________________
नयामृततरक्षिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः । ऋजुसूत्रयोजनानुपपत्तिः । अत्र यद्धर्मप्रकारकः सङ्ग्रहाख्यो बोधः प्रथमभङ्गफलत्वेनाभिमतस्तद्धर्मा. ऽभावप्रकारको व्यवहाराख्यो बोध एव द्वितीयभङ्गफलत्वेनैष्टव्यः, तेन 'स्याद् घटः' 'स्यान्नीलघटा इत्यादिसामान्य विशेषसङ्ग-ह-व्यवहाराभ्यां न सप्तभङ्गीप्रवृत्तिः, नवकवचन-बहुवचनादिना भङ्गान्तरवृद्धिरित्यवधेयम् । अथ तृतीयभङ्गस्यर्जुसूत्रनिमित्तकतायां किं बीजम् ? युगपत्सत्त्वाऽसत्त्वाभ्यामादिष्टं हि सङ्ग्रह व्यवहारावप्यवक्तव्यमेव ब्रूतः, सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एव नेति चेद् ? ऋजुसूत्रोऽपि कथं तथाऽऽदेष्टुं प्रगल्भताम् ? मध्यमक्षणरूपायाः सत्तायास्तेनाप्युपगमात् , सम्हाभिमतयावद्व्यत्यनुवृत्तसामान्यानभ्युपगमाहजुसूत्रेणाऽवक्तव्यत्वमङ्गो न स्थाप्यत इति चेत् ? सोऽयं प्रत्येकावक्तव्यत्वकृतोऽवक्तव्यत्वभङ्गः, तदुत्थापने च सङ्ग्रहोऽपि समर्थः, ऋजुसूत्राभिमतमध्यमक्षणरूपसत्तानभ्युपगन्त्रा तेनापि तदुत्थापनस्य सुकरत्वादिति चेत् ? अत्रेदमामाति- सङ्ग्रह-व्यवहारौ युगपन्नोभयथाऽऽदेष्टुं प्रगल्भेते स्वानभिमतांशादेशेऽनिष्टसाधनत्वप्रतिसन्धानात् , ऋजुसूत्रस्य तु वर्तमानपर्यायमात्रग्राहिणस्तियंगूलताधारांशान्यतररूपं सामान्यम् अन्यापोहरूपो विशेषश्चेति द्वावपि संवृतावेवेति
तृतीये ऋजुसूत्रयोजनानुपपत्तिरिति । 'स्यादस्त्येव' इत्येवं प्रथमभङ्गे सति स्यान्नास्त्येव' इत्येवमेव द्वितीयभङ्गप्रवृत्त्या सप्तभङ्गीप्रवृत्ति न्यथेत्युपदर्शयति-अत्रेति । तेन प्रथमभङ्गजन्यबोधप्रकारीभूतधर्माभावप्रकारकव्यवहाराख्यबोधस्यैव द्वितीयभङ्गफलतयेष्टत्वेन । 'स्याद् घटः' इति प्रथमभङ्गफलत्वेन घटत्वप्रकारकः सङ्ग्रहाख्यो बोधोऽभिमत इति घटत्वाभावप्रकारको व्यवहाराख्यो बोधो द्वितीयभङ्गफलत्वेनेष्टः स्यात् , तथाविधश्च बोधः स्यादघटः' इत्यत एव सम्भवतीति 'स्यादघटः' इत्येव द्वितीयभङ्गो न 'स्यान्नीलघटः' इति घटत्वलक्षणसामान्यविषयकसङ्ग्रह-नीलघटत्वलक्षणविशेषविषयकव्यवहाराभ्यां सप्तभङ्गीप्रवृत्तिन संभवति, तथा सामान्यमेकमाप्रित्यैकवचन मिति तद्विषयकः सङ्कहः, अनेकान् विशेषान् समाश्रित्य बहुवचन मिति तद्विषयको व्यवहार इति ताभ्यां 'स्याद् घटः, स्याद् घटाः' इत्येवं दिशाऽपि भवान्तरवृद्धयाऽमजयादिप्रवृत्तिरपि न सम्भवतीत्याह- 'स्याद् घटः' इति । 'स्यादवक्तव्यः' इति तृतीयो भङ्ग ऋजुसूत्र इत्युपदर्शितम् , तत्र युक्तिमपश्यन् परः शङ्कते- अथेति । अत्र कस्यचित् समाधानं प्रतिक्षेप्तुमाशङ्कते--सङ्गह-व्यवहाराविति । उभयथा सत्वाऽसत्त्वाभ्याम् । सङ्ग्रहः सत्त्वमभ्युपगच्छतीत्यतः सत्त्वादेशसमयेऽसत्त्वं कथं स आदिशतु ?, एवं व्यवहारोऽपि सङ्ग्रहाभिमत. सत्वप्रतिपक्षमसत्त्वमभ्युपगच्छतीत्यतोऽसत्त्वादेशसमये सत्त्वं कथं स आदिशतु? इत्यभिसन्धानेन यदि भवतोच्यते'सङ्ग्रह-व्यवहारौ युगपदुभयथाऽऽदिशत एवं नैति' इति तर्हि मध्यमक्षणरूपसत्त्वमभ्युपगच्छन्नूजुसूत्रस्तदादेशसमये तद्विपक्षमसत्वं कथमादिशत्वित्याह- ऋजुसूत्रोऽपीति । तथाऽऽदेण्टुं युगपदुभयथाऽऽदेष्टुम् । मध्यमक्षणरूपाया: सत्ताया वर्तमानकक्षमात्रसत्त्वलक्षणायाः सत्तायाः। तेनाऽपि ऋजुसूत्रेणापि । समाधानान्तरमाशङ्कते- सङ्ग्रहाभिमतेति- 'भङ्गो न स्थाप्यते' इत्यस्य स्थाने 'भङ्ग उत्थाप्यते' इति पाठो युक्तः, तथा च सङ्ग्राहाभिमतं यद् यावव्यत्यनुवृत्तं सामान्यं तस्यास्वीकाराद् ऋजुसूत्रेण तथाभूतसामान्यरूपमस्तित्वं वक्तव्यं न भवतीत्यतस्तदवक्तव्यत्वतः सत्वाऽसत्त्वेऽपि युगपदादिष्टे न वक्तव्ये इत्यवक्तव्यत्वमङ्ग इत्य मृजुसूत्रेणोत्थाप्यत इत्यर्थः। उक्तसमाधान दूषयति-सोऽयमिति । तदुत्थापने प्रत्येकावक्तव्यत्वकृतावक्तव्यत्व भनोत्थापने। तेनापि सङ्ग्रहेणापि । तदुत्थापनस्य अवक्तव्यत्वभजोत्थापनस्य। उक्ताशङ्कायां ग्रन्थकारः स्वमनीषासमुपढौकितं समाधानमुपदर्शयति- अत्रेदमामातीति- उक्काशङ्कायामनन्तरमेवाभिधीयमानं समाधानमस्माकं हृदये स्फुरतीत्यर्थः । उभयथा सत्त्वाऽसत्त्वाभ्याम् । स्वेति-- सङ्ग्रहस्य स्वानभिमतांशस्य नास्तित्वस्याऽऽदेशेऽनिष्टसाधनत्वज्ञानात् , व्यवहारस्य स्वान भिमतांशस्यास्तित्वस्याऽऽदेशेऽनिष्टसाधनत्वप्रतिसन्धानात् , अनिष्टसाधनताज्ञानलक्षणप्रतिबन्धकसद्भावात् स्वानभिमतांशाऽदेशाऽसम्भवादित्यर्थः । ऋजुसूत्रस्तु युगपदुभयथाऽऽदेष्टुं प्रगल्भत इत्याह-ऋजुसुत्रस्य त्विति । 'वर्तमानपर्यायमात्रग्राहिणः' इति ऋजुसूत्रस्य विशेषणम् . मते' इति शेषः। द्वापि निरुक्तस्वरूपी सामान्य-विशेषावपि । संवृतावेव काल्पनिकावेव । तदपेक्षया ऋजुसूत्रनये काल्पनिकसत्त्वाऽसत्यापेक्षया । तदादेशति- सत्त्वा-ऽसत्त्वोभयादेशेत्यर्थः । ननु यदि ऋजुसूत्रनये सत्त्वाऽसत्त्वोभया