Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 60
________________ ३४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । मात्रस्याऽकिञ्चित्करत्वात् , भेदश्च विरुद्धधर्माध्यासात् , स च न्यूनाधिकदेशपर्याप्तवृत्तिकत्वम्" इत्याहुः । अपरे तु-" घट-कुट-कुड्य-कुशूलेषु द्वित्व-त्रित्वादिप्रतीतावेकतरनाशे तद्वृत्तेर्द्वित्वादेरपि संयोगादेरिब विनाशप्रत्ययादनित्यवृत्ति नानाव्यक्तिकमेव द्वित्वादिकम् , आश्रयविनाशोत्पादाभ्यामेव तस्योत्पाद-विनाशी, असमवायिकारणं त्वाश्रयस्यैकत्वं परिमाण वा, एकव्यक्तिवृत्तिकमेकत्वमिव तुल्यव्यक्तिवृत्तिकं द्वित्वाद्यपि नाऽनेकम् , तुल्यव्यक्तिवृत्तित्वादेः प्रतिबन्धकत्वात् , बुद्धिविशेषस्तव्यञ्जको न तूत्पादकः, नित्येषु त्वेकव्यक्तिकमनेकव्यक्तिकं वा नित्यम् ” इत्याहुः। वयं तु ब्रमः-जन्यत्वनयेऽपेक्षाबुद्धेर्जन्यतावच्छेदकमेकत्वान्यसंख्यात्वं वाच्यम् , यद्वा, एकत्वजन्यतावच्छेदकतया द्वित्वमारभ्य परार्द्धपर्यन्तमेका जातिः सिद्ध्यति लाघवात्, न तु जन्यसंख्यात्वमेवैकत्वव्ययत्वमेवेति नियमो न कल्पयितुं शक्यः, क्वचित् पार्थिवे लोहलेख्यत्वदर्शनेऽपि यत्र पार्थिवत्वं तत्र लोहलेख्यत्वमिति नियमो नास्ति, वजे व्यभिचारादिति सहचारदर्शनमात्रे न नियमप्रयोजकमित्यर्थः । ननु द्वित्व-त्रित्वादीनां सामान्यरूपत्वे भेद एव कथम् ? येन प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं स्यादित्यत आह-भेदश्चेति । स च विरुद्धधर्मश्च । न्यूनेति- द्वित्वस्य त्रित्वापेक्षया न्यूनदेशपर्याप्तवृत्तिकरवं त्रित्वस्य द्वित्वापेक्षयाधिकदेशपर्याप्तवृत्तिकत्वमित्येवं विरुद्धधर्माध्यासाद् द्वित्व-त्रित्वादीनां भेद इत्यर्थः । एतन्मते सर्व द्वित्वादिकं नित्यं सामान्यरूप मेवेति ॥ अनित्यगतं द्वित्वादिकमनित्यं नित्यगतं पुनर्नित्यमिति मतान्तरमुपदर्शयति- अपरे विति- अस्यापि 'आहुः' इत्यनेन सम्बन्धः । तस्य द्वित्वादेः । असमवायिकारणं तु द्वित्व-त्रित्वादीनामसमवायिकारण पुनः, आश्रयद्वयगतमेकत्वद्वयं परिमाणद्वयं वा द्वित्वस्यासमवायिकारणम् , त्रित्वस्य स्वायत्रयगतमेकत्वत्रय परिमाणत्रयं वाऽसमवायिकारणम् , एवं दिशा चतुष्ट्रवादीनामप्यसमवायिकारणं बोध्यम् । नानाव्यक्तिकं द्वित्वाद्विकं यथा नाना न तथा तुल्यव्यक्तिकम्, तत् तु एकव्यक्तिवृत्तिकमेकत्वमिवैकमेवैत्याह- एकव्यक्तिकमिति । अनेकत्वं तत्र कथं नेत्यपेक्षायामाह- तुल्यव्यक्तिवृत्ति. स्वादेरिति । प्रतिबन्धकत्वात अनेकत्वस्य प्रतिबन्धकत्वात् । बुद्धिविशेष: 'अयमेकोऽयमेकः' इत्यपेक्षाबुद्धिरूपः । तदव्यञ्जकः द्वित्वादिव्यजकः, अर्थाद् द्वित्वादिप्रत्यक्ष कारणम् । न तूत्पादकः द्वित्वादेरुत्पादको न भवति । यदा चाश्रयविनाशोत्पादाभ्यामेव द्वित्वादीनां विनाशोत्पादो, तदा नित्यद्रव्यरूपस्याश्रयस्य विनाशोत्पादयोरभावात् तद्रत द्वित्वादिक न विनश्यति नाप्युत्पद्यते, किन्तु नित्यमित्याह-नित्येषु त्विति । 'एक व्यक्तिकम्' इत्यस्य तुल्यव्यक्तिवृत्तिकमित्यर्थः, यथातं तु द्वित्वादौ न सङ्गतं द्वित्वादेरेकव्यक्तिमात्रवृत्तिस्वाभावात् । अत्र ग्रन्थकारः स्वामिप्रेतमुपदर्शयति- वयं स्विति- अपेक्षाबुद्धिर्द्वित्वादेनिमित्तकारणम् , एकत्वं त्वसमवायिकारणम्, तत्र निमित्तकारणस्यापेक्षाबुद्धर्जन्यतावच्छेदकमेकत्वान्यसङ्ख्यात्वं द्वित्वाधारभ्य परार्द्धपर्यन्तसङ्खयात्ति वाच्यम् । यद्वा अथवा, एकत्वं यद् द्वित्वादिपराईपर्यन्तसङ्ख चाया असमवायिकारणं तन्निरूपितजनकतावच्छेदकतया द्वित्वमारभ्य परार्द्धपर्यन्तमेका जातिलाघवात् सिद्धयतीत्यर्थः । ननु अवयवगतमेकत्वमवयविगतकत्वं प्रति असमवायिकारणमित्येकत्वस्यैकत्वमपि कार्यमिति तदेकत्वसाधारणं परार्द्धपर्यन्तजनसङ्ख्यावृत्तिजन्यसङ्ख्यात्वमेवैकत्वजन्यतावच्छेदकं ततोऽपि लाघवादस्त्वित्यत आह-न वि. ति । निषेधे हेतुमाह- कारणेति- अवयविगतैकत्वं प्रति यदवयवगतैकत्वस्य कारणत्वं तत्र कारणैकार्थप्रत्यासत्तिः कारणतावच्छेदकसम्बन्धः, अर्थात् समवायसम्बन्धेनावयव्येकत्वं प्रति स्वसमवायिसमवेतत्वसम्बन्धेनावयवगतैकत्वं कारणमिति. द्वित्वादिकं प्रति यदेकत्वस्य कारणत्वं तत्र कार्यकार्थप्रत्यासत्तिः कारणतावच्छेदकसम्वन्धः, अर्थात् समवायसम्बधेन द्वित्वादिक प्रति समवायसम्बन्धेनैकत्वं कारणमिति, तथा च कारणतावच्छेदकसम्बन्धभेदेन तदवच्छिन्नकारणताया भिन्नत्व तन्निरूपित-- कार्यताया अपि भिन्नत्वान्न तयोः कार्यत्ययोरेकमवच्छेदकम्, किन्तु समवायसम्बन्धावच्छिन्नैकत्वनिष्ठकारणतानिरूपितसमवायसम्बन्धाचाच्छिन्नकत्वनिष्टकार्यताया जन्यैकत्वत्वमवच्छेदकम् , स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नैकत्वनिम्तकारणतानिरूपितसमवायसम्बन्धावच्छिन्नद्वित्वादिनिष्टकार्यताथा द्वित्वमारभ्य परार्द्धपर्यन्तुसङ्ख्यावृत्तिजातिविशेषोऽवच्छेदक इत्यत आह

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210