Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 83
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । वस्तुन्येकानेकरूपतया चित्रे प्रमाण-नयभेदेन द्विविधा बुद्धिराहतैरिष्टा, अनुभवसिद्धेऽर्थे विरोधाभावादिति भावः । यथा च सर्वस्य वस्तुनश्चित्रत्वं तथोक्तमस्माभिरात्मख्याती विस्तरभिया नेह प्रतन्यते, चित्ररूपे तु मतभेदं तर्करसिकव्युत्पत्त्यर्थमुपदर्शयामः- तत्र 'नीलं नीलान्यरूपासमवायिकारणम् , नवा ?? इति चित्ररूपे विप्रतिपत्तिः, विधिकोटिः सामानाधिकरण्येन निषेधकोटिरवच्छेदेन, तेन नांशतो बाधः सिद्धन त्वेकं विजातीय चित्ररूपमिति, अत एव- " लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुर-विषाणाभ्यां स नीलो वृष उच्यते " ॥१॥ ] इति वचनादेकस्मिन् नीलवृषे नानारूपसमावेशोऽवच्छेदकभेदेन प्रतिपादितः सङ्गच्छत इत्येवं प्राचीन-नवीननैयायिकमतभेदाश्रयणाद् वेत्यर्थः, एतन्मतद्वयाभिप्रायोऽनन्तरमेब ग्रन्थकृता स्पष्टीकृतो वेदितव्यः । 'एकानेकरूपतया चित्रे' इति 'वस्तुनि' इत्यस्य विशेषणम् । प्रमाण नयभेदेनेतिप्रमाणेना नेकाकार! बुद्धिः, नयेन चैकाकारा बुद्धिजैनरभ्युपगतेत्यर्थः। नन्वेकाकारबुद्धिविषयत्वा-ऽनेकाकारबुद्धिविषयत्वयोविरोधात् कथमेकस्मिन् वस्तुनि सम्भव इत्यत आह- अनुभवसिद्ध इति- ययोरेकत्र नानुभवस्तयोरेव विरोधः, प्रकृते चापेक्षाभेदेनैकत्र वस्तुन्येकाऽनेकाकारबुद्धिविषयत्वयोरनुभव एवेति न विरोध इत्यर्थः । यथा घटादेनील-पीतादिना चित्रत्वं तथा सर्वस्य वस्तुनो यदि चित्रत्वं स्यात् तदा स्यादुक्तदिशैकाऽनेकाकारबुद्धिविषयत्वम्, तत्रैव तु प्रमाणं न पश्याम इत्यत आह - यथा चेति-आत्मख्यातिनामा कश्चिद् ग्रन्थोऽनेन ग्रन्थकृता कृतोऽस्ति, यत्र वस्तुमात्रस्य चित्रत्वं व्यवस्थापितम् , परमिदानी न स दृष्टिपथमस्माकमुपयातीति । ___ 'मतभेदाश्रयणाद् वा' इति यदुक्तं तत्र मतभेदोपदर्शनमधिकरोति-चित्ररूपे त्विति । यद्यपि वादि-प्रतिवादिनौ स्वस्वपक्षनिर्णयवन्तावेव, तथाप्याहार्यसंशयोत्पादनार्थ कथाङ्गसंशयहेतुवादि-प्रतिवाद्यभिमतपरस्परविरुद्धधर्मद्वयावबोधकविप्रतिपत्तिमध्यस्थेनाऽवश्यं विधेयेत्याशयेन चित्ररूपे विप्रतिपत्तिमुपदर्शयति-तत्रेति-मतद्वयम्ररूपककथायामित्यर्थः । प्राचीनमते यत्राऽवयवमात्रे नीलमेव रूपं तत्रावयविनि नीलरूपमेवोत्पद्यत इति नीलरूपं नीलरूपस्याऽसमवायिकारणं भवति, यत्र तु कुत्रचिदवयवे नीलं कुत्रचिदवयवे पीतादिरूपं तत्राऽवयविनि चित्ररूपमेव विजातीयमुत्पद्यते तत्राऽवयवगतं नीलरूपं नीलान्यचित्ररूपं प्रत्यसमवायिकारणं भवतीति नीलं नीलान्यरूपाऽसमवायिकारणमिति विधिकोटिः प्राचीननैयायिकस्य; नव्यनैयायिकमते तु यन्त्रावयवेष्वेकजातीयमेव नीलादि तत्राच्यविनि तत्समानजातीयमेकरूपमेवोत्पद्यते, यत्र त्ववयवेषु नानाजातीयनील-पीतादिकं तत्र नानव नील-पीतादिकमुत्पद्यते, तत्रावयवगतं नीलमक्यविगतनीलं प्रत्यसमवायिकारणम् , एवमवयवगतपीतादिकमक्यविगतपीतादिकं प्रत्यसमवाधिकारणम् , न तु नीलं नीलान्यरूपं प्रत्यसमवायिकारणमिति निषेधकोटिन व्यनैयायिकस्येत्याह- नीलमिति । प्राचीनमते नीलवरूपपक्षतावच्छेदकसामानाधिकरण्येनैव नीलरूपासमवाथिकारणत्वस्य विधिः, न तु नीलत्वावच्छेदेन, तथा सति यत्रावयवेषु नीलमेव रूपं तस्य नीलरूपस्य नीलान्यरूपासमवायिकारणत्वाभावेन तन्मते बाधः स्यात् , एवं नवीनमते नोलस्वरूपपक्षतावच्छेदकावच्छेदेनैव नीलान्यरूपासमवायिकारणत्वस्य निषेधः, न तु नीलत्वसामानाधिकरध्यन, तथा सति यत्रावयवेषु नीलमेव रूपं तत्र प्राचीनमतेऽपि तस्मिन्नवयवनीले नीलान्यरूपासमवायिकारणत्वनिषेधस्य सत्त्वेन तत्साधने तं प्रति सिद्धसाधनं स्यादित्याह-विधिकोटिरिति । 'निषेधकोटिरवच्छेदेन' इति स्थाने 'निषेधकोटिरवच्छेदकावच्छेदेन' इति पाठः समीचीनः, अथवाऽवच्छेदेनेत्यतः, सामानाधिकरण्येनेत्यस्य पक्षतावच्छेदकसामानाधिकरण्येनेत्यर्थः, अवच्छेदकावच्छेदेनेत्यस्य पक्षतावच्छेदकावच्छेदेनेत्यर्थः, पक्षतावच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकध्यापकविधेयप्रतियोगिकसम्बन्धी विधेयतावच्छेदकतया भासते, पक्षतावच्छेदकसामानाधिकरण्ये नानुमितौ तु शुद्ध एव सम्बन्धी विधेयतावच्छेदकतया भासत इति तयोविवेकः । तेन विधिकोटे: पक्षतावच्छेदकसामानाधिकरण्येन निषेधकोटेः पक्षतावच्छे. दकावच्छेदेन साधनेन । नांशतो बाघ इति-पक्षतावच्छेदकसामानाधिकरण्येन साध्याभावनिश्चयलक्षणबाधो न भवतीत्यर्थः, पक्षतावच्छेदकावच्छेदेन साध्यानुमतौ पक्षतावच्छेदकावच्छेदेन साध्याभावनिश्चयलक्षण: पक्षतावच्छेदकसामानाधि

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210