________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
विशिष्टाया अपेक्षाबुद्धेः परैर्जनकत्वं व्यञ्जकत्वं वाऽभ्युपगम्यते तादृशविषयतानिरूपितापेक्षात्वाख्यविषयता द्वित्वादौ नास्माकमसुलभा । सामान्य- विशेषत्वादेरापेक्षिकत्वेऽपीयमेव रीतिरनुसर्तव्या । न चैवमनपेक्षैकत्व- द्वित्वादिप्रत्यक्षानुपपत्तिः, द्रव्यनयालम्बनेनानपेक्षात्मकविषयतान्तरस्यापि स्वीकारात् । अत एव सापेक्षत्वा-ऽनपेक्षत्वाभ्यामपि स्याद्वादः, अस्मदुक्त पक्ष एवापेक्षाबुद्धि - द्वित्वबुद्ध्योः पौर्वापर्यानवभासोपपत्तिः, अनन्त कार्यकारणभाव प्रतिबध्यप्रतिबन्धक भावादिकल्पनागौरवदूषणानवकाशश्चेति सर्वमवदातम् । तस्मात् स्वसमये परसमये एकत्व-द्वित्वादिप्रकारकनानाविधलौकिकव्यवहारे च नयापेक्षयैव विविको बोध इति स्थितम् ॥ ४ ॥ फलितमाह ----
तेन सापेक्षभावेषु प्रतीत्यवचनं नयः ।
अभावाभावरूपत्वात् सापेक्षत्वं विधावपि ॥ ५ ॥
३७
नया० - तेनेति - तेन उक्तहेतुना, सापेक्षभावेषु परस्परप्रतियोगिकेषु धर्मेषु प्रतीत्यवचनम् अपेक्षात्मकं वाक्यम्, नय इति सिद्धम् । नन्वेवं 'स्यान्नास्त्येव' इत्येकवचनं नयः स्यात्, न तु 'स्यादत्येव' इति, तदर्थस्य विधेरप्रतियोगिकत्वादत एवाह - विधावपि अस्तित्वादिभावेऽपि, अभावाभावरूपत्वात् नास्तित्वाद्यभावस्वरूपत्वात् तेन रूपेण प्रतियोगिनिरूपणाधीन निरूपणतया सापेक्षत्वमस्त्येव । अयं
प्रवर्तत इत्येवमेकस्या अपेक्षा बुद्धैर्नयरूपाया द्वितीय। पेक्षा बुद्धयात्मकनय संयोजनया सप्तभङ्गीप्रवृत्तिः सङ्गतिमङ्गतीत्यर्थः । परैः नैयायिकः प्रभाकरानुयायिभिर्वा । अस्माकं जैनानाम्, नासुलभा किन्तु सुलभव । यथा चोकापेक्षात्वाख्यविषयताशालित्वाद् द्वित्वादीनामापेक्षिकत्वं तथा सामान्यत्व - विशेषत्वादेरप्यपेक्षा बुद्धिगम्यत्वात् तत्तदपेक्षाबुद्धिवैलक्षण्यप्रयोजक विषयताविशेषनिरूपितापेक्षात्वविषयताशालित्वादापेक्षिकत्वमित्याह - सामान्य-विशेषत्वादेरिति । ननु यद्येकत्व - द्वित्वादीनामुक्तापेक्षात्वाख्यविषयताशालित्वादापेक्षिकत्वं तर्हि किञ्चिदपेक्षयैकत्व-द्वित्वादिप्रत्यक्षस्यापेक्षावुद्धिप्रभवस्य सम्भवेऽप्यनपेक्षैकत्वबुद्धेः 'एको घटः' इत्याद्य | कारिकायाः, अनपेक्षद्वित्वबुद्धेः 'द्वाविमौ घट-पटौ' इत्याया कारिकायाश्चानुपपत्तिरित्याशङ्कां प्रतिक्षिपति - न चेति । एवं द्वित्वादावपेक्षात्वाख्यविषयत्वोरीकारे । निषेधे हेतुमाह- द्रव्यनयावलम्बनेनेति । अत एव सापेक्षत्वाख्या-ऽनपेक्षत्वाख्यविषयत्वद्वयस्वीकारादेव । अन्यमतापेक्षया स्वाभ्युपगतपक्षे विशेषमुपदर्शयति- अस्मदुक्तपक्ष पवेति- अपेक्षा बुद्धयाऽनन्तपर्यायोपेतद्रव्ये यथाक्षयोपशमं कदाचिद् द्वित्वप्रत्यक्षं कदाचित् त्रित्वप्रत्यक्षमित्युपगमे क्षयोपशमविशेषादेव द्वित्व-त्रित्वादिप्रत्यक्षसम्भव न विभिन्न कार्यकारणभावकल्पना, त्रित्वप्रत्यक्षकाले क्षयोपशमविशेषस्य द्वित्वप्रत्यक्षनियामकस्याभावादेव न द्वित्वप्रत्यक्षमिति न त्रित्वादिप्रत्यक्षसामग्र्या द्वित्वादिप्रत्यक्ष प्रतिबन्धकत्वम्, अपेक्षाबुद्धिद्वित्वबुद्धयोरत्यन्ताव्यवधानाच्च पौर्वापर्यानवभासनमित्यर्थः । उपसंहरति- तस्मादिति ॥ ४ ॥
पञ्चमपथमवतारयति - फलितमाहेति- अनन्तराभिहितविचारेण यत् फलितं तदाहेत्यर्थः । पञ्चमपद्यं विवृणोतितेतीति । ननु निषेधस्य सप्रतियोगिकत्वेन तत्प्रतिपादकवचनस्यापेक्षात्मकवाक्यत्वेन नयत्वस्य सम्भवेऽपि विधेर प्रतियोगिकत्वात् तत्प्रतिपादकवचनस्यापेक्षात्मकवाक्यत्वाभावात् कथं नयत्वमिति शङ्का-समाधानपरतयोत्तरार्द्धमवतारयति - नन्वेवमिति । एवम् अपेक्षात्मक वाक्यस्य नयत्वे । तदर्थस्य 'स्यादस्त्येव' इतिवचनार्थस्य । तेनेति- नास्तित्वाद्यभावत्वेन रूपेणास्तित्त्रादिलक्षणभावस्य प्रतियोगिनो नास्तित्वस्य यन्निरूपणं तद्विषयकज्ञानानुकूलव्यापारः, तदधीनं तत्प्रयोज्यं निरू. पणं यस्य तत्त्वेन तत्प्रयोज्यज्ञानविषयत्वेन, नास्तिलाभावप्रतियोगिज्ञानजन्यनास्तित्वाभावज्ञानविषयत्वेनेति यावत् । ननु नास्तित्वस्य नियमतोऽस्तित्वाभावरूपतया प्रतीयमानत्वात् तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वेऽपि विधिरूपस्यास्तित्वस्य विधिस्वरूपॆणापि प्रतीयमानत्वात् तद्रूपेण तत्प्रतीतौ प्रतियोगिज्ञानापेक्षाभावात् कथं तत्प्रतिपादकवचनस्य सापेक्षवाक्यत्वम्, अतो