________________
नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलतो मयोपदेशः ।
प्रमाणवाक्यमपि बनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तदनयोयोरपि कारणि. कत्वे प्राप्ते स्वस्वकाले उत्सर्गिकत्वमेव न्यायसिद्धम् , विप्रतिसिद्धकारणविधिस्थले तथाव्युत्पत्तेः, तस्मात् ' स्याज्ज्ञानादिलक्षणो जीवः' इत्यपि सुनयवाक्यमेव, एकभङ्गरूपत्वात् , प्रमाणवाक्यता तत्राप्युत्थाप्याकासाक्रमेण भङ्गषट्कसंयोजनयैव । सकलादेशत्वं च प्रतिभङ्गमनन्तधर्मात्मकत्वद्योतनेन, अन्यथा च विकलादेशत्वमित्यन्येके । अखण्डवस्तुविषयत्वेन त्रिवेवाद्यभङ्गेषु तत् , चतुर्ष चोपरितनेष्वेकदेशविषयत्वेन विकलादेशत्वमित्यन्ये । अयं व्युत्पत्ति विशेषः सर्वसप्तभङ्गीसाधारणः, स्याच्छब्दलाञ्छितैकमात्रेण तु न प्रमाणवाक्यविश्रामः सुनयवाक्यार्थस्यैव ततः सिद्धेः, अत एव-- "कृष्णसर्प इत्यादिविशेषणविशेष्यभावबोधकवाक्येऽपि सर्पमात्रे कृष्णत्वस्याभावाद् अनन्ते व्यभिचारात्, पृष्ठावच्छेदेन कृष्णेप्युदरा. वाक्य स्याप्यौत्सर्गिकत्वम्, यथा- 'यवैर्यजेत् , नहिभिर्वा यजेत्' इत्यादिविप्रतिषिद्धकारणविधिस्थले ब्रीहिकरणकयागस्य स्वकाले, स्वकाले च यवकरणकयागस्यौत्सर्गिकत्वमित्याह-प्रमाणवाक्यमपीति । तत् तस्मात् । अनयोः प्रमाण-नय. वाक्ययोः । 'विप्रतिसिद्धः' इति स्थाने 'विप्रतिषिद्धः' इति पाठो युक्तः, यत्र कारणद्वयस्य विकल्पस्तत्रैककारणविधानकालेऽपरो विप्रतिषिद्धो भवतीति । तथाव्युत्पत्तेः स्वस्वकाले औत्सर्गिकत्वमिति व्युत्पत्तेः । उपसंहरति- तस्मादिति । 'सुनयवाक्यमेव' इत्येवकारेण श्रीमलयगिरिसम्मतस्य तत्र प्रमाणवाक्यत्वस्य व्यवच्छेदः । सुनयवाय एकमतरूपत्वादिति । 'स्याद् ज्ञानादिलक्षणो जीवः' इति वाक्यस्य प्रमाणवाक्यताऽपि, किं ज्ञानादिलक्षणभिन्नोऽपि जीव इत्याद्युत्थाप्याकाहाक्रमेण 'स्थान ज्ञानादिलक्षणो जीवः, स्यादवक्तव्यो जीवः' इत्यादिभाषद्कयोजनया भवतीत्याहप्रमाणवाक्यताऽपीति- तेनाऽत्राप्यनेकान्तः कान्त इत्यभिसन्धिः । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा, प्रतिभङ्गं विकलादेशस्वभावा च श्रीदेवसूरिप्रभृत्याचार्याणां मते, तत्र यथा सकलादेशत्वं यथा च विकलादेशत्वं तदुप. दर्शयति- सकलादेशत्वं चेति- स्यात्पदेन प्रतिभङ्गगतेनाऽनन्तधर्मात्मकत्वस्य वस्तुनि द्योतनेन प्रतिभङ्गं सकलादेशत्वमित्यर्थः एतच कालादिभिरष्टभिव्यदिशादभेदप्राधान्याश्रयणेन पर्यायादिशादभेदोपचारतश्चैकधर्मप्रतिपादने तद्धारा सकलधर्मप्रतिपादनतः सम्भवति । यदा च कालादिभिरष्टभिः पर्यायार्थादेशाद् भेदप्राधान्याश्रयणेन द्रव्यार्थिकनयादेशाद भेदोपचारेण वा नैकधर्मप्रतिपादनेन ततो भिन्नानामन्यधमणां प्रतिपादनमिति न स्यात्पदेनाऽनन्तधर्मात्मकत्वस्य द्योतनं तदैकभझेनैकधर्मस्य वस्त्वंशस्यैव प्रतिपादनं न तु वस्तुन इति विककादेशत्वमित्याह- अन्यथा चेति-स्यात्पदेनाऽनन्तधर्मात्मकत्वं न द्योत्यते, किन्त्वपेक्षाभेद एवोल्लिखितधर्मस्य द्योतत इत्यभ्युपगमे स्वित्यर्थः । अखण्डवस्तुप्रतिपादकत्वं सकला देशत्वमेकदेशप्रतिपादकत्वं विकलादेशत्वमिति 'स्यादस्त्येव, स्यान्नास्त्येव, स्थादवक्तव्यमेव' इत्याद्यभङ्गत्रयाणां सकलादेशत्वम्, तदन्येषां चतुर्गा भवानी विकलादेशत्वमित्यभ्युपगन्तृणां तत्त्वार्थसूत्रकृत्प्रभृतीनां मतमुपदर्शयति- अखण्डवस्तुविषयत्वेनेति । तत् सकलादेशत्वम् , एकधर्मात्मना वस्तुप्रतिपादने तदन्यधर्माणामप्यभेदवृत्त्या तदुपचारेण वा तद्धर्माभेदभावेन प्रतिपादनसम्भवतः सकलादेशत्वं घटत आद्यभङ्गत्रये, तदन्यभङ्गेषु पुनर्भेदाश्रयणेनैव विशिष्टधर्मप्रतिपादन मिति तत्राभेदाश्रयणासम्भवानान्यधर्माणां प्रतिपादनसम्भव इति विकलादेशत्वमित्यभिसन्धिः । अयम् अनन्तरमुपदर्शितदिशा दर्शितः । व्युत्पत्तिविशेषः सकलादेशत्व-विकलादेशत्वज्ञानप्रकारः। सर्वसप्तमङ्गीसाधारण: ‘स्याग्ज्ञानादिलक्षणो जीवः' इत्यादिसप्तमायामिव 'स्यादस्त्येव घटः 'इत्यादि-'स्यानित्य एव घटः 'इत्याद्यशेषसप्तभागीसमनुगतः। स्याच्छब्देति- 'स्याज्ज्ञानादिलक्षणो जीवः' इत्येकभङ्गमात्रेण तु प्रमाणवाक्यविश्रामो न भवति, निराकालार्थावबोधस्यैकेन भङ्गेनाजननात्, किन्तु प्रतिनियतापेक्षयकधर्मावधारणलक्षणसुन यवाक्यार्थस्यैवैकभङ्गतः सिद्धरित्यर्थः। अत एव स्याच्छन्दलाञ्छितकभङ्गस्य नयवाक्यत्वमेव न प्रमाणवाक्यत्वमित्यस्य सुव्यवस्थितत्वादेव । कृष्णसर्प इत्यादि विशेषण-विशेष्यभावबोधकवाक्येऽपि स्याच्छब्दसंयोजनया नयवाक्यत्वमित्येवं समन्तभद्र आहेत्यन्वयः। अपिना यदा नागविशेष रूढ एव कृष्णसर्प इति तदा पदत्वमेव तस्य न वाक्यत्वमिति सुनयवाक्यत्वसम्भावनैव नास्तीत्यर्थामेडनम् । अनन्त इति-अनन्ताभिधः सर्पः शुक्ल एव न कृष्ण इति सर्पत्वं तत्रास्ति न तु कृष्णत्वमित्येवं व्यभिचारादित्यर्थः । सर्पविशेषे नियमेन कृष्णत्वमस्तीत्सपि नास्ति पृष्ठावच्छेदेन कृष्णस्यापि सर्पस्योदरावच्छेदेन शुक्लत्वस्योप