________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
रिति चेत् ? न- अपेक्षाबुद्धेः संस्काराजनकत्वादपेक्षा बुद्धिभिन्नत्वस्यापि संस्कारजनकतावच्छेदककोटिप्रवेशात् । न चैवमप्यपेक्षाबुद्धिजनितैकत्वादिविशिष्टबुद्ध्याऽपेक्षाबुद्धिनाशप्रसङ्गः, तदुक्तम्-"अपेक्षाबुद्धिः संस्कारं मा कार्षीद् विशिष्टबुद्धिं तु कुर्यादेव” इति वाच्यम् , विशिष्टबुद्धिजननेऽपि द्वित्वसामग्र्यादेरेव फलबलेन प्रतिबन्धकत्वकल्पनात् । वस्तुतोऽपेक्षाबुद्धिनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनान्न दोषः। न च तथापि पूर्वापेक्षाजनितद्वित्वनिर्विकल्पकेन स्वद्वितीयक्षणोत्पन्नेनापेक्षाबुद्धेस्तृतीयक्षणे नाशप्रसङ्गः, प्रतियोगितयापेक्षाबुद्धिनाशे स्वविषयजनकत्वसंबन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन हेतुत्वात् । नन्वेवमपि 'द्वे द्रव्ये' इति लौकिकप्रत्यक्ष कथम् ? तदुत्पत्तिक्षणे द्वित्वनाशादिति चेत् ? मैवम्द्वित्वस्य हि प्रत्यक्षे विषयविधया हेतुत्वं न तु कार्यसहवर्तितयेति दोषाभावात् , नहि सर्वेषां कारणानां कार्यसहवर्तितयैव हेतुत्वं प्रागभाव-पक्षतादेरहेतुत्वप्रसङ्गादिति ॥
प्रभाकरवृद्धानुसारिणस्तु-" सोऽयं नैयायिकाशयो न युक्तः, अनन्तद्वित्वादिध्वंस-प्रागभावादितत एव च स्मृतेः सम्भवादित्याह- अनुभवध्वसनैवेति । अपेक्षायुद्धिभिन्नानुभवत्वेनैव संस्कारं प्रति कारणत्वमित्यतोऽपेक्षाबुद्धचा संस्कारो न जन्यत एवेति न संस्काराद् द्वित्वत्वनिर्विकल्पकक्षणेऽपैक्षाबुद्धिनाशः, किन्तु निर्विकल्पकादेव द्वित्वत्वविशिष्टप्रत्यक्षकालेऽपेक्षाबुद्धिनाश इति न नैयायिकव्यवस्थाऽनुपपन्नेति समाधत्ते-नेति । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवमपि अपेक्षाबुद्धेः संस्काराजनकत्वमभ्युपेत्य संस्कारस्यापेक्षाबुद्धिनाशकत्वाभावोपपादनेऽपि । एकत्वादिविशिष्टयुद्धितोऽपेक्षाबुद्धिनाशप्रसनने संवादमुपदर्शयति-तदुक्तमिति । विशिष्टबुद्धि प्रति द्वित्वसामग्री प्रतिबन्धिकेति द्वित्वोत्पत्तिकाले विशिष्टबुद्धरनुत्पादादेव न ततोऽपेक्षाबुद्धिनाशसम्भव इति निषेधहेतुमुपदर्शयति- विशिष्टबुद्धिजननेऽ. पीति । अपेक्षाबुद्धितः संस्कारोत्पत्तिवारणाय संस्कार प्रत्यपेक्षाबुद्धिभिन्नानुभवत्वेन यत् कारणत्वम्, यच्च विशिष्टबुद्धयुत्पत्तिकारणाय द्विवोत्पादकसामन्या: प्रतिबन्धकत्वम् , तदपेक्षया लाघवादपेक्षाबुद्धिनाशं प्रति द्वित्वलौकिक प्रत्यक्षस्य निर्विकल्पात्मकस्य कारणत्वमेव कलायते, तत एव द्वित्वत्व निर्विकल्पकक्षणे नापेक्षाबुद्धिनाशो द्वित्वोत्पत्तिकालेऽपक्षावुद्धितः संस्कारकत्वविशिष्टबुद्धयोरुत्पादेऽपीत्याह- वस्तुत इति । ननु पूर्वमेकापेक्षाबुद्धिः, तदनन्तरं द्वित्वोत्पतिः, तदानीमेव च द्वितीयाऽपेक्षाबुद्धिः, तदनन्तरं प्रथमापेक्षाबुद्धितो द्वित्वत्वनिर्विकल्पकप्रत्यक्षम् , तदानीमेव च द्वितीयापेक्षाबुद्धितो द्वित्वान्तरोत्पत्तिः, तदनन्तरं प्रथमापेक्षाबुद्धिप्रभवद्वित्वत्वनिर्विकल्पकप्रत्यक्षतो यथा प्रथमापेक्षाबद्धेशिस्तथा द्वितीयापेक्षाबुद्धरपि नाशः स्यात् कारणीभूतस्य द्वित्वत्वनिर्विकल्पकस्य पूर्वक्षणे भावादित्याशङ्कय प्रतिक्षिपति-न चेति । तथापि अपेक्षाबुद्धिविनाशे द्वित्वलौकिकप्रत्यक्षस्य विशिष्य कारणत्वकल्पनेऽपि । स्वद्वितीयक्षणोत्पन्नेन द्वितीयापेक्षाबुद्धिद्वितीयक्षणोत्पन्न । अपेक्षाबुद्धेः द्वितीयापेक्षाबुद्धेः, प्रथमापेक्षाबुद्धस्तदानीं नाशस्त्विष्ट एव । तृतीयक्षणे द्वितीयापेक्षाबुद्ध्यत्पत्ति.. क्षणापेक्ष या तृतीयक्षणे। निषेधे हेतुमाह प्रतियोगितयेति-प्रतियोगिता सम्बन्धेनापेक्षाबुद्धिनाशं प्रति स्वविषयजनकत्वसम्बन्धेन द्वित्वलौकिकप्रत्यक्षत्वेन द्वित्वलौकिक प्रत्यक्षस्य हेतुत्वादित्यर्थः, तथा च द्वितीयापेक्षाबुद्धिनाशः प्रतियोगितासम्बन्धेन द्वितीयापेक्षाबुद्धावुत्पद्यते, तत्र पूर्वापेक्षाबुद्धिजमितद्वित्वनिर्विकल्पकं स्वविषयजनकत्वसम्बन्धेन न वर्तते, यतः स्वं पूर्वापेक्षाबुद्धिजनितद्वित्वनिर्विकल्पकम् , तद्विषयः पूर्वापेक्षाबुद्धिजनितद्वित्वम् , तज्जनकत्वे पूर्वापेक्षाबुद्धावेव वर्तत इति तेन द्वित्वनिर्विकल्पकेन पूर्व पक्षाबुद्धरेव नाशो न तु द्वितीयापेक्षाबुद्धरिति भावः । ननु द्वित्वत्वविशिष्ट प्रत्यक्षकाले चतुर्थक्षणेs. पेक्षाबुद्धिनाशाद् द्वित्वप्रकारकद्रव्यविशेष्यकप्रत्यक्षकालपञ्चमक्षणे द्वित्वनाशात् कथं द्वित्वस्य तत्कालीन प्रत्यक्षमिति शङ्कतेनन्वेवमिति । 'द्वै द्रव्ये' इतिद्वित्वप्रकारकप्रत्यक्षकाले द्वित्वस्याभावेऽपि तत्पूर्वक्षणे सत्त्वतो विषयविधया कारणत्वं सम्भवत्येव, नहि सर्वस्य कारणस्य कार्यसहवर्तितयेव कारणत्वम् , प्रतियोगिनं प्रति प्रागभावस्य कारणत्वम्, न च प्रागभावः प्रतियोग्युत्पत्तिकाले वर्तते, एवं साध्यसन्देहरूपा पक्षताऽनुमिती कारणम् , न च साध्यनिश्चयात्मकानुमित्युत्पत्तिकाले पक्षता वर्तत इति समाधत्ते-मैवमिति । एतावताऽपेक्षाबुद्धिजन्य द्वित्वादिकमिति नैयायिकमतमुपपादितम् ॥
इदानी द्वित्वादिकमपेक्षाबुद्धिव्यङ्गचमेवेति प्रभाकरमतमुपपादयितुमाह-प्रभाकरवृद्धानुसारिणस्त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः। सोऽयं द्वित्वस्यापेक्षाधुद्धिजन्यत्वोपपादकोऽनन्तशेषवर्णितः। द्वित्वस्य व्यङ्गयत्वपक्षे एकमेव द्वित्वं यदा