Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 77
________________ नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।। तदपेक्षया युगपदुभयथाहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम् । न चैवमपि तजनित. बोधस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने सङ्ग्रह-व्यवहारान्यतरसाम्राज्यमिति वाच्यम् , विषयाबाधे कूटलिङ्गजानुमितिरिव प्रकृतभङ्गाजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशात् । व्यञ्जनपर्याये- शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाञ्च, द्वितीय-तृतीययोनिविकल्पश्च द्रव्यार्थात् सामान्य लक्षणाग्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः, तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, सभभिरूढवंभूतयो स्त्येवेति द्वौ भङ्गो लभ्येते । लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः । प्रथम-द्वितीयसंयोगे चतुर्थः, तेब्बेव चानभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमवचनमार्गाः सम्भवन्ति । अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गो, अवक्तव्यदेशो यद्याहार्यस्तदा तदुत्थतृतीयभजन्यज्ञान प्रसङ्गरूपम् , प्रसङ्गस्य विपर्ययपर्यवसानमिति तद्विपर्ययः सत्त्वावधारणं यदि तदा सङ्ग्रहः, यदि च नास्तित्वावधारणं तदा च्यवहार इत्येवं सङ्ग्रह-व्यवहारान्यतरसाम्राज्यमित्याशङ्कय प्रतिक्षिपति- न चैवमपीति । तजनितबोधस्य आहार्यतदादेशस्वरूपतृतीयभाजनितबोषस्य । आहार्यतदादेशोऽपि ऋजुसूत्रनयापेक्षयेव, वस्तुतस्तु तृतीयभङ्गप्रतिपाद्यं यदवक्तव्यत्वं तदस्त्येव वस्तुनीति तज्ज्ञानं प्रमात्मकमेवेति न तस्य विपर्ययपर्यवसानम् , यत्र देशे वह्निरस्ति तत्र धूलीपटलाद् धूमत्वेन गृहीतात् कूटादपि जायमानस्य वहिज्ञानस्यानुमित्यात्मकस्य विषयाबाधतो यथा प्रमात्वं तथा प्रकृतस्यापि प्रमात्वसम्भवादिति निषेधहेतुमुपदर्शयति-विषयाबाघ इति । उत्तरार्द्ध विवृणोति-व्यञ्जनपर्याय इति। शब्दनयः खलु साम्प्रत-समभिरूद्वैवम्भूतभेदेन त्रिविधः, तत्र सविकल्पः कस्मिन्नित्यपेक्षायामाह-प्रथम इति- साम्प्रताख्ये शब्दनयस्य प्रथमभेदे पुनः सविकल्प इत्यर्थः । 'सविकल्प:' इत्यस्य विकल्पसहित इत्यर्थः, विकल्पश्चात्र पर्यायशब्दवाच्यतालक्षण इत्यभिप्रायेणाह- पर्यायेति- साम्प्रतनये एक एव घटरूपोऽथों घट-कुट-कुम्भ-कलशाधनेकशब्दवाच्यो भवति, तथा चैकस्य शब्दस्य तत्समानार्थकोऽन्यशब्दः पर्यायशब्दः, तद्वाच्यतालक्षणविकध्पसद्भावात् , अर्थस्य अभिधेयस्य घटात्मकस्यैकत्वाच्च साम्प्रतनये सविकल्पक इत्युपपद्यत इत्यर्थः। द्वितीय तृतीययोः शब्दनयस्य द्वितीय-तृतीयभेदयोः समभिरूलैवम्भूतयोः। 'निर्विकल्पश्च' इति कथं घटते ? इत्यपेक्षायामाह-द्रव्यार्थादिति- द्रव्यार्थिकनयविषयात् सामान्यस्वरूपात्, निर्गतस्य- सर्वथा भिन्नस्य, पर्यायात्मकस्य विकल्पस्याऽभिधायकत्वात् , तयोः- समभिरूढैवम्भूतयोः. अत्र निर्गतो विकल्पो वाच्यतया यस्य स निर्विकल्पः, कस्मानिर्गत इत्यपेक्षायां 'सामान्याद' इति, कोऽयं विकल्प इत्यपेक्षायां पर्यायरूप इति बोध्यम् । एतावता शब्दनये को भगः कस्मिन्नये इति न ज्ञायत इति तदवगमायाह-तथा चेति- शब्दनये उकदिशा सविकल्प-निर्विकल्पव्यवस्थितौ चेत्यर्थः । शब्दनये साम्प्रताख्यशब्दनये । समभिरूढेति- समभिरूढवम्भूतयोघंटो घटवाचकयावच्छन्दवाच्यो नास्त्येवेत्यर्थः, एवं च 'घटवाचकयावच्छन्दवाच्यत्वेनास्त्येव घटः' इति प्रथमभङ्गः साम्प्रतनये, 'घटवाचकयावच्छन्दवाच्यत्वेन नास्त्येव घटः' इति द्वितीय भङ्गः समभिरूढैवम्भूतयोरित्येवं सविकल्पो निर्विकल्पश्चेत्यतो द्वौ भनौ लभ्येते इत्यर्थः । 'स्यादवक्तव्यः' इति तृतीयभङ्गं शब्दनये उपपादयति-लिङ्गेति-- लिङ्गभेदेन भिन्नस्यार्थस्यकशब्दावाच्यत्वात् साम्प्रतनये 'स्यादवतव्यः' इति. संशाभेदेन भिन्नस्यार्थस्यैकशब्दावाच्यत्वात् समभिरूढनये 'स्यादवक्तव्यः' इति, क्रियाभेदेन भिन्न-, स्यार्थस्यकशब्दावाच्यत्वादेवम्भूतनये 'स्यादवक्तव्यः' इत्येवं शब्दादिषु तृतीयभङ्ग इत्यर्थः। 'स्यादस्त्येव' इतिप्रथमभा'स्यान्नास्त्येव'इतिद्वितीयभङ्गयोः संयोगे' स्यादस्ति स्यान्नास्ति च' इति चतुर्थभङ्ग इत्याह-प्रथमेति । तेष्वेव चेति-प्रथम द्वितीय चतुर्थेष्वेव चेत्यर्थः । अनभिधेयसयोगे 'स्यादवक्तव्यः' इति तृतीयभङ्गसंयोगे। पञ्चमेत्यादि- प्रथमतृतीभङ्गसंयोगे पञ्चमभङ्गः, द्वितीय-तृतीयसंयोगे षष्टमङ्गः, चतुर्थ-तृतीयसंयोगे सप्तमभङ्ग इत्यर्थः। शब्दनये प्रथम-द्वितीयावेव भाजी न त्वन्ये इति कल्पान्तरमाह- अथवेति । पर्यायान्तरसहिष्णी घटशब्दवाच्यस्य घटस्य कुटादिशब्दा अपि वाचका भक्तोत्यभ्युपगन्तरि शब्दनये साम्प्रताख्ये । सविकल्यो वचनमार्गः सक्किल्पवचनमार्गो घटवाचकयावच्छन्दवाच्यो घटोऽस्त्येवेत्यर्थकः 'स्यादस्त्येव' इति प्रथमो भङ्ग इत्यर्थः । तदसहिष्णौ तु पर्यायान्तरासहिष्णो समभिरूलैवम्भूताख्यशब्दनये पुनः । निर्विकल्पः घटवाचकयावच्छब्दवाच्यो घटो नास्त्येवेत्यर्थकः 'स्यान्नास्त्येव' इति द्वितीयभङ्ग इत्यर्थः ।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210