________________
३४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
मात्रस्याऽकिञ्चित्करत्वात् , भेदश्च विरुद्धधर्माध्यासात् , स च न्यूनाधिकदेशपर्याप्तवृत्तिकत्वम्" इत्याहुः ।
अपरे तु-" घट-कुट-कुड्य-कुशूलेषु द्वित्व-त्रित्वादिप्रतीतावेकतरनाशे तद्वृत्तेर्द्वित्वादेरपि संयोगादेरिब विनाशप्रत्ययादनित्यवृत्ति नानाव्यक्तिकमेव द्वित्वादिकम् , आश्रयविनाशोत्पादाभ्यामेव तस्योत्पाद-विनाशी, असमवायिकारणं त्वाश्रयस्यैकत्वं परिमाण वा, एकव्यक्तिवृत्तिकमेकत्वमिव तुल्यव्यक्तिवृत्तिकं द्वित्वाद्यपि नाऽनेकम् , तुल्यव्यक्तिवृत्तित्वादेः प्रतिबन्धकत्वात् , बुद्धिविशेषस्तव्यञ्जको न तूत्पादकः, नित्येषु त्वेकव्यक्तिकमनेकव्यक्तिकं वा नित्यम् ” इत्याहुः।
वयं तु ब्रमः-जन्यत्वनयेऽपेक्षाबुद्धेर्जन्यतावच्छेदकमेकत्वान्यसंख्यात्वं वाच्यम् , यद्वा, एकत्वजन्यतावच्छेदकतया द्वित्वमारभ्य परार्द्धपर्यन्तमेका जातिः सिद्ध्यति लाघवात्, न तु जन्यसंख्यात्वमेवैकत्वव्ययत्वमेवेति नियमो न कल्पयितुं शक्यः, क्वचित् पार्थिवे लोहलेख्यत्वदर्शनेऽपि यत्र पार्थिवत्वं तत्र लोहलेख्यत्वमिति नियमो नास्ति, वजे व्यभिचारादिति सहचारदर्शनमात्रे न नियमप्रयोजकमित्यर्थः । ननु द्वित्व-त्रित्वादीनां सामान्यरूपत्वे भेद एव कथम् ? येन प्रतिनियतव्यञ्जकव्यङ्ग्यत्वं स्यादित्यत आह-भेदश्चेति । स च विरुद्धधर्मश्च । न्यूनेति- द्वित्वस्य त्रित्वापेक्षया न्यूनदेशपर्याप्तवृत्तिकरवं त्रित्वस्य द्वित्वापेक्षयाधिकदेशपर्याप्तवृत्तिकत्वमित्येवं विरुद्धधर्माध्यासाद् द्वित्व-त्रित्वादीनां भेद इत्यर्थः । एतन्मते सर्व द्वित्वादिकं नित्यं सामान्यरूप मेवेति ॥
अनित्यगतं द्वित्वादिकमनित्यं नित्यगतं पुनर्नित्यमिति मतान्तरमुपदर्शयति- अपरे विति- अस्यापि 'आहुः' इत्यनेन सम्बन्धः । तस्य द्वित्वादेः । असमवायिकारणं तु द्वित्व-त्रित्वादीनामसमवायिकारण पुनः, आश्रयद्वयगतमेकत्वद्वयं परिमाणद्वयं वा द्वित्वस्यासमवायिकारणम् , त्रित्वस्य स्वायत्रयगतमेकत्वत्रय परिमाणत्रयं वाऽसमवायिकारणम् , एवं दिशा चतुष्ट्रवादीनामप्यसमवायिकारणं बोध्यम् । नानाव्यक्तिकं द्वित्वाद्विकं यथा नाना न तथा तुल्यव्यक्तिकम्, तत् तु एकव्यक्तिवृत्तिकमेकत्वमिवैकमेवैत्याह- एकव्यक्तिकमिति । अनेकत्वं तत्र कथं नेत्यपेक्षायामाह- तुल्यव्यक्तिवृत्ति. स्वादेरिति । प्रतिबन्धकत्वात अनेकत्वस्य प्रतिबन्धकत्वात् । बुद्धिविशेष: 'अयमेकोऽयमेकः' इत्यपेक्षाबुद्धिरूपः । तदव्यञ्जकः द्वित्वादिव्यजकः, अर्थाद् द्वित्वादिप्रत्यक्ष कारणम् । न तूत्पादकः द्वित्वादेरुत्पादको न भवति । यदा चाश्रयविनाशोत्पादाभ्यामेव द्वित्वादीनां विनाशोत्पादो, तदा नित्यद्रव्यरूपस्याश्रयस्य विनाशोत्पादयोरभावात् तद्रत द्वित्वादिक न विनश्यति नाप्युत्पद्यते, किन्तु नित्यमित्याह-नित्येषु त्विति । 'एक व्यक्तिकम्' इत्यस्य तुल्यव्यक्तिवृत्तिकमित्यर्थः, यथातं तु द्वित्वादौ न सङ्गतं द्वित्वादेरेकव्यक्तिमात्रवृत्तिस्वाभावात् ।
अत्र ग्रन्थकारः स्वामिप्रेतमुपदर्शयति- वयं स्विति- अपेक्षाबुद्धिर्द्वित्वादेनिमित्तकारणम् , एकत्वं त्वसमवायिकारणम्, तत्र निमित्तकारणस्यापेक्षाबुद्धर्जन्यतावच्छेदकमेकत्वान्यसङ्ख्यात्वं द्वित्वाधारभ्य परार्द्धपर्यन्तसङ्खयात्ति वाच्यम् । यद्वा अथवा, एकत्वं यद् द्वित्वादिपराईपर्यन्तसङ्ख चाया असमवायिकारणं तन्निरूपितजनकतावच्छेदकतया द्वित्वमारभ्य परार्द्धपर्यन्तमेका जातिलाघवात् सिद्धयतीत्यर्थः । ननु अवयवगतमेकत्वमवयविगतकत्वं प्रति असमवायिकारणमित्येकत्वस्यैकत्वमपि कार्यमिति तदेकत्वसाधारणं परार्द्धपर्यन्तजनसङ्ख्यावृत्तिजन्यसङ्ख्यात्वमेवैकत्वजन्यतावच्छेदकं ततोऽपि लाघवादस्त्वित्यत आह-न वि. ति । निषेधे हेतुमाह- कारणेति- अवयविगतैकत्वं प्रति यदवयवगतैकत्वस्य कारणत्वं तत्र कारणैकार्थप्रत्यासत्तिः कारणतावच्छेदकसम्बन्धः, अर्थात् समवायसम्बन्धेनावयव्येकत्वं प्रति स्वसमवायिसमवेतत्वसम्बन्धेनावयवगतैकत्वं कारणमिति. द्वित्वादिकं प्रति यदेकत्वस्य कारणत्वं तत्र कार्यकार्थप्रत्यासत्तिः कारणतावच्छेदकसम्वन्धः, अर्थात् समवायसम्बधेन द्वित्वादिक प्रति समवायसम्बन्धेनैकत्वं कारणमिति, तथा च कारणतावच्छेदकसम्बन्धभेदेन तदवच्छिन्नकारणताया भिन्नत्व तन्निरूपित-- कार्यताया अपि भिन्नत्वान्न तयोः कार्यत्ययोरेकमवच्छेदकम्, किन्तु समवायसम्बन्धावच्छिन्नैकत्वनिष्ठकारणतानिरूपितसमवायसम्बन्धाचाच्छिन्नकत्वनिष्टकार्यताया जन्यैकत्वत्वमवच्छेदकम् , स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नैकत्वनिम्तकारणतानिरूपितसमवायसम्बन्धावच्छिन्नद्वित्वादिनिष्टकार्यताथा द्वित्वमारभ्य परार्द्धपर्यन्तुसङ्ख्यावृत्तिजातिविशेषोऽवच्छेदक इत्यत आह