Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 78
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्तार्थबोधनस्यैव तत्प्रयोजनस्वात्, अवक्तव्यबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथाबुबोधयिषाया एवासम्भवादित्यधिक मस्मत्कृताऽने कान्तव्यवस्थायाम् । तदेवं प्रतिपर्यायं सप्तप्रकारबोधजनकता पर्याप्तिमद् वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्धम् । इत्थ तदन्तर्भूतस्य तद्बहिर्भूतस्य वाऽन्यतरभङ्गस्य प्रदेश- परमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो लभ्यते । इतरप्रतिक्षेपी तु नयो नयाभासो दुर्नयो वेत्युच्यते । ५२ त्वम्, मलयगिरिचरणास्तु- “नयो दुर्नयः सुनयश्चेति दिगम्बरी व्यवस्था, न त्वस्माकं नय-दुर्नययोरविशेषात् स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृस्त्याऽभेदोपचाराद् वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छन्दलान्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणी भाषा च निषिद्धा, तस्या नयरूपत्वात्, नयानां च सर्वेषां मिध्यादृष्टित्वात्, तथा चानुस्मरन्ति - " सव्वे णया मिच्छावायिणो" [ ]त्ति, न च सप्तभङ्गात्मकं प्रमाणवाक्यम्, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यम्, सप्त भङ्गाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, न च तासां सार्वत्रिकत्वम् को जीवः ? इति प्रभे लक्षणमात्र जिज्ञासया 'स्याज्ज्ञानादिलक्षणो जीवः' इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात् स्यात्पदस्य चात्राऽनन्तधर्मात्मकत्व द्योतकत्वेत प्रामाण्याङ्गद्योतकत्वं चात्रोपसम्पदानकी शक्तिर्लक्षणा वेत्यन्यदेतत्, तत्र च श्रुतपदप्रतिपाद्यधर्माशे लौकिकी इति एवं प्रकारेण । द्वावेव भङ्गौ प्रथम द्वितीयावेव भङ्गौ । व्यञ्जननये शब्दनये । व्यञ्जननयेऽवक्तव्यमन्नासम्भवे हेतुमुपदर्शयति- श्रोतरीति- प्रतिपाद्य पुरुषे शब्दविशिष्टार्थबोधनस्यैव वाक्यप्रयोजनत्वादित्यर्थः । तनये शब्दनये । तथाबुबोधयिषया अवक्तव्यबोधनेच्छया । एतदर्थविशेषावगमे छुभिरस्मत्कृताऽनेकान्तव्यवस्था प्रकरणमवलोकनीयमित्युपदेशाभिप्रायेण ग्रन्थकार आह-- इत्यधिकमिति । 'सप्तभङ्गयात्मकं वाक्यं प्रमाणं पूर्णबोधकृत्' इत्यस्य पर्यवसितमर्थं पूर्वोपदर्शितमुपसंहरति- तदेवमिति । इत्थं च सप्तभङ्गयात्मक महावाक्ययस्यैव प्रमाणत्वे च । तदन्तर्भूतस्य सप्तभङ्गयन्तर्गतस्य । तद्वहिर्भूतस्य वा सप्तभङ्गीबहिर्भूतस्य वा । अन्यतरभङ्गस्य सप्तानां भवानां मध्यादेकैकस्य भङ्गस्य | प्रदेश- परमाणुदृष्टान्तेनेति- स्कन्धसन्निविष्टः परमाणुः प्रदेश इत्युच्यते, स्कन्धात् पृथग्भूतच केवलः परमाणुरिति व्यपदिश्यते, तथा सप्तभङ्गीस्वरूपमापन्नो भङ्गस्तदात्मना प्रमाणवाक्यम्, प्रत्येकासाधारणस्वस्वरूपात्मना तत्सन्निविष्टो बहिर्भूतो वा नयवाक्यमित्येवमन्यतरभङ्गस्यार्थान्नयवाक्यत्वं लभ्यत इत्यर्थः । सप्तभङ्गीसन्निविष्टस्य तद्बहिर्भूतस्य वाऽन्यतरभङ्गस्य स्यात्कारलाञ्छितत्वेनेतरनयप्रतिक्षेपित्वाभावान्नयत्वम् स्यात्कारालाञ्छितस्य तु भङ्गस्येतरनयप्रतिक्षेपित्वेन नयाभासत्वं दुर्नयस्वं ि नयाभास इत्याख्यायते, दुर्नय इति वा व्यपदिश्यत इत्याह- इतरप्रतिक्षेपी त्विति । अत्र मलयगिरिचरणानां मन्तव्यभेदमुपदर्शयति- मलयगिरिचरणास्त्विति -- अस्य 'इत्यभिसन्दधते' इत्यनेनान्वयः । न त्वस्माकं श्वेताम्बराणां नयो दुर्नयः सुनयश्चेति व्यवस्था नैव । तत्र हेतुमाह - नयेति । यत्र स्याच्छन्दोपादानमस्ति तन्नयवाक्यम्, यत्र तन्नास्ति तद् दुर्नयवाक्यमित्येवं कथञ्चिद्घटितार्थ तदघटितार्थ रूपार्थविशेषसद्भावो न वाच्यः स्याच्छदघटितेनैकेनापि भङ्गेनैकधर्मप्रतिपादनमुखेन कालादिभिरभेदवृत्त्याऽभेदोपचारेण वाऽशेषधर्म प्रतिपादनतोऽनन्तधर्मात्मक वस्तुप्रतिपादने तथाभूतभङ्गस्य प्रमाणवाक्यत्वस्यैव सम्भवादित्याह- स्याच्छब्देनेति । कालादिभिरिति - "कालाऽऽत्मरूपसम्बन्धाः संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाचेत्यष्टौ कालादयः स्मृताः " ॥ १ ॥ [ [] इति वचनादादिपदादात्मरूपादीनां ग्रहणम् । अभेदवृत्त्येति - द्रव्यार्थिकनयादेशादभेदवृत्तिप्राधान्याश्रयणेनेत्यर्थः । अभेदोपचारादिति पर्यायार्थिकनयादेशाद् धर्माणां परस्परं भेदेऽप्यभेदोपचारादित्यर्थः । अत एव स्यात्पदलाञ्छितस्यैकस्यापि भङ्गस्योक्तदिशा प्रमाणवाक्यत्वादेव । अवधारणी भाषा स्यात्कारालाञ्छितैवकार संचलिता भाषा । तस्याः निरुक्तभाषायाः । नयानां मिथ्यादृष्टित्वे आगमवचनं प्रमाणयति तथा चेति । सव्वे० इति - “ सर्वे नया मिध्यावादिनः " इति । 'न च' इत्यस्य ' शक्यम्' इत्यनेनान्वयः । तासां जिज्ञासानाम् । अत्र ' स्याद् ज्ञानादिलक्षणो जीवः' इति वाक्ये | अनन्तधर्मात्मकत्वं यदि स्यात्पदेन श्रोतते तदाऽनन्तधर्मान्तर्गतो धर्मः श्रुतोऽपि धर्मः, तस्याश्रुतधर्मापेक्षया किं वैलक्षण्यमित्यपेक्षायामाह - तत्र चेति

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210