________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो भयोपदेशः। वच्छेदेन शुक्लत्वोपलम्भाच्च, स्याच्छब्दसंयोजनया नयवाक्यत्वम्" इत्याह समन्तभद्रः । लक्ष्य-लक्षणादिव्यवहारोऽपि नयवाक्यैरेव सिद्ध्यति, उद्देशत्रयलौकिकबोधस्यानप्रतिप्रसक्तस्य तेभ्य एव सिद्धेः, प्रमाणवाक्यं त्वलौकिकबोधार्थ सभप्तङ्गात्मकमेवाश्रयणीयम् , अत एव तद्व्यापकत्वं सम्मत्यादौ महता प्रयत्नेन साधितमिति किमतिविस्तरेण ? ॥ ६॥ नन्वेकत्र वस्तुन्यनेकाकारा प्रमाणधीः, एकाकारा च नयधीः कथमुत्पाद्यत इति जिज्ञासायामाह
यथा नैयायिकैरिष्टा चित्रेऽनेकैकरूपधीः। . नय-प्रमाणभेदेन सर्वत्रैव तथाऽऽहतैः ॥ ७॥ नया०- यथेति- यथा नैयायिकः, चित्रे नील-पीतादिना शबले घटादौ अनेकरूपाचाकारा, एक. रूपा च चित्राकारा धीः, इष्टा अभ्युपगता, तथानुभवस्वारस्याद्, मतभेदाश्रयणाद् वा, तथा सर्वत्रैव
लम्भेनैकान्तेन कृष्णत्वाभावादित्याह- पृष्ठावच्छेदेनेति । एवं च 'स्यात् कृष्णसर्पः' इत्येव प्रयोक्तव्यमिति स्याच्छन्दसंयोजनया नयवाक्यत्वं तस्येत्याह-स्याच्छब्देति । तदिदमर्थ प्रामाणिकमित्यावेदयितुमाह-इत्याह समन्तभद्र इति । न केवलं विशेषणविशेष्यभावबोधकवाक्यस्यैव सुनयवाक्यत्वम्, किन्तु लक्ष्य-लक्षणादिप्रतिपादकवाक्यानामपि सुनयवाक्यत्वमेवेत्याह-लक्ष्यलक्षणादिव्यवहारोऽपीति । उद्देशत्रयलौकिकबोधस्येति-उद्देश-लक्षण-परीक्षात्मकवाक्य. अन्यलौकिकयोधस्येत्यर्थः । अनतिप्रसक्तस्य अलक्ष्यालक्षणाद्यविषयकस्य लक्ष्य-लक्षणादिमात्र विषयकस्येति यावत् । तेभ्य पव नयवाक्येभ्य एव । यदि च विशेषण-विशेष्यभावादिलक्ष्य-लक्षणादिव्यवहारश्च नयवाक्यादेव तर्हि प्रमाणवाक्य किमर्थमाश्रयणीयमित्यपेक्षायामाह-प्रमाणवाक्यं विति । अलौकिकबोधार्थम एकधर्मिविशेष्यकसप्तधर्मप्रकारकनिराकासबोधार्थम् , तथाबोधः सप्तमझात्मकमहावाक्यत एवेति । 'सप्तभङ्गात्मकमेव' इति 'प्रमाणवाक्यम्' इत्यस्य विशेषणम् । अत एव अलौकिकबोधार्थ सप्तभङ्गात्म प्रमाणवाक्यस्याश्रयणीयत्वादेव । तस्यापकत्वं सप्तभङ्गात्मकप्रमाणवाक्यस्य प्रतिपादकतया वस्तुमात्रव्यापकत्वम् ॥ ६ ॥
सप्तमपद्यमवतारयति- नन्विति- एकस्मिन् वस्तुनि वस्तुस्वाभाव्याद् यदि अनेकाकारा बुद्धिः प्रमाणात्मिका तदैकाकारा नयबुद्धिः कथम् ? यदि चैकाकारदुद्धिविषयत्वमस्य स्वाभाव्यादेव तदाऽनेकाकारा बुद्धिः कथम् ? तत्कारणस्याप्येकविधबुद्धि. जनकत्वस्वभाव्यादेवेत्यभिसन्धिः। यथेत्यादिपद्यं विवृणोति- यथेतीति। चित्रे' इत्यस्य विवरणम् - 'नीलपीतादिना शबले घटादौ' इति । अनेकरूपाद्याकारा, 'घटोऽयं नोल पीत-रक्तादिमान् ' इति, 'अस्मिन् घटे नील-पीत-रक्तादिरूपाणि ' इत्येवमनेकरूपाद्याकारा। एकरूपा च 'घटोऽयं चित्ररूपवान्' इति, 'घटेऽस्मिन् चित्रं रूपम् ' इत्येवमाकारा । उक्तदिशाऽनेकाकारा धीरैकाकारा धीः कथं नैयायिकैरभ्युपगतेत्यपेक्षायामाह-तथानुभवस्वारस्यादिति-चित्रघटादिश्चित्ररूपात्मकैकाकारवत्तयाऽप्यनुभूयते, नील-पीताद्यनेकाकारवत्तयाऽप्यनुभूयत इति तथानुभवस्वारस्यातू तथाऽभ्युपेयत इति । नन्वेकान्तवादे एकविधानुभव एवं प्रमाणमिति तत्रैकाकारानुभवप्रामाण्ये एकाकारा बुद्धिरेव प्रामाणिकी, अनेकाकारानुभवप्रामाण्येऽनेकाकारा बुद्धिरेव प्रामाणिकी, न तूभयाकारबुद्धयोः प्रामाण्यम् , यथार्थानुभवस्वारस्थादेव वस्तुव्यवस्थितरित्यत आह- मतभेदाश्रयणाद् वेति- प्राचीननैयायिकैरवयवगतनीलादिरूपाणामवयविरतपीतादिरूप प्रति प्रतिबन्धकत्वाभ्युपगमान तत्रावयविनि नानारूपाण्युत्पत्तुमर्हन्ति, रूपादीनां व्याप्यवृत्तिजातीयत्वस्वाभाव्यादवच्छेदकभेदेनाव्याप्यवृत्तिनानारूपाऽभ्युपगमोऽपि न सम्भवति, अवयविनि तन्त्र रूपानभ्युपगमे तु तस्य बहिरिन्द्रिय जन्यप्रत्यक्षमेव न स्यात् , बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे उद्भतरूपस्य कारणत्वात्, अतोऽवयवगतनानाजातीयरूपैरवयविनि चित्ररूपमेवैकमुत्पद्यते, तं प्रति चावयवगतनोलादिरूपाणां में प्रतिबन्धकत्वम् , अतस्तत्र चित्ररूपस्यैकस्योत्पत्तिसम्भव इति, नबीननैयायिकैरवयवयतनीलादीनामवयविगतपीतादिरूप प्रति प्रतिबन्धकत्वस्यानभ्युपगमाद्रपादीनां व्याप्यवृत्तिजातीयत्वमेवेति नियमस्यानभ्युपगमात् तत्र नील-पीतादिकं नानारूपमेव,