________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
-
एव निक्षेपात् साधूनामनादरणीयत्वमित्यपि युक्तम् , चतुर्धा विभागस्य द्रव्य-भावभाषायामेवोपदेशात्, सत्र च परिमणितमिश्रभाषाभेददशकानन्तर्भावादेव नयभाषायां दोषाभावात् , श्रुतभावभाषायाश्च तृतीय भाषायामेवानधिकृतत्वात् , चारित्रभावभाषायामाचन्तयोर्भाषयोरधिकृतत्वेऽप्यायुक्ततया चतमृणामपि भाषणे आराधकत्वाविरोधस्य प्रज्ञापनादावुक्तत्वात् । किञ्च, प्रतीत्यसत्यालक्षणमत्र स्फुटमेव किं नोन्नी. यते ?, न च सप्तभङ्गात्मकवाक्यस्यैव प्रतीत्यसत्यात्वम्, अपेक्षात्मकबोधजनकवाक्यत्वस्यैव तल्लक्षणस्वात्, अन्यथैकत्रापेक्षया इस्व-दीर्घादि लौकिकवचनस्यालक्ष्यत्वापत्तेः । न च सत्या सर्वत्राऽलौकिक्येव लक्ष्या, जनपदसत्यादिभेदानुपसङ्ग्रहापत्तेः । ननु तथाप्युत्सर्गतोऽनादरणीयत्वादेव नय.दुर्नयभाषयोरविशेषः, तथा चोकं वादिना"सीसमाविष्फारणमेत्तत्थोऽयं कओ समुल्लावो। इहरा कहामुहं चैव गस्थि एयं ससमयंमि" ।।
--[ सम्मतितृतीयकाण्डे गाथा-२५ ] इति चेत्, न- शिष्यमतिविष्फारकत्वं हि नयवाक्यस्य प्रमाणात्मकमहावाक्यजन्यशाब्दबोधजनकावान्तरवाक्यार्थज्ञानजनकत्वम् , तदनुकूलाकाङ्कोत्थापकत्वं वा, तेन तस्यादरणीयत्वस्यैव सिद्धेः, तदुरूं वादिनैव"पुरिसज्जाय तु पडुच्च जाणओ पण्णविज्ज अन्नयरं। परिकम्मणानिमित्तं वाहेही सो विसेसं पि"त्ति,
-[ सम्मतिप्रथमकाण्डे गाथा-५४ ] तत्र च द्रव्य-मावभाषायां च । तृतीयभाषायां सत्यामृषाभाषायाम् । आद्यन्तयोः सत्याभाषाऽनुभयस्वभावभाषयोः । आयुकतया अत्यन्तोपयोगवत्तया। चतसृणामपि सत्यादिचतुष्प्रकाराणामपि भाषाणाम् । अपि च प्रतीत्यसत्यारूपैव नयभाषा, तस्या भाषणं युक्तमेव साधूनामित्याह-किश्चेति । अत्र नयभाषायाम् , प्रतीत्यसत्या नाम किञ्चिदपेक्षया सत्या, सा नयभाषाऽपि 'अपेक्षावचनं नयः' इति वचनात् प्रतीत्यसत्यात्वं तस्याः सुप्रतिपदम् । सप्तभङ्गीवाक्यस्यैव प्रतीत्यसत्यात्वम्, न नयवाक्यस्यैत्याशय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-अपेक्षात्मकेति- अपेक्षात्मको यो बोधस्तज्जनकवाक्यत्वस्यैव प्रतीत्यसत्या लक्षणस्वादित्यर्थः । अन्यथा अपक्षात्मकबोधजनकवाक्यत्वस्य प्रतीत्यसत्यालक्षणत्वमनभ्युपगम्य सप्तभङ्गात्मकवाक्यत्वस्यैव प्रतीत्यसत्यालक्षणत्वस्याभ्युपगमे । एकत्रेति- एकत्रैव निम्बादिवृक्षे आम्रवृक्षापेक्षया हस्वोऽयमिति बिल्ववृक्षापेक्षया दीर्घोऽयमिति लौकिकवचनस्य सप्तभङ्गानात्मकत्वेन प्रतीत्यसत्यालक्षणलक्ष्यत्वं न स्यादित्यर्थः । अलौकिक्येव भाषा सत्यालक्षणलक्ष्या सर्वत्र न लौकिकीत्याशङ्कय प्रतिक्षिपति-न चेति । निषेधे हेतुमाह-जनयदेति-जनपदसत्यादिभदा लौकिकवाक्यानामवति तत्सङ्ग्रहोऽलौकिक्या एव लक्ष्यत्वे न स्यादित्यर्थः । ननु भवतु प्रतीत्यसत्यात्वं नयवाक्यस्य तथापि दुर्नयवाक्यवनयवाक्यस्याप्युत्सर्गतोऽनादरणीयत्वात् तयोर विशेषः, प्रमाणवाक्यस्यैव च सप्तमझात्मकस्योत्सर्गत आदरणीयत्यमित्याशङ्कते- नन्विति । उक्तार्थे सम्मतिसंवादमाह-तथा चोक्तमिति । सीसमइ० इति-- “शिष्यमतिविस्फारणमात्रार्थोऽयं कृतः समुल्लापः । इतरथा कथामुखमेव नास्त्येतत् स्वसमये"॥ इति संस्कृतम् । नयवाक्यस्य शिध्यमतिविस्फारकत्वे तत एवादरणीयत्वमपि तस्य सिद्धयतीति समाधत्ते-नेति । प्रमाणेति-प्रमाणात्मकमहावाक्येन जन्यस्य शाब्द. बोधस्य अनकं यदवान्तरवाक्यार्थज्ञानं तजनकत्वम्, वा अथवा तादृशवाक्यार्थानुकूलाकाडोत्थापकत्वं यतो नयवाक्यस्य शिध्यमतिविस्फारकत्वं तेन हेतुना नयवाक्यस्यादरणीयत्वस्यैव सिद्धेः, नयवाक्यं विनाऽवान्तरवाक्यार्थज्ञानं न स्यात् , तदन्तरेण च प्रमाणात्मकमहावाक्यशालदबोध एव न भवेदिति प्रमाणवाक्यस्यादरणीयस्वे तजन्यज्ञानजनकज्ञानजनकत्वेन नयवाक्यमप्यादरणीयमित्याशयः । उक्तार्थेऽपि सम्मतिसंवादमाह- तदुक्तमिति । वादिनैव श्रीसिद्धसेनदिवाकरेणैव । "परिसजायं तु०" इति- "पुरुषजातं तु प्रतीत्य ज्ञायकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं वदेखि मपि "॥ इति संस्कृतम्। यथा च नयवाक्यं कञ्चित् प्रतिपाद्यं पुरुषमधिकृत्य प्रवर्तते तथा प्रमाणवाक्यमपि कञ्चित् पुरुषविशेषमेवोद्दिश्य प्रवर्तते, ततश्च कारणिकत्वे द्वयोः समाने यथा स्वकाले प्रमाणवाक्यस्यौत्सर्गिकत्वं तथा स्वकाले नय