________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
परे तु-" नीलपीतोभयाभाव-पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकानां ( समवायसम्बन्धावच्छिन्न प्रतियोगिताकानां च ) विजातीयपाकोमयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावश्चित्रत्वावच्छिन्नं प्रति हेतुः" इत्याहुः ।।
रूपत्वेनैव चित्रं प्रति हेतुत्वम् , कार्यसहभावेन चित्रेतराभावस्याहेतुत्वेनानतिप्रसङ्गादित्यन्ये ।
परे तु-" चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुत्वम् , नील-पीतोभयारब्धवृत्तिचित्रत्वान्तरवैलक्षण्यावच्छिन्ने च नील-पीतोभयत्वेन हेतुता, एवं तत्रितयारब्धे तत्रितयत्वेन नील-पीतोभयादिमात्रारब्धे च नीलपीतादीतररूपत्वेन प्रतिबन्धकत्वान्न त्रितयारब्धचित्रवति द्वितयारब्धवप्रसङ्गः, न चैवं गौरवम् ; प्रामा
प्राचीनमतसमर्थन एवापरेषां मतमुपदर्शयति-परे विति-अस्य 'आहुः' इत्यनेन सम्बन्धः । 'नीलपीतो. भयाभाव-पीतरक्कोभयाभावादीनाम' इत्यत्रादिपदात् नीलरतोभयाभाव-नीलश्वेतोभयाभाव-रक्तश्वतोभयाभाव-पीतश्वतोभयाभावादीनां नील-पीत-रतत्रयाभावादीनां च ग्रहण, तेषां यावतामभावश्च नील-पीतोगयस्य पीत-रतोभयादश्चैकैकस्य स्वसमवायिसमवेतत्वसम्बन्धेन सत्त्वेऽपि चित्ररूपोत्पत्तिनिर्वहतीति । “विजातीयपाकोभयाभावादीनामितिअनादिपदाद् विजातीयपाकत्रयाभावादीनामुपग्रहः, विजातीयपाकोभयश्च नीलजनकतेजस्संयोगपीतजनकतेजस्संयोगोभयनीलजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभय-पीतजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभयादिरूपः, एवं विजातीयपाकत्रयं च नीलजनकतेजस्संयोग-पीतजनकतेजस्संयोग-रक्तजनकतेजस्संयोगत्रयादिरूपम् , समवायसम्बन्धावछिन्नप्रतियोगिताकतदभावानां च यावन्मध्ये प्रवेशाद् यावत्त्वावच्छिन्नप्रतियोगिताकतदभावश्च प्रत्येकं नीलजनकतेजस्संयोग पीतसंयोगोभयादेरैकैकस्य समवायसम्बन्धेन सत्त्वेऽपि सम्भवतीति यत्किञ्चित्पाकोभयतोऽपि चित्ररूपोत्पत्तिनिर्वाह इत्येकस्यैव निरूकाभावस्य चित्रत्वावच्छिन्नं प्रति कारणत्वे न कोऽपि दोष इति ।
अन्येषां मतमुपदर्शयति-रूपत्वेनैवेति- एक्कारेण नीलेतररूपस्वादिना हेतुत्वस्य व्यवच्छेदः । नन्वेवं नीलकपालद्वयारन्धघटेऽपि चित्ररूपं स्यात् , तत्रापि समवायसम्बन्धेन चित्रं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कारणस्य रूपत्वेन नीलरूपस्य सत्त्वादित्यत आह- कार्यसहभावेनेति । 'चित्रेतराभावस्याहेतुत्वेन' इति स्थाने 'चित्रेतररूपाभावस्य हेतुत्वेन ' इति पाठो युक्तः, तथा च तत्कपालावच्छेदेन समवायसम्बन्धेन चित्ररूपं प्रति समवायसम्बन्धावच्छिन्न प्रतियोगिताकचित्रेतररूपाभानस्य स्वरूपसम्बन्धेन हेतुत्वमिति नीलकपालद्वयाभ्यामारब्धे घंटे समवायसम्बन्धन नीलरूपमुत्पद्यत इति समवायसम्बन्धेन चित्रेतररूपस्य नीलस्य तस्कपाले सत्त्वेन तदभावरूपकारणाभावान्न तत्र चित्ररूपोत्पत्यापत्तिः, नील-पीतकपालदमारब्धघटे तु चित्ररूपमेवोत्पात इति तत्कपाले समवायसम्बन्धेन चित्रेतररूपस्य नीलादेस्तत्राभावात् तदभावरूपकारणस्य सत्त्वमित्याशयः ।
मतान्तरमाह-परे विति-अस्य 'आहुः । इत्यनेन सम्बन्धः। 'रूपत्वेनैव' इत्येवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः। नन्वेवं नील-पीतकपालाभ्यामारब्धे घंटे यादृशं चित्रं ततो विलक्षणं चित्रं नील-रक्त-कपालाभ्यामारब्धे घटे, एवं नील-पीत-रक्तकपालेरारब्धे घटे, तदेतत्कार्यतावच्छेदकचित्रत्वस्य कारणतावच्छेदकरूपत्वस्याविशिष्टत्वेन नीलपीतोभयारब्धघटवृत्तिचित्ररूप-नीलपातरक्तकपालत्रयारब्धघटवृत्तिचित्ररूपादिवलक्षण्यस्यानिबन्धनस्यैव भावे तस्य नियमो न स्यादित्यत आह-नील-पीतोभयेति । 'चित्रत्वान्तर' इति स्थाने 'चित्रत्वावान्तर ' इति पाठो युक्तः, तथा च नील-पीतोभयारब्धं यचित्ररूपम् , तवृत्ति यचित्रत्वावान्तरवैलक्षण्यं चित्रत्वव्याप्यचित्रत्वविशेषलक्षणसामान्यम्, तदवच्छिन्ने नील-पीतोभयत्वेन हेतुत्वमित्यर्थः । एवम् उक्तप्रकारेण । तत्रितयेति- नील-पीत-रक्तत्रयारब्धचित्ररूपवृत्तिचित्रत्वव्याप्यजातिविशेषावच्छिन्ने नील-पीत-रक्तत्रितयत्वेन हेतुत्वमित्यर्थः । तत्रितयत्वेन' इत्यनन्तरं हेतुता' इत्यनुवर्तते । ननु यत्र नील-पीत-रक्ततन्तुभिश्चित्रपट उत्पद्यते तत्र तन्तुद्वयगतनील-पीतरूपाभ्यामपि पटगतविजातीयचित्ररूपं स्यादित्यत आह-नील-पीतोमयादिमात्रारब्धे चेति- आदिपदादु नील-रक्तोभयादरुपग्रहः । नील-पीतादि। इत्यादिपदाद् नील-रक्तादेप्रेहणम् द्वितयारब्धत्वप्रसङ्गः' इत्यस्य स्थाने 'द्वितयारब्धस्य प्रसङ्गः' इति पाठो युक्तः । उक्त प्रतिबध्यप्रतिबन्धकभावकल्पनगौरवस्य. प्रामाणिकत्वेनाऽदोषत्वमुपदर्शयति-न चैवमिति । एवम् उक्तप्रकारेण प्रतिबध्यप्रतिबन्धकभावाभ्युपगमे । यथा चोक्तत्रितयारब्धस्थले उक्तप्रतिबध्यप्रतिबन्धकभावकल्पनमन्तरेणापि न द्वितयारन्ध