________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
%3
उदयनाचार्यास्तु-" द्वित्वप्रागभावग.व द्वित्वसामग्री, त्रित्वप्रागभावगर्भा च त्रित्वसामप्रीति तयोविशेषः, इतोऽपि हि प्रागभावसिद्धिः, अन्यथा तयोविशेषो न स्यात् , पर्याप्तिसंबन्धेन द्वित्वादिकं प्रति पर्याप्तिसंबन्धेन तत्प्रागभाव एव नियामकः, अत एवैकस्मिन् न पर्याप्तिसम्बन्धेन द्वित्वादि. प्रत्ययः, तत्प्रागभावस्यैकस्मिन् पर्याप्त्यभावेन तस्यापि तदभावाद्" इत्याहुः । अथापेक्षाबुद्धिजन्यत्वे द्वित्वस्य 'द्वे द्रव्ये' इति लौकिकप्रत्यक्षानुपपत्तिः, 'अपेक्षाबुद्धिः, अथ द्वित्वम्, अथ द्वित्वत्वनिर्विकल्पकम् , ततो द्वित्वत्वविशिष्ट प्रत्यक्षम् , तदैव च द्वित्वनिर्विकल्पकेन स्वोत्तरवृत्तिविशेषगुणविधया जनितोऽपेक्षाबुद्धिविनाशः, ततश्च द्वे द्रव्ये' इति लौकिकप्रत्यक्षम्, तदैव चापेक्षाबुद्धिविनाशाद् 'द्वित्वविनाशः' इति हि त्वदभिमता व्यवस्था, साऽत्रानुपपन्ना, अपेक्षाबुद्धेः स्वजन्यसंस्कारेण द्वित्वनिर्विकल्पकोत्पत्तिक्षण एव नाशात् , योग्य विभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन हेतुत्वात्,सुषुप्तिप्राकालवर्तिज्ञाननाशकतयैव तत्सिद्धेः,अन्यथाऽनुभवध्वंसेनैव संस्कारान्यथासिद्धे.
नैयायिकधुरन्धराणामुदयनाचार्याणां मतमुपदर्शयति- उदयनाचार्यास्विति-- अस्य 'आहुः' इत्यनेनान्वयः । तयोविशेषः द्वित्व-त्रित्वसामग्योर्भेदः । इतोऽपि द्वित्व-त्रित्वसामग्रीभेदतोऽपि । अन्यथा प्रागभावानभ्युपगमे । तयोः द्वित्व-त्रित्वसामग्र्योः । पर्याप्तिसम्बन्धेन द्वित्वमुभयस्मिन्नेव, न स्वेकस्मिन् , एवं पर्याप्तिसम्बन्धेन त्रित्वं त्रिष्वेव, न त्वेकस्मिन् द्वयोःत्यत्रापि प्रागभाव एव नियामक इत्याह- पर्याप्तिसम्बन्धेनेति। तत्प्रागभाव एष द्वित्वादिप्रागभाव एव । अत एव पर्याप्तिसम्बन्धेन द्वित्वादिप्राग भावस्य नियामकत्वादेव । तत्प्रागभावस्य द्वित्वादिप्रागभावस्य । तस्यापि सदभावात द्वित्वादेरप्येकस्मिन् पर्याप्त्यभावात् । शङ्कते-अथेति । कीदृशी अपेक्षाधुद्धितो द्वित्वोत्पत्त्यभ्युपगमे नैयायिक प्रक्रिया ? यस्यां द्वित्वस्य लौकिक प्रत्यक्षानुपपत्तिरित्याकाङ्खायामाह- अपेक्षाबुद्धिरिति-प्रथमक्षणे अपेक्षाबुद्धिरुत्पद्यते, ततो द्वितीयक्षणे द्वित्वमुत्पद्यते, ततस्तृतीयक्षणे द्वित्वत्वनिर्विकल्पकम् , ततश्चतुर्थक्षणे द्वित्वत्वविशिष्टप्रत्यक्षम् , तदानीमेव च च 'स्वोत्तरवर्तिविशेषगुणस्य योग्यविभुविशेषगुणनाशकत्वम्' इति नियमतोऽपेक्षाबुद्धयत्तरवर्तिविशेषगुणेन द्वित्वत्वनिर्विकरूपकेनापेक्षाबद्धिविनाशः, ततः पञ्चमक्षणे 'द्वे द्रव्ये' इत्याकारकं द्वित्वप्रकारकद्रव्यविशेष्यकप्रत्यक्षम्, तदानीमेव चापक्षाबुद्धिनाशाद् द्वित्वनाश इति नैयायिकाभिमता व्यवस्थेत्यर्थः । साऽत्राऽनुपपन्ना सा व्यवस्था क्रियमाणे विचारे नोपपद्यते। प्रथमक्षणेऽपेक्षाबुद्धिः, ततो द्वितीयक्षण द्वित्वोत्पत्तिः, तदानीमेव चापेक्षाबुद्धितः स्वविषयैकत्वविषयकः संस्कारः, तेन चापेक्षाबुद्धिजनितन संस्कारेणापेक्षाबुद्धधुत्तरवर्तिना द्वित्वत्वनिर्विकल्पकक्षण एवापेक्षाबुद्धे शः, ततश्च यदा द्वित्वत्वविशिष्टप्रत्यक्षमभिमतं तदानीपेक्षाबुद्धिनाशाद् द्वित्वनाशे कथं द्वित्वप्रत्यक्षमित्युक्तव्यवस्थानुपपत्तौ हेतुमुपदर्शयति- अपेक्षाबुद्धिरिति- अस्य 'नाशाद्' इत्यनेनान्वयः । ननु योग्यविभुविशेषगुणनाशं प्रति स्वोत्तर वृत्तियोग्यजातीयविभुविशेषगुणत्वेन कारणत्वम् , संस्कारश्च स्वोत्तरवर्त्यपि न योग्यजातीय इति न ततोऽपेक्षाबुद्धिनाशः, निर्विकल्प के तु प्रकारता-विशेष्यता-संसर्गतामिना तुरीयविषयतोपेयते, तावतैव सविकल्पकज्ञानाद् भेदे सिद्धे न तत्र निर्विकल्पकत्वं जाति:, किन्तु ज्ञानत्वमेव, तच्च योग्यमिति स्वोत्तरवर्तियोग्यजातीयविशेषगुणेन निर्विकल्पकेनापेक्षाबुद्धिनाशः सम्भवतीत्यत आह-योग्यविभुविशेषगुणनाशं प्रतीति-'स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन' इति स्थाने 'स्वोत्तर वर्तियोग्यायोग्यजातीयसाधारणविभुविशेष. गुणत्वेन' इति पाठो युक्तः, तथा च कारणकोटौ योग्यजातीयत्वमयोग्यजातीयत्वं वा न निवेश्यते, किन्तु योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तिविभुविशेषगुणत्वेन हेतुत्वात् स्वजन्यसंस्कारेणापेक्षाबुद्धे शसम्भवान्नैयायिकव्यवस्थाऽनुपपन्नेत्यर्थः । अत एव सुषुप्तिप्राक्कालवर्तिनो ज्ञानस्य स्वजन्यसंस्कारेण नाश इति सुषुप्तिप्राक्कालवर्तिज्ञाननाशकतया संस्कारसिद्धिरित्याह- सुषुप्तीति । तत्सिद्धेः संस्कारसिद्धेः । अन्यथा उक्तदिशा कार्य-कारणभावानभ्युपगमे सुषुप्तिप्राक्कालवर्तिज्ञान नाशकतया संस्कारसिद्धयभावे । स्मरणं प्रति यदनुभवस्य करणत्वं तझ्यापारतया संस्कारः कल्प्यते, परं संस्कारस्य तथाऽकल्पनेऽप्यनुभवध्वंस एवानुभवव्यापारः,