SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिन्यां समलहतो नयोपदेशः । कल्पनायां गौरवात् तद्व्यङ्गयत्वपक्षस्यैव युक्तत्वात् ; अन्यथा नानापुरुषीय क्रमिकापेक्षाबुद्धिसमसंख्यतुल्यव्यक्तिकनानाद्वित्वादिकल्पनेऽपि महागौरवात् , मम तु नित्यानामेव तेषां तत्तदपेक्षाबुद्धिव्यङ्गयत्वे दोषाभावात् । न चैवं तेषां जातित्वापत्तिः, असमवायित्वे सत्यनेकसमवेतस्वस्य समवेतत्वस्यैव वा जातिव्यवहारनिमित्तत्वात् । न च विशेषेऽतिप्रसङ्गः, तत्र मानाभावात् । किश्च, द्वित्वादेर्जन्यत्वे प्रतियोगितया. [आश्रय]नाशाजन्यतमाशे स्वप्रतियोगिजन्यत्वसंवन्धेनापेक्षाबुद्धिनाशत्वेन हेतुता वाच्या, तथा च ब्यणुक. परिमाणहेतुपरमाणुद्वित्वस्येश्वरापेक्षाबुद्धिजन्यस्य नाशानुपपत्तिः । न च, चैत्रीयद्वित्वनाशे चैत्रापेक्षा. बुद्धिनाशो हेतुरित्येवं विशिष्यैव कल्प्यते, परमाणुद्वित्वे तु यादृशोपाधिविशिष्टाया ईश्वरापेक्षाबुद्धेर्हेतुत्वं तादृशोपाधिनाशादेव तन्नाशः, अविशिष्टायास्तस्या हेतुत्वे सर्वदा द्वित्वोत्पत्तिप्रसङ्गादिति वाच्यम् , स्वाव्यवहितपूर्वक्षणावच्छिन्नत्वेनैव तस्या अपेक्षाबुद्धित्वमिति तन्नाशात् परमाणुद्वित्वनाशे तस्य क्षणिकत्वप्रसङ्गात्, अतिरिक्तानुगतोपाधेश्चानिर्वचनात् । अपि चैवं तत्तद्वित्वनाशे तत्तदपेक्षाबुद्धिनाशत्वेन हेतुत्वे महागौरवम् । न च फलमुखत्वादस्यादोषत्वम् , अस्यां कल्पनायामेतावद्गुरुतरं कल्पनीयमिति यदाऽपेक्षाबुद्धिर्भवति तदा तदा व्यज्यते, अपेक्षाबुद्धयभावकालेऽनभिव्यक्तं भवति, जन्यत्वपक्षे तु यद् द्वित्वं ययाऽपेक्षाबुद्धथा जन्यते तदपेक्षाबुद्धिनाशान्नश्यति, एवं कालान्तरे द्वित्वान्तरमपेक्षाबुयन्तरादुत्पद्यत्ते, तन्नाशानश्यति चेति बहूनि द्वित्वानि तत्प्रागभावास्तचंसाश्च बहवः कल्पनीया इति जन्यत्वपक्षो व्यङ्गयत्वपक्षापेक्षयाऽतिगौरवकदर्थितत्वान युक्तः, व्यङ्गयत्वपक्ष एव ततो लाघवाद् युक्त इत्याह- अनन्तद्वित्वादीति । तद्वयङ्गयत्वपक्षस्यैव द्वित्वादीनामपेक्षाबुद्धिव्यङ्गयत्वपक्षस्यैव । अन्यथा द्वित्वादीनामपेक्षाबुद्धिव्यङ्ग्यत्वमनभ्युपगम्याऽपेक्षाबुद्धिजन्यत्वस्यैवाभ्युपगमे । नानेति- एकदाऽपि नानापुरुषीया या अपेक्षाबुद्धयः, याश्चैकपुरुषीयाः क्रमिका विभिनकालीमा अपेक्षा बुद्धयः, तत्समसजुन्यकास्तुल्यब्यक्तिका ये नाना द्वित्वादयस्तेषां कल्पनेऽपि महागौरवादित्यर्थः, अपिना तत्तत्प्रागभावतत्तध्वंस कल्पने तु सुतरां महागौरवादिति दर्शितं भवति । मम तु प्रभाकरमतानुयायिनः पुनः । तेषां द्वित्वादीनाम् । ननु नित्यत्वे सत्यनेकसमवेतत्वात् तेषां जातित्वं प्रसज्यत इत्याशय प्रतिक्षिपति-न चेति । एवं व्यायत्वपक्षे द्वित्वादीनां नित्यत्वाभ्युपगमे । तेषां द्वित्वादीनाम् । निषेधे हेतुमाह-असमवायित्वे सतीति-समवायानुयोगिभिन्नत्वे सतीत्यर्थः, द्वित्वादौ तु द्वित्वत्वादिकं समवायेन वर्तत इति समवायानुयोग्येव द्वित्वादीति समवायानुयोगिभिन्नत्वस्य तत्राभावान जातित्वापत्तिरित्यर्थः । नन्वसमवायित्वे सति समवेतत्वं विशेषेऽप्यस्तीति तत्राप्युनिमित्तबलाजातित्वव्यवहारापत्तिरित्याशङ्का प्रतिक्षिपति-न चेति । तत्र विशेषे । जन्यत्वपक्षे दोषान्तरमुपदर्शयति-किश्चेति । तन्नाशे द्वित्वनाशे, आश्रयनाशाजन्यत्वस्य कार्यतावच्छेदककोटावनिवेशे यत्रापेक्षाबुद्धिकाले आरम्भकसंयोगनाशानुगणो विभागः ततो द्वित्वोत्पत्तिक्षणे आरम्भकसंयोगनाशः, ततो द्वित्वत्वनिर्विकल्पकोत्पत्तिक्षणे द्वित्वाश्रयद्रव्यस्य नाशः, ततोऽपेक्षायुद्धिनाशक्षणे द्वित्वनाशः, तत्र द्वित्वनाशात् पूर्वमपेक्षाबुद्धिनाशस्याभावाद् व्यभिचारः स्यातू तद्वारणायाश्रयनाशाजन्यत्वस्य कार्यतावच्छेदकतया निवेशः 1 'व्यणुकपरिमाणहेतुपरमाणुद्वित्वस्य' इत्यस्य 'नाशानुपपत्तिः' इत्यनेन सम्बन्धः, ताशद्वित्वनाशस्याश्रयनाशाजन्यत्वेन निरुक्तकार्यतावच्छेदकाक्रान्ततया तादृशद्वित्वकारणीभूताया ईश्वरीयापेक्षाबुद्धेन शासम्भात् तादृशनाशरूपकारणाभावेन तदनुपपत्तिरित्यर्थः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । याहशोपाधिविशिष्टायाः परमाणुद्वित्वोत्पत्त्यवहितपूर्वकालविशेषविशिष्टायाः। तनाशः परमाणुद्वित्वनाशः। तस्या ईश्वरापेक्षाबुद्धेः। सर्वदेति- ईश्वरापेक्षाबुद्धिरूपकारणस्य सर्वदा सत्त्वेन परमाणुद्वित्वरूपकार्यस्य सर्वदोत्पत्तिप्रसनादित्यर्थः । निषेधहेतुमाह-स्वाव्यवहितेति । तस्या ईश्वरापेक्षाबद्धेः। तन्नाशात् परमाणुद्वित्वोत्पत्त्यव्यवहितपूर्वक्षणावच्छिन्नत्वविशिष्टेश्वरापेक्षावुद्धिनाशात् । तस्य परमाणुद्वित्वस्य । अतिरिक्तति- परमाणुद्वित्वोत्पत्त्यव्यवहितपूर्वक्षणव्यतिरिक्तत्यर्थः। विशिष्य कार्यकारणभावो महागौरवग्रस्तत्वात् कल्पयितुं न शक्य इत्याह- अपि चेति । फलमुखगौरवस्यादोषत्वमाशङ्कय परिहरति-न चेति । अस्य विशिष्यकार्यकारणभावकल्पन निबन्धनमहागौरवस्य । यद् गौरवं पूर्व नोप
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy