Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
४८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
इति वचनं ज्ञानाकारविशेषोपलभूकमेव ३ । युगपद्विधि-निषेधात्मनाऽवक्तव्यत्वमुख्यविषयताकश्चतुर्थस्य, तादृशो बोधोऽवक्तव्यपदस्य खण्डशः शक्त्या कारितो विशेषशक्त्या वेन्यन्यदेतत् । न चानुभयवचनेनैवास्य गतार्थताऽऽशङ्कनीया, अनुभयस्यैकतर प्राधान्यपर्यवसायित्वेनाद्यमङ्गद्वयान्तर्भावानतिक्रमात । न च, उभयपदेन युगपदुभयप्राधान्यबोधसम्भवादवक्तव्यत्वभङ्गोऽनुत्थानोपहत एव, यथा पुष्पदन्तपदाचन्द्रत्व-सूर्यत्वाभ्यां चन्द्र-सूर्ययोर्युगपदेव बोधस्तथोभयपदेन सत्त्वाऽसत्ताभ्यां युगपदेकोभ यात्मकवस्तुबोधसम्भवाद्, अत एष "पुष्पदन्तौ पुष्पदन्तावेकोक्त्या शशि-भास्करौं" [
] इत्युक्तेः 'एकोक्त्या' इत्यस्य 'एकया शक्त्या' इत्यर्थः, पुष्पदन्तस्य हि चन्द्र-सूर्ययोरेका शक्तिः, शक्यतावच्छेदकत्वं तु चन्दत्व-सूर्यत्वयोर्व्यासज्जवृत्तीत्युपगमः, तद्वदुभयपदस्यापि प्रकृते शबलवस्तुन्येका शक्तिः, शक्यतावच्छेदकत्वं तु सत्त्वाऽसत्त्वयोप्सञवृत्तीति किं न स्यादिति वाच्यम् , पुष्पदन्तपदवदुभयपदस्यासाधारणत्वाभावात् , बुद्धिविषयतावच्छेदकत्वादस्त्यादिधर्मद्वयावच्छिन्नबोधकत्वे च प्राधान्ये नोभया कारबोधासिद्धेः । किञ्च, व्यासज्जवृत्तिशक्यतावच्छेदकताकस्य पदस्य द्विवचनान्तस्यैव साधुत्वेन न पुष्पदन्तपदवदनोभयपदस्य ताश इति-- अवक्तव्यपदस्थ युगपविधि-निषेधरूपेऽर्थेऽवक्तव्यत्वरूपे च पृथगंव शक्तिः, तादृशशक्तितस्तादृशो वोध: कारित:जनित:, वा-- अथवा, युगपद्विधिनिषेधारमनाऽवक्तव्यत्वरूपेऽर्थेऽवक्तव्यपदस्य शसिविशेषः, तेन तादृशो वोधो जायत इति वादान्तरम् , सर्वथा तथाबोधश्चतुर्थभन्नाद् भवतीति । ननु 'स्यादवक्तव्यः' इति स्थाने 'स्वादनुभयम्' इत्येव प्रयुज्यताम् , क्रमेण यदुभयं तन्नेत्यर्थतो युगपदुभयप्राधान्यप्रतीतिसम्भवादित्याशङ्कय प्रतिक्षिपति-न चेति- अनुभयवचनेनैवाऽस्य गतार्थता न चाऽऽशनीयेत्यन्वयः । क्रमेण यदुभयप्राधान्यं तत्प्रतिक्षेपकस्यानुभयस्यैकतरप्राधान्येनाप्युपपत्तः, एकतरप्राधान्यप्रतिपादनं च प्रथम-द्वितीयभनाभ्यामेव क्रियत इति 'स्यादनुभयम्' इत्यस्याद्यमद्वय एवान्तर्भावात् 'स्थादवक्तव्यः' इति चतुर्थभको युगपविधि-निषेधात्मनाऽवक्तव्यत्वमुख्यविषयताकबोधजनक आवश्यक इति निषेधहेतुमुपदर्शयति- अनुभयस्यैकतरेति । ननु 'स्यादुभयम्' इत्यनेन युगपदुभयप्राधान्यवोधसम्भवेन 'स्यादवक्तव्यः' इति चतुर्थमनः प्रयोजनान्तराभावादनुत्थानोपहत इत्याशङ्कथ प्रतिक्षिपति-- न चेति-अस्य 'वाच्यम्' इत्युत्तरेण सम्बन्धः । पुष्पदन्तपदेन यथा युगपदेव चन्द्रत्वसूर्यत्वाभ्यां चन्द्र-सूर्ययोर्बोधस्तथैवोभयपदेन युगपदेव सत्वा-ऽसत्त्वाभ्यामुभयात्मकवस्तुनो बोध इति दृष्टान्तावष्टम्भन समर्थयति-यथेति । अत एव पुप्पदन्तपदस्य युगपदेव चन्द्रत्व सूर्यत्वाभ्यां चन्द्र-सूर्योभयबोधकत्वादेव । 'पुष्पदन्तो' इत्येकस्य स्थाने 'पुष्पवन्तौ' इति पाठो युक्तः । दृष्टान्त दार्शन्तिकयो: साम्यं भावयति-पुष्पदन्त पदस्य हीति । 'व्यासज्जवृत्ति' इति स्थाने 'व्यासज्यवृत्ति' इति पाठो युक्तः, एवमप्रेऽपि, व्यासज्यवृत्तित्वं चेकत्वानवच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वम् , तथा च पुष्पदन्तपदशक्यतावच्छेदकत्वं चन्द्रत्व-सूर्यत्वयोस्तगतद्वित्वावच्छदेन पर्याप्तम् , एवमुभयपदशक्यतावच्छेदकत्वं सत्त्वाऽसत्त्वयोस्तद्गतद्वित्वावच्छेदेन पर्याप्तमित्यर्थः । पुष्पदन्तपदं नियमतश्चन्द्र-सूर्योभयप्रतिपादकत्वादसाधारणम् , नैवमुभयपदम् , पदान्तरासमभिव्याहृतस्य तस्य सामान्यत उभयमात्रप्रतिपादकत्वेन प्राधान्येनाऽस्तित्व नास्तित्वोभयाप्रतिपादकत्वात् , प्रतिपाद्यस्य विशिष्यार्थावगतये हि वाक्यं प्रयुज्यते, न च स्यादुभयम्' इत्यतो विशिष्यार्थावगतिः, अत एव विशिध्यार्थावगतये पदान्तरसमभिव्याहृतमेवोभयपदं प्रयुज्यः॥ इति निषेधहेतुमुपदर्शयति-पुष्पदन्त पदवदिति । गनु ‘स्यादस्त्येव' इत्यनेनाऽस्तित्वस्य 'स्यान्नास्त्येव' इत्यनेन नास्तित्वस्य 'स्यादस्त्येव, स्यान्नास्त्येव' इत्यनेन क्रमेणाऽस्तित्व-नास्तित्वोभयस्य च प्रतिपत्ती बुद्धिविषयतावच्छेदकमस्तित्व-नास्तित्वोममिति तदनन्तरं प्रयुज्यमानेन 'स्यादुभयम्' इत्यनेन युद्धिविषयतावच्छेदकत्वादस्तित्वनास्तित्वधर्मद्वयावच्छिन्नायबोधो भविष्यतीत्यत आह- वृद्धिविषयतेति- उभयत्वेन रूपोभयपदादस्तित्व-नास्तित्वधर्मद्वयावच्छिन्नबोधस्य सम्भवेऽपि तादृशबोधाकारः 'उभयम्' इत्येव स्यान्न तु प्राधान्येनास्तित्व-नास्तित्वोभयाकार इति तादृशबोधस्याभिलषितस्यासिद्धेर्न 'स्यादुभयम्' इति चतुर्थभङ्गस्थानेऽभिषेकमहतीति । पुष्पदन्तपदस्य व्यासज्यवृत्तिशक्यता. पच्छेदकताकस्य द्विवचनान्तत्वनियमादुभयपदस्य तत्त्वाभावेन न तथाऽवबोधकत्वमित्याह-किश्चेति । पञ्चमभङ्गस्य फलमुप

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210