________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः ।
बोधकत्वमिति दिक, ४ । विध्यात्मना मुख्यविषयतावच्छिन्ना या उभयात्मना युगपदवक्तव्यत्वमुख्यविषयता तद्वान् बोधः पञ्चमस्य भङ्गस्य फलम् , ५ । निषेधात्मना मुख्यविषयतावच्छिन्ना या उभयास्मना युगपदवक्तव्यत्वविषयता तद्वान् षष्ठस्य, ६ । क्रमादुभयमुख्यविषयताद्वयावच्छिन्नाऽवक्तव्यत्वमुख्यविषयताकः सप्तमस्य, ७
अत्र सप्तभङ्गाथामित्थं नयविभागमुपदिशन्ति श्रीसिद्धसेनदिवाकरपादाः"एवं सत्तविअप्पो वयणपहो होइ अत्थपजाए । वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो अ" ॥
-[सम्मतिप्रथमकाण्डे गाथा-४१ ] एवम्- अनन्तरोक्तप्रकारेण, सप्तविकल्प:-- सप्तभेदः, वचनपथो भवति, अर्थपर्याये- अर्थनये सहव्यवहारर्जुसूत्रलक्षणे, तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यपाहिणि. द्वितीयस्तु 'नास्ति' इत्ययं व्यवहारे विशेषमाहिणि, ऋजुसूत्रे तृतीयः, चतुर्थः सङ्ग्रह-व्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रह-व्यवहारर्जुसूत्रेष्विति । प्रयोगश्चैतैश्चतुर्थ-तृतीययोर्व्यत्ययेनेष्यत इति न तृतीये दर्शयति-विध्यात्मनेति-स्पष्टम् । षष्ठभङ्गस्य फलमुपदर्शयति-निषेधात्मनेति-व्यक्तमदः । सप्तमभङ्गस्य फलमुपदर्शयतिक्रमादिति । उभयेति- अस्तित्व-नास्तित्वोभयेत्यर्थः । सप्तभङ्गीवाक्यं कुत्र नये सम्पूर्ण प्रवर्तते, कुत्र नयेऽन्यथेत्यत्र सिद्धसेनदिवाकरपादैरुपदर्शितो नयविभाग एवं कान्त इत्याकलयन् ग्रन्थकार आह अत्रेति । इत्थम् ‘एवं सत्तविअप्पो' इतिगाथयाऽनन्तरमभिधीयमानप्रकारेण । एवं सत्त० इति- "एवं सप्तविकल्पो बचनपथो भवत्यर्थपर्याये व्यञ्जनपर्याये पुनः सक्किल्पो निर्विकल्पश्च" ॥ १॥ इति संस्कृतम्। विवृणोति- एवमिति । नैगमस्य सङ्ग्रह-व्यवहारयोरेवान्तर्भावः श्रीसिद्धसेनदिवाकरपादानां मते ततोऽर्थनयास्त्रय एव सङ्ग्रह -व्यवहारर्जुसूत्राः, तत्र को भङ्गः कस्मिन्नर्थनये? इत्यपेक्षायामाह-तत्रेति- समह-व्यवहारर्जुसूत्रलक्षणेष्वित्यर्थः । 'स्यादस्त्येव' इत्येवस्वरूपः प्रथमो भङ्गः सामान्यप्राहिणि सङ्ग्रहनये भवतीत्याह-प्रथम इति । 'स्याम्नास्त्येव' इत्येवस्वरूपो द्वितीयो भङ्गो विशेषग्राहिणि व्यवहारे प्रवर्तत इत्याह-द्वितीयस्विति । 'स्यादवक्तव्य एव' इति तृतीयो भङ्ग ऋजुसूत्रनये प्रवर्तत इत्याह-ऋजुसूत्रे तृतीय इति । यथा च तृतीयभङ्गस्य ऋजुसूत्रनय एव प्रवृत्तिर्न सङ्ग्रह-व्यवहारयोस्तथाऽत्रैव ग्रन्धकारो दर्शयिष्यतीति । 'स्यादस्त्येव स्थानास्त्येव च' इति चतुर्थभः सङ्ग्रह व्यवहारयोः प्रवर्तत इत्याह-चतुर्थ ह-व्यवहारयोरिति । 'स्यादस्ति स्यादवक्तव्यश्च' इति पञ्चमो भाः सनर्जुसूत्राभ्यामुपजायत इत्याह--पञ्चमः सहर्जुसूत्रयोरिति । 'स्यान्नास्ति स्यादवक्तव्यश्च' इति षष्टो मङ्गो व्यवहारर्जुसूत्राभ्यामात्मलाभमासादयतीत्याह- षष्ठो व्यवहारर्जुसूत्रयोरिति । 'स्यादस्ति स्यान्नास्ति स्यादवक्तव्यश्च' इति सप्तमो भगः सङ्ग्रहध्यवहारर्जुसूत्ररुपजायत इत्याह- सप्तमः सङ्ग्रह व्यवहारर्जुसूत्रेष्विति । इतिशब्दः सप्तभनथामथनययोजनोपवर्णनसमात्यर्थः । ननु 'स्यादस्त्येव स्यान्नास्त्येव' इति तृतीयो भङ्गः प्रथमं भवता दर्शितः, सच सम्प्रह-व्यवहाराभ्यामुपजायत इति, इदानी तत्स्थाने 'स्यादवक्तव्यः' इति तृतीयो भङ्ग ऋजुसूत्रनयप्रवर्तितो दर्शित इति तत् कथं सङ्गतिमङ्गतीत्यत आह-प्रयोगश्चैतैरिति- श्रीसिद्धसेनदिवाकर पादैः ‘स्यादवक्तव्यः' इतिचतुर्थभङ्ग-'स्यादस्ति स्यान्नास्ति' इतितृतीयभङ्गयोयत्ययेन तृतीयस्थाने 'स्थादवक्तव्यम्' इति, चतुर्थस्थाने 'स्यादस्ति स्याम्नास्ति' इत्येवे प्रकारेण व्यत्यासेन प्रयोग इष्यत इत्यर्थः । ये च श्रीमद्देवसूरिप्रभृतयः सप्तभङ्गी सम्पूर्णैव सकलादेश स्वभावा विकलादेशस्वभावा चेत्येवमामनन्ति तेषां . मते सङ्ग्रह-व्यवहारयोः प्रथम-द्वितीयभङ्गमूलयोः संयोगस्यैव प्रथममुपस्थिततया ततो जायमानस्य 'स्यादस्ति स्थान्नास्ति' इति भङ्गस्यैवोपस्थितिरिति तस्य तृतीयस्थानेऽभिषेकः, ततो विधि-निषेधयोयुगपत्प्राधान्यविवक्षयाऽऽविर्भवनस्वभावस्य 'स्यादवक्तव्यः' इत्यस्य चतुर्थस्थानेऽभिषेक इति । श्रीसिद्धसेन दिवाकरपादानां मते अखण्डार्थत्वात् सप्तभङ्गयां त्रयः सकलादेशाः, सखण्डार्थत्वाच्चत्वारो विकलादेशा अभिमता इत्यखण्डानां 'स्यादत्येव' इति 'स्यान्नास्त्येव' इति 'स्यादवक्तव्य एव' इति भङ्गानां क्रमेण सन्निवेशः, ततो विकलादेशानां चतुर्णा भजानामिति, तथा च तृतीयस्थानेऽभिषिक्त 'स्यादवक्तव्य एव' इति भने ऋजुसूत्रनययोजना सम्भवत्येवेत्याह-इति न