________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्तार्थबोधनस्यैव तत्प्रयोजनस्वात्, अवक्तव्यबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथाबुबोधयिषाया एवासम्भवादित्यधिक मस्मत्कृताऽने कान्तव्यवस्थायाम् । तदेवं प्रतिपर्यायं सप्तप्रकारबोधजनकता पर्याप्तिमद् वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्धम् । इत्थ तदन्तर्भूतस्य तद्बहिर्भूतस्य वाऽन्यतरभङ्गस्य प्रदेश- परमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो लभ्यते । इतरप्रतिक्षेपी तु नयो नयाभासो दुर्नयो वेत्युच्यते ।
५२
त्वम्,
मलयगिरिचरणास्तु- “नयो दुर्नयः सुनयश्चेति दिगम्बरी व्यवस्था, न त्वस्माकं नय-दुर्नययोरविशेषात् स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृस्त्याऽभेदोपचाराद् वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छन्दलान्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भाषा च निषिद्धा, तस्या नयरूपत्वात्, नयानां च सर्वेषां मिध्यादृष्टित्वात्, तथा चानुस्मरन्ति - " सव्वे णया मिच्छावायिणो" [ ]त्ति, न च सप्तभङ्गात्मकं प्रमाणवाक्यम्, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्त भङ्गाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, न च तासां सार्वत्रिकत्वम् को जीवः ? इति प्रभे लक्षणमात्र जिज्ञासया 'स्याज्ज्ञानादिलक्षणो जीवः' इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात् स्यात्पदस्य चात्राऽनन्तधर्मात्मकत्व द्योतकत्वेत प्रामाण्याङ्गद्योतकत्वं चात्रोपसम्पदानकी शक्तिर्लक्षणा वेत्यन्यदेतत्, तत्र च श्रुतपदप्रतिपाद्यधर्माशे लौकिकी इति एवं प्रकारेण । द्वावेव भङ्गौ प्रथम द्वितीयावेव भङ्गौ । व्यञ्जननये शब्दनये । व्यञ्जननयेऽवक्तव्यमन्नासम्भवे हेतुमुपदर्शयति- श्रोतरीति- प्रतिपाद्य पुरुषे शब्दविशिष्टार्थबोधनस्यैव वाक्यप्रयोजनत्वादित्यर्थः । तनये शब्दनये । तथाबुबोधयिषया अवक्तव्यबोधनेच्छया । एतदर्थविशेषावगमे छुभिरस्मत्कृताऽनेकान्तव्यवस्था प्रकरणमवलोकनीयमित्युपदेशाभिप्रायेण ग्रन्थकार आह-- इत्यधिकमिति । 'सप्तभङ्गयात्मकं वाक्यं प्रमाणं पूर्णबोधकृत्' इत्यस्य पर्यवसितमर्थं पूर्वोपदर्शितमुपसंहरति- तदेवमिति । इत्थं च सप्तभङ्गयात्मक महावाक्ययस्यैव प्रमाणत्वे च । तदन्तर्भूतस्य सप्तभङ्गयन्तर्गतस्य । तद्वहिर्भूतस्य वा सप्तभङ्गीबहिर्भूतस्य वा । अन्यतरभङ्गस्य सप्तानां भवानां मध्यादेकैकस्य भङ्गस्य | प्रदेश- परमाणुदृष्टान्तेनेति- स्कन्धसन्निविष्टः परमाणुः प्रदेश इत्युच्यते, स्कन्धात् पृथग्भूतच केवलः परमाणुरिति व्यपदिश्यते, तथा सप्तभङ्गीस्वरूपमापन्नो भङ्गस्तदात्मना प्रमाणवाक्यम्, प्रत्येकासाधारणस्वस्वरूपात्मना तत्सन्निविष्टो बहिर्भूतो वा नयवाक्यमित्येवमन्यतरभङ्गस्यार्थान्नयवाक्यत्वं लभ्यत इत्यर्थः । सप्तभङ्गीसन्निविष्टस्य तद्बहिर्भूतस्य वाऽन्यतरभङ्गस्य स्यात्कारलाञ्छितत्वेनेतरनयप्रतिक्षेपित्वाभावान्नयत्वम् स्यात्कारालाञ्छितस्य तु भङ्गस्येतरनयप्रतिक्षेपित्वेन नयाभासत्वं दुर्नयस्वं ि नयाभास इत्याख्यायते, दुर्नय इति वा व्यपदिश्यत इत्याह- इतरप्रतिक्षेपी त्विति ।
अत्र मलयगिरिचरणानां मन्तव्यभेदमुपदर्शयति- मलयगिरिचरणास्त्विति -- अस्य 'इत्यभिसन्दधते' इत्यनेनान्वयः । न त्वस्माकं श्वेताम्बराणां नयो दुर्नयः सुनयश्चेति व्यवस्था नैव । तत्र हेतुमाह - नयेति । यत्र स्याच्छन्दोपादानमस्ति तन्नयवाक्यम्, यत्र तन्नास्ति तद् दुर्नयवाक्यमित्येवं कथञ्चिद्घटितार्थ तदघटितार्थ रूपार्थविशेषसद्भावो न वाच्यः स्याच्छदघटितेनैकेनापि भङ्गेनैकधर्मप्रतिपादनमुखेन कालादिभिरभेदवृत्त्याऽभेदोपचारेण वाऽशेषधर्म प्रतिपादनतोऽनन्तधर्मात्मक वस्तुप्रतिपादने तथाभूतभङ्गस्य प्रमाणवाक्यत्वस्यैव सम्भवादित्याह- स्याच्छब्देनेति । कालादिभिरिति - "कालाऽऽत्मरूपसम्बन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाचेत्यष्टौ कालादयः स्मृताः " ॥ १ ॥ [ [] इति वचनादादिपदादात्मरूपादीनां ग्रहणम् । अभेदवृत्त्येति - द्रव्यार्थिकनयादेशादभेदवृत्तिप्राधान्याश्रयणेनेत्यर्थः । अभेदोपचारादिति पर्यायार्थिकनयादेशाद् धर्माणां परस्परं भेदेऽप्यभेदोपचारादित्यर्थः । अत एव स्यात्पदलाञ्छितस्यैकस्यापि भङ्गस्योक्तदिशा प्रमाणवाक्यत्वादेव । अवधारणी भाषा स्यात्कारालाञ्छितैवकार संचलिता भाषा । तस्याः निरुक्तभाषायाः । नयानां मिथ्यादृष्टित्वे आगमवचनं प्रमाणयति तथा चेति । सव्वे० इति - “ सर्वे नया मिध्यावादिनः " इति । 'न च' इत्यस्य ' शक्यम्' इत्यनेनान्वयः । तासां जिज्ञासानाम् । अत्र ' स्याद् ज्ञानादिलक्षणो जीवः' इति वाक्ये | अनन्तधर्मात्मकत्वं यदि स्यात्पदेन श्रोतते तदाऽनन्तधर्मान्तर्गतो धर्मः श्रुतोऽपि धर्मः, तस्याश्रुतधर्मापेक्षया किं वैलक्षण्यमित्यपेक्षायामाह - तत्र चेति