________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
प्रागेवोपस्थितौ तद्दोषताया बाहुलेयत्वात्, तददोषत्वे प्रागनुपस्थितेरेव बीजत्वात् । अपि च मानसत्वादिव्याप्यजातिविशेषेणापेक्षा बुद्धेर्द्वित्वादिहेतुत्वे ईश्वरापेक्षा बुद्ध्या परमाणुद्वित्वाद्यजननापत्तिः, ईश्वरज्ञानसाधारणद्वित्वादिजनकतावच्छेदकजातिस्वीकारे च जन्य साक्षात्कारत्वादिना सांकर्यम्, त्रित्वाद्युत्पत्तिकाले द्वित्वाद्युत्पत्त्यात्तिश्च दुर्निवारा । एतेन द्वित्वादिजनकतावच्छेदकतयाऽपेक्षा बुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि निरस्तः परार्द्धादिसंख्यानुत्पत्तिप्रसक्तेश्च तदाश्रययावद्द्रव्यवृत्तिलौकिक विषयताया असम्भवात् । ईश्वरीयापेक्षा बुद्ध्यैव तदुत्पत्त्यङ्गीकारे चान्यत्रापि कारणान्तरोच्छेद इति न किश्चिद् एतद् इत्याहुः ।
39
३३
केचित्तु - " द्वित्व-त्रित्वादिकं तुल्यव्यक्तिवृत्तिकमेव सामान्यम्, अनित्यस्य संयोगादेखि नित्यस्यापि द्वित्वादेर्व्यासज्यवृत्तित्वे विरोधाभावात् । भिन्नेन्द्रियग्राह्याणां रूप रसादीनामिव सामान्येन्द्रियप्राह्माणामपि सत्यप्येकावच्छेदेन समानदेशत्वे प्रतिनियतव्यञ्जकव्यङ्ग्यत्वे विरोधाभावात्, सहचारदर्शन
स्थितं तस्य फलमुखस्यादोषत्वेऽपि यच्च गौरवं पूर्वमेवोपस्थितं सत् कल्पनाप्रतिप्रन्थि तस्य फलमुखस्यापि दोषत्वमेवेति निषेधहेतुमुपदर्शयति- अस्यामिति । तद्दोषतायाः फलमुखगौरवदोषतायाः । तददोषत्वे फलमुखगौरवस्यादोषत्वे । यच, द्वित्वादिजनकतावच्छेदिका मानसत्वव्याप्या या जातयः, तद्रूपेण चांपेक्षा बुद्धेर्द्वित्वादिकं प्रति कारणत्वम्, तदपि न समीचीनमित्याह- अपि चेति । मानसत्वव्याप्यजातिविशेषो मनोरूपैन्द्रियजन्यप्रत्यक्ष एव स्यात्, ईश्वरपेक्षा बुद्धिस्तु नित्यत्वान्न मनोरूपेन्द्रियजन्येति न तत्र मानसत्वव्याप्यजातिरिति कारणतावच्छेदकधर्माऽनाक्रान्तत्वादन्यस्या अपेक्षाबुद्धेः परमाणुगतैकत्वविषयाया अभावात् परमाणुद्वित्वाद्युत्पत्तिर्न स्यात् यदि चेश्वरज्ञान- तदन्यापेक्षबुद्धिगतमेकं सामान्यमुररीकृत्य तस्यैव द्वित्वादिजनकतावच्छेदकत्वं स्वीक्रियते तदा जन्यसाक्षात्कारत्वादिना तस्य सामान्यस्य साङ्कर्यं दुष्परिहरमेव, जन्यसाक्षात्कारत्वाभाववतीश्वरज्ञाने तस्य सामान्यस्य तदभाववत्यपेक्षा बुद्धयनात्मके जन्यसाक्षात्कारे जन्यसाक्षात्कारत्वस्य तदुभयोश्च जन्यसाक्षात्कारात्मकापेक्षा बुद्धौ समावेशात् एवमुक्तसामान्येनापेक्षा बुद्धिर्द्वित्वादिकं त्रित्वादिकं च प्रति कारणमिलेकेन केनचिदपक्षात्मक ज्ञानेन यदा त्रित्वादिकमुत्पद्यते तदा द्वित्वादिकमप्युत्पद्येत, तद्रूपकारणस्य सर्वान् प्रत्यविशिष्टत्वाद् विशिष्य कारणान्तरस्यानिरूक्तेरित्याह- ईश्वरापेक्षा बुद्धयेति ।
'एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः, एतेन - त्रित्वाद्युत्पत्तिकाले द्वित्वाद्युत्पत्तिप्रसङ्गेन । निरासे हेत्वन्तरमाह-परार्द्धादीति । तदाश्रयेति- परार्द्धसङ्ख्याश्रयेत्यर्थः, परार्द्धसङ्ख्याश्रयाणां यावतां द्रव्याणां लौकिकप्रत्यक्षस्यास्मदादीनामसम्भवेन तद्वृत्तिलौकिकप्रत्यक्षविषयताया असम्भवादित्यर्थः । ईश्वरीयेति ईश्वरस्य सर्वविषयको लौकिक एव साक्षात्कारः, तदात्मकापेक्षा बुद्धिनिरूपितलौकिक विषयतायाः परार्द्धादिसङ्ख्याश्रययावद्द्रव्यवृत्तित्वेन तथाभूतलौकिक विषयताश्रयेश्वरीयापेक्षाबुद्धयैव परार्द्धादिसङ्खयोत्पत्तिस्वीकारे त्वन्यत्रापीश्वरीयापेक्षा बुद्धिरेव कारणमित्यस्मदाद्यपेक्षा बुद्धेर्द्वित्वादिकारणत्वमुच्छियेत, अतो द्वित्वादिजनकतावच्छेदकतयाऽपेक्षा बुद्धिनिष्टलौकिक विषयत्वस्वीकारोऽपि न समीचीन इत्येवं प्रभाकरानुसारिण आहुरित्यर्थः ॥
अन्येषां मतमुपदर्शयति- केचित् त्विति - अस्य 'आहुः' इत्यनेन सम्बन्धः । समानव्यक्तिवृत्तिकं द्वित्वमेकमेव, एवं त्रित्वादिकमपि तच सामान्यमेवेत्यर्थः । ननु द्वित्वादिकं व्यासज्यवृत्ति, सामान्यं च व्यासज्यवृत्ति न भवतीति कथं द्वित्वादेः सामान्यरूपत्वमत आह- अनित्यस्येति । यदा च द्वित्व-त्रित्वादिकं तुत्यव्यक्तिवृत्तिकं सामान्यरूपं तदा तेषां समानेन्द्रियप्रायाणां कथं नैकव्यञ्जकव्यञ्जयत्वम् ? कुतः प्रतिनियतव्यञ्जकव्यङ्गयत्वमित्पेक्षायामाह - भिन्नेन्द्रियग्राह्याणामिति । 'सामान्येन्द्रियग्राह्याणामपि' इति स्थाने 'समानेन्द्रियग्राह्याणाम्' इति पाठो युक्तः । ननु समानेन्द्रियप्राह्माणां घटपटादीनां प्रतिनियतव्यञ्जकत्र्याचत्वं न किन्त्वैकल्यणकव्ययत्वमेवेति कथं प्रकृते प्रतिनियतव्यञ्जकव्यमयत्यमित्यत आह- सहचारेति केषाञ्चित् समानेन्द्रियप्राह्माणामेकव्यञ्जकव्यजयत्वदर्शनेन यत्र समानेन्द्रियग्राह्यत्वं तत्रैकव्यञ्जक
५
-