________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । हेत्वभावादेव न तत्र नीलोत्पत्तिरिति विभाव्यते तदा नीलं प्रति नीलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमित्यतिलाघवम् । एवं च 'सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्या नीलहेतुः' इत्यपि निरस्तम् , सामानाधिकरण्यस्थ व्याप्यवृत्तित्वेन तत्सम्बन्धावच्छिन्न प्रतियोगिताकनीलेतराभावासत्त्वाचेति बहवः सम्प्रदायमादधते ।
केचित् तु-"विजातीयचित्रं प्रति स्वविजातीयत्व-स्वसंवलितत्वोभयसम्बन्धेन रूपविशिष्टरूपत्वेनैव हेतुत्वम् , स्ववैजात्यं च चित्रत्वातिरिक्तं यत् स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् , स्वसंवलितत्वं च स्वसमवायिसमवेतद्रव्यसमवायिवृत्तित्वम् , न च स्वत्वाननुगमः सम्बन्धमध्ये एव तत्प्रवेशात्, सम्बन्धाननुगमस्य चादोषाद्" इत्याहुः । तदा नीलं प्रति' इति स्थाने 'तदा नीलादिकं प्रति' इति पाठो युक्तः, आदिपदात् पीतादेरुपग्रहः। 'नीलेतर रूपादेः' इत्यत्रादिदात् पीतेतररूपादेः परिग्रहः । एवं च नीलादिकं प्रति नीलेतररूपादेः प्रतिबन्धकवं चित्ररूपवादिना न कल्पनीयमिति व्यवस्थितौ च, नील-पीताभ्यामारब्धे नील-पीतरूपति घटे नीलावयवावच्छेदेन नीलरूपमुत्पद्यते पीतावयवावच्छेदेन पोतरूपमुत्पद्यते, न तु पीतावयवावच्छेदेन नीलरूपस्थ नीलावयवावच्छेदेन पीतस्योत्पत्तिप्रसङ्ग इत्यस्योपपत्तये अव्याप्यवृत्तिरूपवादिनेत्थं कार्यकारणभाव आश्रीयते । “नीलेतराभावः' इत्यस्य स्थाने 'नीलेतररूपाभावः' इति पाठो युक्तः । समानावच्छेदकत्वप्रत्यासत्त्येति- अवच्छेदकतासम्बन्धेन नीलं प्रति सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतररूपाभावोऽवच्छेदकतासम्बन्धेन हेतुरित्यर्थः, तथा च सामानाधिकरण्यसम्बन्धन नीलेतररूपं पीतकपालावच्छेदेन तस्मिन् घटे वतेते, सामानाधिकरण्यसम्बन्धस्य नीलेतररूपस्य पीतकपालावच्छेदेनैव भावादिति तत्सम्बन्धावच्छिन्नप्रतियोगिताको नीलेतररूपाभावो नीलकपालावच्छेदेन तत्र वर्तत इति सोऽभावोऽवच्छेदकतया नीलकपाले समस्ति, ततो नीलरूपमपि घटगतं नीलकपाल एवावच्छेदकतयोत्पद्यत इत्यपि नव्यानां कल्पनं गौरवादेव निरस्त मिति । किच, सामानाधिकरण्यस्य व्याप्यवृत्तितया तस्य निरवच्छिन्नस्वरूपेशैव सत्त्वं न तु किञ्चिदवच्छेदेन, तेन सम्बन्धेन नीलेतररूपमपि तस्मिन् घटे निरवच्छिन्नतयैव वर्तत इति सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताकनीलेतररूपाभावस्यू तस्मिन् घटेऽसत्त्वादेव तस्यावच्छेदकतया नीलं प्रति कारणत्वासम्भवादित्याह- सामानाधिकरण्यस्येति । तत्सम्बन्धेतिसामानाधिकरण्यसम्बन्धेत्यर्थः। इति एवंप्रकारेण । बहवः बहवोऽपि विद्वांसः । सम्प्रदायमादधते प्राचीनमतं व्यवस्थापयन्ति । ..
. प्राचीनमतमेव प्रकारान्तरेणोपपादयता केषाछिन्मतमुपदर्शयति- केचित् त्विति- अस्य 'आहुः' इत्यनेन सम्बन्धः । विजातीयचित्रं प्रतीति- पाकजचित्र विजातीयचित्रं प्रतीत्यर्थः । स्वविजातीयत्वेति- यत्र नील-पीतकपालाभ्यामारब्धे घटे चित्ररूपमुत्पद्यते तत्र, रूपं नीलरूपम् , तद्विशिष्टं पीतरूपम् , पीतरूपे नीलरूपस्य स्वविजातीयत्वसम्बन्धोऽपि परिष्कृतोऽस्ति, यतश्चित्रत्वातिरिक्तं यत् स्ववृत्ति- नीलवृत्ति नीलत्वं रूपत्वादि च, तद्भिन्नधर्मः पीतत्वम्, तत्समवायित्वं पीतत्वे वर्तते, स्वसंबलितत्वसम्बन्धोऽपि निरूप्यमाणः समस्ति, यतः स्वं नीलरूपम्, तत्समवायि कपालम् , तत्समवेतद्रव्यं घटः, तत्समवायि पीतकपालम्, तद्वत्तित्वं पीतरूपे वर्तत इति, तथा च नीलरूपविशिष्टपीतरूपलक्षणकारणस्य स्वसमवायिसमबेतत्वसम्बन्धेन तस्मिन् घटे सत्त्वात् तत्र विजातीयचित्रमुत्पद्यत इति, नील-पीतादीनां रूपत्वेन साजात्यस्य सत्वात् कथं नीलरूपविजातीयत्वं पीतरूपस्येत्यतः स्वविजातीयत्वं पारिभाषिकं निरुतम्, तत्र 'चित्रत्वातिरिक्तम्' इति यदि स्ववृतविशेषणं नोपादीयते तदा चित्राभ्यां कपालाभ्यामारब्धे घटे यचित्ररूपमुत्पद्यते तत्र रूपविशिष्टरूपत्वेन चित्ररूपविशिष्टचित्ररूपमेव कारणं वाच्यम्, तत्रैकपालचित्ररूपस्य स्वविजातीयत्वसम्बन्धोऽपरकपालचित्ररूपे न स्यात्, यतः स्वमेककपालचित्ररूपम् , तद्वत्ति चित्रत्व-रूपत्वादिकम् , तद्भिन्नधर्मसमवायित्वस्याऽपरकपालचित्ररूपे न सत्वमिति, तदुपादाने च चित्रत्वातिरिक्तं स्ववृत्ति न चित्रत्वं किन्तु रूपत्वाव, तद्भिनधर्मश्चित्रत्वम्, तत्समवायित्वमपरकपालचित्ररूपे समस्तीति, स्वसंवलितत्वमपि यदि स्वसामानाधिकरण्यं तदैककपालनीलरूपस्य सामानाधिकरण्यमपरकपालपीतरूपेऽभावात् तन स्थादतः ‘स्वसमवायि' इत्यादि तन्निर्वचनम्। स्वत्वाननुगममाशय सम्बन्धमध्यप्रविष्टस्वत्याननुगमदोषस्यादोषत्वोपदर्शनेन परिहरति-न चेति । तत्प्रवेशात स्वत्वस्य प्रवेशात् ।