________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
विषयता स्यात्पदद्योत्या, अनन्तधर्मात्मकत्वांशे च लोकोत्तरेति विशेषः" इत्यभिसन्दधते; तन्मतमनुरुध्य प्रमाणलक्षणान्तरं समुच्चिनोति- च-पुनः, यद् वाक्यम् , एकधर्मगं प्रतिनियतैकधर्मप्रतिपिपादयिषया प्रयुक्तम् , { अपरोल्लेखि ] स्यात्पदादपरे येऽनन्ता धर्मास्ताल्लिखतीत्येवंशीलं वाक्यम् , तदपि प्रमाणवाक्यं व्यवर्तव्यमित्यर्थः । अयं च समुच्चयो मयापि सम्प्रदायमतमिति कृत्वा समुन्नीतः, वस्तुतो नय. दुनयविभागो न दैगम्बर एव, हेमसूरिभिरपि "सदेव सत् स्यात् सदिति त्रिधार्थो भीयेत दुर्नीति-नयप्रमाणैः” [अन्ययोगव्य० श्लो. २८] इत्यादि विभज्याभिधानात्, आकरे नयत-दाभासाना व्यक्तर्बोधितत्वाच्च । अवधारणी च भाषा एकान्तवादात्मकैव निषिद्धा, न तु नयरूपाऽपि, तस्याः प्रमाणपरिकरत्वेन तत्रावधारणीत्वस्य निश्चायकत्वरूपभाषालक्षणान्वयेनैव सिद्धान्तसिद्धत्वात् , अत एव निराकासाऽनासत्रादिस्थले शब्दसमानाकारमानसस्वीकारे किमपराद्धं शाब्दबोधेनेति पर्यनुयोगे मानसस्य संशयाऽऽकारस्यापि सम्भवाद् निश्चायकरूपशाब्दबोधानुपपत्तेरेव यौक्तिकैनिराकृतः। न च, भाषामात्रस्यावधारणीत्वेऽप्याराधकत्व-विराधकत्व-तदुभया-ऽनुभयैः सत्यादिभेदचतुष्टयोपदेशान्नयभाषाया देशाराधकत्वेन तृतीयभङ्ग अनन्तधर्मेषु मध्ये इत्यर्थः । तन्मतं श्रीमलयगिरिमतम् । अनुरुध्य आश्रित्य । 'एकधर्मगम्' इत्यस्य विवरणम्प्रतिनियतकधर्मप्रतिपिपादयिषया प्रयुक्तम्' इति, ‘स्यात्पदादपरोल्लेखि' इत्यस्य अपरोल्लेखि' इत्यस्य विवरणम्- 'अपरे येऽनन्तधर्मास्ताल्लिखतीत्येवंशीलम्' इति । सप्तभङ्गयात्मकं वाक्यं प्रमाणम्, च पुन: स्यात्पदादपरोल्लेख्येकधर्मगमपि वाक्यं प्रमाणमिति सम्प्रदायमतमनुरुध्यैव ग्रन्थकृतोक्तम् , न तु तत्र निर्भरः स्वस्येति ग्रन्थकार आह- अयं चेति । मयाऽपि प्रकृतग्रन्थकृता श्रीयशोविजयोपाध्यायेनापि । श्रीहेमसूरि-देवरिप्रभृतयः श्वेताम्बरशिरोमणयोऽपि नयदुनय-नयनयाभासविभागमुपयन्तीति नय-दुनयविभागो दैगम्बर एव न, किन्तु श्वेताम्बरसम्मतोऽपीत्याह-वस्तुत इति । 'सदेव' इति वचनेन दुर्नीत्याऽर्थों मीयते, 'सद्' इति वचनेन नयेनार्थो मीयते, 'स्यात् सद्' इति वचनेन प्रमाणेनाओं मीयते, इत्येवं दुनाति-नय-प्रमाणवाक्यानां श्रीहेमसूरिभिर्विभज्याभिधानान्नय-दुर्नयविभागस्तसम्मत इत्यर्थः। आकरे इति-स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्काराभिधमूलप्रन्थगुम्फितसोदाहरणनय-तदाभासानी व्यक्तेर्विभागस्य श्रीदेवसूरिभिबोंधितत्वालय-तदाभासविभागो देवसूरिसम्मत इत्यर्थः । यत् तूक्तम्- 'अवधारणी भाषा ध निषिद्धा' इति तत्राह-अवधारणी चेति । तस्याः नयरूपाया अवधारणीभाषायाः। तत्र नयभाषायाम् । अवधारणीस्वस्येति- परस्य संशयाऽज्ञानादिनिवृत्तये निश्चायकमेव वचनं प्रयुञ्जते परीक्षका इति इति भाषाया निश्चायकत्वमेव लक्षणं सिद्धान्तानुमोदितमिति नयवाक्ये अवधारणीस्वस्य सद्धाबालक्षणसमन्वयेन सिद्धान्तसिद्धत्वतो गुणावहत्वमेवेति ताशभाषाभाषण न साधूनां सिद्धान्तनिषिद्धमित्यर्थः । अत एव निश्चायकत्वस्य भाषालक्षणस्य सिद्धान्तसिद्धत्वादेव । शाब्दबोधे आकासाऽऽसत्त्यादेश्च कारणत्वाभिराकालाऽनासन्नादिवाक्यस्थले न शाब्दबोधः, किन्तु पदेभ्य उपस्थितानामनामन्वयबोधो मानसः शाब्दबोधसमानाकारको भवतीत्येवमुपगमे यथा मानसे आकाङ्क्षादि न कारणं तथा शाब्दबोधेऽपि तत् कारण माऽस्त्वित्युपगम्य शब्दबोध एव किमिति निराकालाऽसन्नादिस्थले नोपयते इति पर्यनुयोगः, निश्चयात्मक एवं मानसबोध इति न नियमस्तेन निराकाहादिस्थले उपस्थितानां पदार्थानामन्वयबोधः संशयात्मकः सम्भवति, शाब्दबोधस्तु निश्चयात्मक एव भवतीति नियमेन तत्र शाब्दबोधस्य निश्चयात्मकस्याऽनुपपत्तेरेव युक्तिप्रधानस्तार्किकैर्निराकृत इत्याह-निराकाति । 'शब्दसमानाकारः' इति स्थाने 'शाब्दसमानाकारः' इति पाठो युक्तः । 'पर्यनुयोगे' इत्यस्य स्थाने 'पर्यनुयोगो' इति पाठो युक्तः, तस्य 'निराकृतः' इत्यनेनान्वयः । 'न च' इत्यस्य 'युक्तम्' इत्यनेनान्वयः तदुभयति- आराधकत्व-विराधकत्वोभयेत्यर्थः । अनुभयति-आराधकत्व-विराधकत्वोभयरहितति, नाराधकस्वभावो नापि विराधकस्वभाव इति यावत् । सत्यादिभेदचतुष्टयेति- सत्याभाषा, मूषाभाषा, सत्यामृषाभाषा, असत्याऽमृषाभाषेत्येवं चतुष्टयेत्यर्थः । तत्र सत्याभाषा आराधकस्व. भावा मृषाभाषा विधिक स्वभावा, सत्यामृषाभाषा तदनुभयस्वभावा, असत्यामृषाभाषा तदनुभयस्वभावेति । तृतीयभल एव सत्यामृषाभाषालक्षणभाषातृतीयप्रकार एव । निक्षेपात प्रवेशात् । युक्तत्वप्रतिक्षेपयुक्तिमुपदर्शयति-चतर्धा विभागस्येति ।