________________
नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।।
तदपेक्षया युगपदुभयथाहार्यतदादेशसम्भवादवक्तव्यभङ्गोत्थानमनाबाधम् । न चैवमपि तजनित. बोधस्य प्रसङ्गरूपत्वाद् विपर्ययपर्यवसाने सङ्ग्रह-व्यवहारान्यतरसाम्राज्यमिति वाच्यम् , विषयाबाधे कूटलिङ्गजानुमितिरिव प्रकृतभङ्गाजबोधस्य प्रमात्वेन विपर्ययपर्यवसानकदर्थनानवकाशात् ।
व्यञ्जनपर्याये- शब्दनये पुनः सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाञ्च, द्वितीय-तृतीययोनिविकल्पश्च द्रव्यार्थात् सामान्य लक्षणाग्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात् तयोः, तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, सभभिरूढवंभूतयो स्त्येवेति द्वौ भङ्गो लभ्येते । लिङ्ग-संज्ञा-क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः । प्रथम-द्वितीयसंयोगे चतुर्थः, तेब्बेव चानभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमवचनमार्गाः सम्भवन्ति । अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो वचनमार्गः, तदसहिष्णौ तु निर्विकल्प इति द्वावेव भङ्गो, अवक्तव्यदेशो यद्याहार्यस्तदा तदुत्थतृतीयभजन्यज्ञान प्रसङ्गरूपम् , प्रसङ्गस्य विपर्ययपर्यवसानमिति तद्विपर्ययः सत्त्वावधारणं यदि तदा सङ्ग्रहः, यदि च नास्तित्वावधारणं तदा च्यवहार इत्येवं सङ्ग्रह-व्यवहारान्यतरसाम्राज्यमित्याशङ्कय प्रतिक्षिपति- न चैवमपीति । तजनितबोधस्य आहार्यतदादेशस्वरूपतृतीयभाजनितबोषस्य । आहार्यतदादेशोऽपि ऋजुसूत्रनयापेक्षयेव, वस्तुतस्तु तृतीयभङ्गप्रतिपाद्यं यदवक्तव्यत्वं तदस्त्येव वस्तुनीति तज्ज्ञानं प्रमात्मकमेवेति न तस्य विपर्ययपर्यवसानम् , यत्र देशे वह्निरस्ति तत्र धूलीपटलाद् धूमत्वेन गृहीतात् कूटादपि जायमानस्य वहिज्ञानस्यानुमित्यात्मकस्य विषयाबाधतो यथा प्रमात्वं तथा प्रकृतस्यापि प्रमात्वसम्भवादिति निषेधहेतुमुपदर्शयति-विषयाबाघ इति ।
उत्तरार्द्ध विवृणोति-व्यञ्जनपर्याय इति। शब्दनयः खलु साम्प्रत-समभिरूद्वैवम्भूतभेदेन त्रिविधः, तत्र सविकल्पः कस्मिन्नित्यपेक्षायामाह-प्रथम इति- साम्प्रताख्ये शब्दनयस्य प्रथमभेदे पुनः सविकल्प इत्यर्थः । 'सविकल्प:' इत्यस्य विकल्पसहित इत्यर्थः, विकल्पश्चात्र पर्यायशब्दवाच्यतालक्षण इत्यभिप्रायेणाह- पर्यायेति- साम्प्रतनये एक एव घटरूपोऽथों घट-कुट-कुम्भ-कलशाधनेकशब्दवाच्यो भवति, तथा चैकस्य शब्दस्य तत्समानार्थकोऽन्यशब्दः पर्यायशब्दः, तद्वाच्यतालक्षणविकध्पसद्भावात् , अर्थस्य अभिधेयस्य घटात्मकस्यैकत्वाच्च साम्प्रतनये सविकल्पक इत्युपपद्यत इत्यर्थः। द्वितीय तृतीययोः शब्दनयस्य द्वितीय-तृतीयभेदयोः समभिरूलैवम्भूतयोः। 'निर्विकल्पश्च' इति कथं घटते ? इत्यपेक्षायामाह-द्रव्यार्थादिति- द्रव्यार्थिकनयविषयात् सामान्यस्वरूपात्, निर्गतस्य- सर्वथा भिन्नस्य, पर्यायात्मकस्य विकल्पस्याऽभिधायकत्वात् , तयोः- समभिरूढैवम्भूतयोः. अत्र निर्गतो विकल्पो वाच्यतया यस्य स निर्विकल्पः, कस्मानिर्गत इत्यपेक्षायां 'सामान्याद' इति, कोऽयं विकल्प इत्यपेक्षायां पर्यायरूप इति बोध्यम् । एतावता शब्दनये को भगः कस्मिन्नये इति न ज्ञायत इति तदवगमायाह-तथा चेति- शब्दनये उकदिशा सविकल्प-निर्विकल्पव्यवस्थितौ चेत्यर्थः । शब्दनये साम्प्रताख्यशब्दनये । समभिरूढेति- समभिरूढवम्भूतयोघंटो घटवाचकयावच्छन्दवाच्यो नास्त्येवेत्यर्थः, एवं च 'घटवाचकयावच्छन्दवाच्यत्वेनास्त्येव घटः' इति प्रथमभङ्गः साम्प्रतनये, 'घटवाचकयावच्छन्दवाच्यत्वेन नास्त्येव घटः' इति द्वितीय भङ्गः समभिरूढैवम्भूतयोरित्येवं सविकल्पो निर्विकल्पश्चेत्यतो द्वौ भनौ लभ्येते इत्यर्थः । 'स्यादवक्तव्यः' इति तृतीयभङ्गं शब्दनये उपपादयति-लिङ्गेति-- लिङ्गभेदेन भिन्नस्यार्थस्यकशब्दावाच्यत्वात् साम्प्रतनये 'स्यादवतव्यः' इति. संशाभेदेन भिन्नस्यार्थस्यैकशब्दावाच्यत्वात् समभिरूढनये 'स्यादवक्तव्यः' इति, क्रियाभेदेन भिन्न-, स्यार्थस्यकशब्दावाच्यत्वादेवम्भूतनये 'स्यादवक्तव्यः' इत्येवं शब्दादिषु तृतीयभङ्ग इत्यर्थः। 'स्यादस्त्येव' इतिप्रथमभा'स्यान्नास्त्येव'इतिद्वितीयभङ्गयोः संयोगे' स्यादस्ति स्यान्नास्ति च' इति चतुर्थभङ्ग इत्याह-प्रथमेति । तेष्वेव चेति-प्रथम द्वितीय चतुर्थेष्वेव चेत्यर्थः । अनभिधेयसयोगे 'स्यादवक्तव्यः' इति तृतीयभङ्गसंयोगे। पञ्चमेत्यादि- प्रथमतृतीभङ्गसंयोगे पञ्चमभङ्गः, द्वितीय-तृतीयसंयोगे षष्टमङ्गः, चतुर्थ-तृतीयसंयोगे सप्तमभङ्ग इत्यर्थः। शब्दनये प्रथम-द्वितीयावेव भाजी न त्वन्ये इति कल्पान्तरमाह- अथवेति । पर्यायान्तरसहिष्णी घटशब्दवाच्यस्य घटस्य कुटादिशब्दा अपि वाचका भक्तोत्यभ्युपगन्तरि शब्दनये साम्प्रताख्ये । सविकल्यो वचनमार्गः सक्किल्पवचनमार्गो घटवाचकयावच्छन्दवाच्यो घटोऽस्त्येवेत्यर्थकः 'स्यादस्त्येव' इति प्रथमो भङ्ग इत्यर्थः । तदसहिष्णौ तु पर्यायान्तरासहिष्णो समभिरूलैवम्भूताख्यशब्दनये पुनः । निर्विकल्पः घटवाचकयावच्छब्दवाच्यो घटो नास्त्येवेत्यर्थकः 'स्यान्नास्त्येव' इति द्वितीयभङ्ग इत्यर्थः ।