पनापेक्षयैकचित्ररूपकल्पनाया एवं लघुत्लादित्यर्थः। ननु व्याप्यवृत्तिरूपस्याप्यवच्छेदकतयाऽवयवे सत्त्वमुपेयत एव, नीलकपालद्वयारम्धनीलघटस्यापि व्याप्यवृत्तिनीलरूपमवच्छेदकतया कपाले उत्पद्यत एत्र, एवं च नील-पीतकपालटूयारब्धनील-पीतरूपद्वयवघटस्य यद् नीलरूपं तद् नीलकपालेऽवच्छेदकतयोत्पद्यते, न पीतकपाले, पीतरूपं चावच्छेदकतया पातकपाले, न नीलकपाले इत्यस्योपपत्तये अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलं कारणम् , एवमवच्छेदकतासम्बन्धेन पीसादिकं प्रति समवायसम्बन्धेन पीतादिकं कारणमित्येवोररी क्रियते इत्याशङ्कते- अथेति । 'व्याप्यवृत्तिरूपस्याप्यघच्छेदकतया नीलाकि प्रत्येव' इति स्थाने 'व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया सत्त्वाभ्युपगमेनावच्छेदकतया नीलादिकं प्रत्येव ' इति पाये युक्तः । नीलादिकम् ' इत्यात्रादिपदात् पीतादेरुपग्रहः, एवं 'नीलादेः' इत्यत्रापि ।