Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 79
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । विषयता स्यात्पदद्योत्या, अनन्तधर्मात्मकत्वांशे च लोकोत्तरेति विशेषः" इत्यभिसन्दधते; तन्मतमनुरुध्य प्रमाणलक्षणान्तरं समुच्चिनोति- च-पुनः, यद् वाक्यम् , एकधर्मगं प्रतिनियतैकधर्मप्रतिपिपादयिषया प्रयुक्तम् , { अपरोल्लेखि ] स्यात्पदादपरे येऽनन्ता धर्मास्ताल्लिखतीत्येवंशीलं वाक्यम् , तदपि प्रमाणवाक्यं व्यवर्तव्यमित्यर्थः । अयं च समुच्चयो मयापि सम्प्रदायमतमिति कृत्वा समुन्नीतः, वस्तुतो नय. दुनयविभागो न दैगम्बर एव, हेमसूरिभिरपि "सदेव सत् स्यात् सदिति त्रिधार्थो भीयेत दुर्नीति-नयप्रमाणैः” [अन्ययोगव्य० श्लो. २८] इत्यादि विभज्याभिधानात्, आकरे नयत-दाभासाना व्यक्तर्बोधितत्वाच्च । अवधारणी च भाषा एकान्तवादात्मकैव निषिद्धा, न तु नयरूपाऽपि, तस्याः प्रमाणपरिकरत्वेन तत्रावधारणीत्वस्य निश्चायकत्वरूपभाषालक्षणान्वयेनैव सिद्धान्तसिद्धत्वात् , अत एव निराकासाऽनासत्रादिस्थले शब्दसमानाकारमानसस्वीकारे किमपराद्धं शाब्दबोधेनेति पर्यनुयोगे मानसस्य संशयाऽऽकारस्यापि सम्भवाद् निश्चायकरूपशाब्दबोधानुपपत्तेरेव यौक्तिकैनिराकृतः। न च, भाषामात्रस्यावधारणीत्वेऽप्याराधकत्व-विराधकत्व-तदुभया-ऽनुभयैः सत्यादिभेदचतुष्टयोपदेशान्नयभाषाया देशाराधकत्वेन तृतीयभङ्ग अनन्तधर्मेषु मध्ये इत्यर्थः । तन्मतं श्रीमलयगिरिमतम् । अनुरुध्य आश्रित्य । 'एकधर्मगम्' इत्यस्य विवरणम्प्रतिनियतकधर्मप्रतिपिपादयिषया प्रयुक्तम्' इति, ‘स्यात्पदादपरोल्लेखि' इत्यस्य अपरोल्लेखि' इत्यस्य विवरणम्- 'अपरे येऽनन्तधर्मास्ताल्लिखतीत्येवंशीलम्' इति । सप्तभङ्गयात्मकं वाक्यं प्रमाणम्, च पुन: स्यात्पदादपरोल्लेख्येकधर्मगमपि वाक्यं प्रमाणमिति सम्प्रदायमतमनुरुध्यैव ग्रन्थकृतोक्तम् , न तु तत्र निर्भरः स्वस्येति ग्रन्थकार आह- अयं चेति । मयाऽपि प्रकृतग्रन्थकृता श्रीयशोविजयोपाध्यायेनापि । श्रीहेमसूरि-देवरिप्रभृतयः श्वेताम्बरशिरोमणयोऽपि नयदुनय-नयनयाभासविभागमुपयन्तीति नय-दुनयविभागो दैगम्बर एव न, किन्तु श्वेताम्बरसम्मतोऽपीत्याह-वस्तुत इति । 'सदेव' इति वचनेन दुर्नीत्याऽर्थों मीयते, 'सद्' इति वचनेन नयेनार्थो मीयते, 'स्यात् सद्' इति वचनेन प्रमाणेनाओं मीयते, इत्येवं दुनाति-नय-प्रमाणवाक्यानां श्रीहेमसूरिभिर्विभज्याभिधानान्नय-दुर्नयविभागस्तसम्मत इत्यर्थः। आकरे इति-स्याद्वादरत्नाकरे प्रमाणनयतत्त्वालोकालङ्काराभिधमूलप्रन्थगुम्फितसोदाहरणनय-तदाभासानी व्यक्तेर्विभागस्य श्रीदेवसूरिभिबोंधितत्वालय-तदाभासविभागो देवसूरिसम्मत इत्यर्थः । यत् तूक्तम्- 'अवधारणी भाषा ध निषिद्धा' इति तत्राह-अवधारणी चेति । तस्याः नयरूपाया अवधारणीभाषायाः। तत्र नयभाषायाम् । अवधारणीस्वस्येति- परस्य संशयाऽज्ञानादिनिवृत्तये निश्चायकमेव वचनं प्रयुञ्जते परीक्षका इति इति भाषाया निश्चायकत्वमेव लक्षणं सिद्धान्तानुमोदितमिति नयवाक्ये अवधारणीस्वस्य सद्धाबालक्षणसमन्वयेन सिद्धान्तसिद्धत्वतो गुणावहत्वमेवेति ताशभाषाभाषण न साधूनां सिद्धान्तनिषिद्धमित्यर्थः । अत एव निश्चायकत्वस्य भाषालक्षणस्य सिद्धान्तसिद्धत्वादेव । शाब्दबोधे आकासाऽऽसत्त्यादेश्च कारणत्वाभिराकालाऽनासन्नादिवाक्यस्थले न शाब्दबोधः, किन्तु पदेभ्य उपस्थितानामनामन्वयबोधो मानसः शाब्दबोधसमानाकारको भवतीत्येवमुपगमे यथा मानसे आकाङ्क्षादि न कारणं तथा शाब्दबोधेऽपि तत् कारण माऽस्त्वित्युपगम्य शब्दबोध एव किमिति निराकालाऽसन्नादिस्थले नोपयते इति पर्यनुयोगः, निश्चयात्मक एवं मानसबोध इति न नियमस्तेन निराकाहादिस्थले उपस्थितानां पदार्थानामन्वयबोधः संशयात्मकः सम्भवति, शाब्दबोधस्तु निश्चयात्मक एव भवतीति नियमेन तत्र शाब्दबोधस्य निश्चयात्मकस्याऽनुपपत्तेरेव युक्तिप्रधानस्तार्किकैर्निराकृत इत्याह-निराकाति । 'शब्दसमानाकारः' इति स्थाने 'शाब्दसमानाकारः' इति पाठो युक्तः । 'पर्यनुयोगे' इत्यस्य स्थाने 'पर्यनुयोगो' इति पाठो युक्तः, तस्य 'निराकृतः' इत्यनेनान्वयः । 'न च' इत्यस्य 'युक्तम्' इत्यनेनान्वयः तदुभयति- आराधकत्व-विराधकत्वोभयेत्यर्थः । अनुभयति-आराधकत्व-विराधकत्वोभयरहितति, नाराधकस्वभावो नापि विराधकस्वभाव इति यावत् । सत्यादिभेदचतुष्टयेति- सत्याभाषा, मूषाभाषा, सत्यामृषाभाषा, असत्याऽमृषाभाषेत्येवं चतुष्टयेत्यर्थः । तत्र सत्याभाषा आराधकस्व. भावा मृषाभाषा विधिक स्वभावा, सत्यामृषाभाषा तदनुभयस्वभावा, असत्यामृषाभाषा तदनुभयस्वभावेति । तृतीयभल एव सत्यामृषाभाषालक्षणभाषातृतीयप्रकार एव । निक्षेपात प्रवेशात् । युक्तत्वप्रतिक्षेपयुक्तिमुपदर्शयति-चतर्धा विभागस्येति ।

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210