________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
वा तद्धेतुत्वात् , न च नीलमात्र-पीतमात्रकपालिकाद्वयारब्धनील-पीतकपाले तदापत्तिः, नीलकपालिकावच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात् , अस्तु वा तया नीलादौ नीलेतररूपादेरेव विरोधिस्वमिति चेत् ? न- नीलादौ नीलेतररूपादिप्रतिबन्धकत्वेनैवोपपत्तौ तत्र नीलादिहेतुतायां मानाभावेन नानारूपवदवयवारब्धे चित्ररूपस्यैकस्यैव प्रामाणिकत्वात् , व्याप्यवृत्तेरवच्छेदकायोगात्, नीलेतरादौ नीलादेः प्रतिबन्धकत्वेऽविनिगमाच्च । यदि च स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं हेतुरुपेयते, नीलपीताधारब्धस्थले च स्वाश्रयसम्बन्धेन नीलरूपस्य पीतकपालेऽपि सम्भवेन व्यभिचारादुक्तसम्बन्धेन ननु घटेऽपि समवायेन नीलादिकं वर्तत इति तत्राप्यवच्छेदकतया नीलादेरुत्पत्त्यापत्तिरित्याशा प्रतिक्षिपति-न चेति । पवम् अवच्छेदकतासम्बधेन नीलादिकं प्रति समवायेन नीलादेहेतुत्वाभ्युपगमे। 'घटेऽपि' इत्यत्र घटपदं रूपाधिकरणत्वमवयविमात्रस्योपलक्षणम् । तया अवच्छेदकतया । अवच्छेदकतासमबन्धेन नीलादिकं प्रति समवायसम्बन्धेनावयवनीलत्वादिना द्रव्यविशिष्टनीलत्वादिना वा हेतुत्वमभ्युपगम्यते, घटवृत्तिनीलं च नावयववृत्तिनीलं नवा द्रव्यविशिष्टनीलमतो न घटेऽप्यवच्छेदकतया नीलायुत्पत्त्यापत्तिरिति निषेधहेतुमुपदर्शयति-अवयवनीलत्वेनेति । 'द्रव्य. विशिष्टनीलत्वेन' इत्यत्र नीले द्रव्यस्य वैशिष्ट्यं स्वसमवायिसमवेतत्वसम्बन्धेनेति बोध्यम् । तद्धेतुत्वात् अवच्छेदकतासम्बन्धेन नौलं प्रति हेतुत्वात् । ननु नील-पीतकपालिकाद्वयारब्धं यद् नील-पीतरूपद्वयवत्कपालं तत्रावच्छेदकतासम्बन्धेन नील-पीताद्युत्पत्तिः स्यात् तत्कपालरूपस्यावयवनोलस्वादिलक्षणकारणतावच्छेदकधर्माकान्तत्वेन तस्य तत्र सत्त्वादित्याशय प्रतिक्षिपति-न चेति । कपालिकाद्ये व्याप्यवृत्त्येव रूपमित्यावेदनाय 'नीलमात्र- पीतमात्र' इति । तदापत्तिः अवच्छेदकतासम्बन्धेन नील पीताद्युत्पत्यापतिः । कपाले यद् नीलं तद् नीलकपालिकावच्छिनकपालावच्छेदेनोत्पद्यते, कपाले यत् पीतरूपं तत् पीतकपालिकावच्छिनकपालावच्छेदेनोत्पद्यत इत्यस्योपगन्तुं शक्यत्वेन तदापत्तेरिष्टापत्त्या परिहर्नु शक्यत्वादिति निषेधहेतुमाह-नीलकपालिकावच्छिन्नेति । तदवच्छेदेन कपालावच्छेदेन । 'नीलकपालिकावच्छिन' इति स्थाने 'नीलकपालिकाद्यवच्छिम' इति पाठो युक्तः । तदुत्पत्तेः नील-पीताद्युत्पतेः, यत्र नीलाभ्यामेव कपालिकाभ्या नीलमेव कपालमुत्पन्न ततो यदि तत्र नीलघट उत्पद्यते तदा तत्र नीलघटे उत्पयमानस्य नीलरूपस्यावच्छेदकतया नीलकपाले उत्पत्तिरिष्टैव, यदि च तत्र कपाले नौल घटो नोत्पद्यते तदा तत्कपालगतं नीलं द्रव्यविशिष्टं नीलं न भवति, तस्मिन् कपाले समवायेन द्रव्यस्याभावेन स्वसमवायिसमवेतत्वसम्बन्धेन द्रव्यविशिष्टत्वस्य तत्राऽभावात् , अत एव य द्रव्यविशिष्टनीलत्वस्य कारणतावच्छेकतयोपदर्शनं कृतमिति बोध्यम् । नील- पीतकपालिकाद्वयारब्धनील-पीतकपाले यद्यवच्छेदकतया नीलोत्पत्तिर्नेष्टा तदा वाह-अस्तु वेति- एतेन यस्मिन्नवयव नीलमात्रं तस्मिन्नेवावच्छेदकतया नीलोत्पत्तिरिति तत्र नीलमात्रकपालिकायामेवावच्छेदकतया नीलं पीतमात्रकपालिकायामेवावच्छेदकतया पीतमित्याशयः । प्राचीनमतानुयायी उकाशकां प्रतिक्षिपति-नेति । तत्र नीलादौ । व्याप्यवृत्तेरवच्छेदकमभ्युपगम्य कार्यकारणभावो य उपदर्शितः सोऽपि न युक्तः, व्याप्यवृत्तेरवच्छेदकस्यैवाभावादित्याह-व्याप्यवृत्तरिति । यथा च नीलादौ नीलेतररूपादेः प्रतिबन्धकत्वं तथा नीलेतररूपादौ नीलादेरपि विनिगमनाविरहात् प्रतिबन्धकत्वमापद्यत इत्याह-नीलेतरादावितिअत्र 'नीलेतररूपादो' इति पाठो युक्तः, नील पीतकपालाभ्यामारब्धे घटे नीलानीलं पीतात् पीतमापद्यत इत्यतः समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपस्य प्रतिबन्धकत्वं चित्ररूपवादिनाऽवश्यमभ्युपेयम् . एवं समवायेन पीतादिकं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन पीतेतररूपादेः प्रतिबन्धकत्वमित्येवं दिशा षण्ण प्रतिबध्य-प्रतिबन्धकभावानामावश्यकत्वे प्रतिबन्धकाभावस्य कारणत्वमाश्रित्य षण्णां कार्यकारणभावानामावश्यकत्वमित्यपि नास्ति, स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायन नीलरूपं. कारणमित्येवं दिशैव कार्यकारणभावश्चित्ररूपवादिनाऽभ्युपेयः, तथा च नील-पीतकपालाभ्यामारमधे घटे यदि नीलरूपमुपेयते तदा तद् नीलरूपं स्वं नीलरूपम् , तदाश्रयो घटो नीलकपाले वर्तते पीतकपालेऽपि च वर्तते, तदात्मकसम्बन्धेन पीतकपालेऽपि स्यात्, न च पीतकपाले नीलकपालगतं नीलरूपं नीलरूपव्यापकसमवायन समस्ति, नीलरूपव्यापकसमवायस्य नीलरूपवत्येव भावादिति कारणाभावेऽपि कार्योत्पत्तौ व्यतिरेकव्यभिचार आपतेत् , अतो न तत्र नीलरूपमुत्पद्यते, उक्तदिशैव न पीतरूपं किन्तु चित्ररूपमेवोत्पद्यत इत्येतावतैव निर्वाह नीलं प्रति नीलेतररूपस्य पीतं प्रति पीततररूपस्य रकादिकं प्रति रक्तररूपादेः प्रतिबन्धकत्वं न चित्ररूपवादिना कल्पनीयमित्यतिलापवं चित्ररूपवादे इत्याह- यदि चेति। उक्तसम्बन्धेन स्वव्यापकसमवायेन । तत्र नौल-पीताद्यारब्धघटे।