Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 63
________________ नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । विशिष्टाया अपेक्षाबुद्धेः परैर्जनकत्वं व्यञ्जकत्वं वाऽभ्युपगम्यते तादृशविषयतानिरूपितापेक्षात्वाख्यविषयता द्वित्वादौ नास्माकमसुलभा । सामान्य- विशेषत्वादेरापेक्षिकत्वेऽपीयमेव रीतिरनुसर्तव्या । न चैवमनपेक्षैकत्व- द्वित्वादिप्रत्यक्षानुपपत्तिः, द्रव्यनयालम्बनेनानपेक्षात्मकविषयतान्तरस्यापि स्वीकारात् । अत एव सापेक्षत्वा-ऽनपेक्षत्वाभ्यामपि स्याद्वादः, अस्मदुक्त पक्ष एवापेक्षाबुद्धि - द्वित्वबुद्ध्योः पौर्वापर्यानवभासोपपत्तिः, अनन्त कार्यकारणभाव प्रतिबध्यप्रतिबन्धक भावादिकल्पनागौरवदूषणानवकाशश्चेति सर्वमवदातम् । तस्मात् स्वसमये परसमये एकत्व-द्वित्वादिप्रकारकनानाविधलौकिकव्यवहारे च नयापेक्षयैव विविको बोध इति स्थितम् ॥ ४ ॥ फलितमाह ---- तेन सापेक्षभावेषु प्रतीत्यवचनं नयः । अभावाभावरूपत्वात् सापेक्षत्वं विधावपि ॥ ५ ॥ ३७ नया० - तेनेति - तेन उक्तहेतुना, सापेक्षभावेषु परस्परप्रतियोगिकेषु धर्मेषु प्रतीत्यवचनम् अपेक्षात्मकं वाक्यम्, नय इति सिद्धम् । नन्वेवं 'स्यान्नास्त्येव' इत्येकवचनं नयः स्यात्, न तु 'स्यादत्येव' इति, तदर्थस्य विधेरप्रतियोगिकत्वादत एवाह - विधावपि अस्तित्वादिभावेऽपि, अभावाभावरूपत्वात् नास्तित्वाद्यभावस्वरूपत्वात् तेन रूपेण प्रतियोगिनिरूपणाधीन निरूपणतया सापेक्षत्वमस्त्येव । अयं प्रवर्तत इत्येवमेकस्या अपेक्षा बुद्धैर्नयरूपाया द्वितीय। पेक्षा बुद्धयात्मकनय संयोजनया सप्तभङ्गीप्रवृत्तिः सङ्गतिमङ्गतीत्यर्थः । परैः नैयायिकः प्रभाकरानुयायिभिर्वा । अस्माकं जैनानाम्, नासुलभा किन्तु सुलभव । यथा चोकापेक्षात्वाख्यविषयताशालित्वाद् द्वित्वादीनामापेक्षिकत्वं तथा सामान्यत्व - विशेषत्वादेरप्यपेक्षा बुद्धिगम्यत्वात् तत्तदपेक्षाबुद्धिवैलक्षण्यप्रयोजक विषयताविशेषनिरूपितापेक्षात्वविषयताशालित्वादापेक्षिकत्वमित्याह - सामान्य-विशेषत्वादेरिति । ननु यद्येकत्व - द्वित्वादीनामुक्तापेक्षात्वाख्यविषयताशालित्वादापेक्षिकत्वं तर्हि किञ्चिदपेक्षयैकत्व-द्वित्वादिप्रत्यक्षस्यापेक्षावुद्धिप्रभवस्य सम्भवेऽप्यनपेक्षैकत्वबुद्धेः 'एको घटः' इत्याद्य | कारिकायाः, अनपेक्षद्वित्वबुद्धेः 'द्वाविमौ घट-पटौ' इत्याया कारिकायाश्चानुपपत्तिरित्याशङ्कां प्रतिक्षिपति - न चेति । एवं द्वित्वादावपेक्षात्वाख्यविषयत्वोरीकारे । निषेधे हेतुमाह- द्रव्यनयावलम्बनेनेति । अत एव सापेक्षत्वाख्या-ऽनपेक्षत्वाख्यविषयत्वद्वयस्वीकारादेव । अन्यमतापेक्षया स्वाभ्युपगतपक्षे विशेषमुपदर्शयति- अस्मदुक्तपक्ष पवेति- अपेक्षा बुद्धयाऽनन्तपर्यायोपेतद्रव्ये यथाक्षयोपशमं कदाचिद् द्वित्वप्रत्यक्षं कदाचित् त्रित्वप्रत्यक्षमित्युपगमे क्षयोपशमविशेषादेव द्वित्व-त्रित्वादिप्रत्यक्षसम्भव न विभिन्न कार्यकारणभावकल्पना, त्रित्वप्रत्यक्षकाले क्षयोपशमविशेषस्य द्वित्वप्रत्यक्षनियामकस्याभावादेव न द्वित्वप्रत्यक्षमिति न त्रित्वादिप्रत्यक्षसामग्र्या द्वित्वादिप्रत्यक्ष प्रतिबन्धकत्वम्, अपेक्षाबुद्धिद्वित्वबुद्धयोरत्यन्ताव्यवधानाच्च पौर्वापर्यानवभासनमित्यर्थः । उपसंहरति- तस्मादिति ॥ ४ ॥ पञ्चमपथमवतारयति - फलितमाहेति- अनन्तराभिहितविचारेण यत् फलितं तदाहेत्यर्थः । पञ्चमपद्यं विवृणोतितेतीति । ननु निषेधस्य सप्रतियोगिकत्वेन तत्प्रतिपादकवचनस्यापेक्षात्मकवाक्यत्वेन नयत्वस्य सम्भवेऽपि विधेर प्रतियोगिकत्वात् तत्प्रतिपादकवचनस्यापेक्षात्मकवाक्यत्वाभावात् कथं नयत्वमिति शङ्का-समाधानपरतयोत्तरार्द्धमवतारयति - नन्वेवमिति । एवम् अपेक्षात्मक वाक्यस्य नयत्वे । तदर्थस्य 'स्यादस्त्येव' इतिवचनार्थस्य । तेनेति- नास्तित्वाद्यभावत्वेन रूपेणास्तित्त्रादिलक्षणभावस्य प्रतियोगिनो नास्तित्वस्य यन्निरूपणं तद्विषयकज्ञानानुकूलव्यापारः, तदधीनं तत्प्रयोज्यं निरू. पणं यस्य तत्त्वेन तत्प्रयोज्यज्ञानविषयत्वेन, नास्तिलाभावप्रतियोगिज्ञानजन्यनास्तित्वाभावज्ञानविषयत्वेनेति यावत् । ननु नास्तित्वस्य नियमतोऽस्तित्वाभावरूपतया प्रतीयमानत्वात् तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वेऽपि विधिरूपस्यास्तित्वस्य विधिस्वरूपॆणापि प्रतीयमानत्वात् तद्रूपेण तत्प्रतीतौ प्रतियोगिज्ञानापेक्षाभावात् कथं तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वम्, अतो

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210