________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ३५ जन्यतावच्छेदकम् , कारण-कार्यैकार्थप्रत्यासत्तिभेदात्, इति तस्यैव द्वित्वादिपरा पर्यन्तसंख्यावृत्तिजातिविशेषितस्य तथात्वम् । व्यङ्गयत्वनये चैकत्वान्यसंख्याप्रत्यक्षत्वम् , उक्तजातिविशेषप्रत्यक्षत्वं वाऽपेक्षाबुद्धेर्जन्यतावच्छेदकं वाच्यम् , द्वयोरप्यनयोर्मतयोः ‘एको धान्यराशिः' इत्यादिप्रत्ययसिद्धे सामूहिकैकत्वे व्यभिचारः । न च तत्रैकत्वं गौणमेव, वस्तुतस्त्वपेक्षाबुद्ध्या राशि-सेना-वनादौ बहुत्वविशेष एवोत्पाद्यते व्यज्यते वेति वाच्यम् , स्वारसिकैकत्वानुभावविरोधात् , ' एते बहवः कणाः, एते बहवः करि-तुरग-रथ-पदातयः, एते बहवः आम्र-निम्ब-धव-खदिराः' इत्यादौ राशित्व-सेनास्य-वनत्वाद्यनापत्तेश्च, अपेक्षाबुद्ध्या तत्र राशित्वादिरूपस्यैव बहुत्वस्योत्पत्तिरभिव्यक्तिर्वेति त्वयोपगमात् । न च बहुपदशक्यतावच्छेदकं बहुवचनप्रवृत्ति निमित्तं वा बहुत्वत्वमेकत्वद्वित्वान्यसंख्यात्वम्, त्रित्वमारभ्य पराद्धपर्यन्ते वृत्तिर्जातिविशेषो वा, राशित्वादिरूपबहुत्वे चापेक्षाबुद्धिविशेषजन्यतावच्छेदकस्तव्याप्य. एव जाति विशेषो बहुत्वत्वम् , तदवच्छिन्नोपस्थितिश्चैकवचनान्तराश्यादिपदादेवेति शाब्दबोधस्थले नानु. पपत्तिः, प्रत्यक्षे च बहवः' इत्यादौ कचित् दोषवशात् तदग्रहान्नानुपपत्तिरिति वाच्यम् , अनुभूयमानतस्यैवेति । 'जातिविशेषितस्य' इति स्थाने 'जातिविशेषस्य' इति पाठो युक्तः। तथात्वम् एकत्वजन्यतावच्छेदकत्वम् । व्यङ्ग्यत्वनये च द्वित्वादिकमपेक्षाबुद्धिव्यङ्ग-यमिति प्रभाकरमते तु । 'एकत्वान्यसङ्ख्याप्रत्यक्षत्वम्' इत्यत्र 'एकत्वान्य' इति विशेषणोपादानादेकरवप्रत्यक्षस्यापेक्षाबुद्धयजन्यत्वेऽपि न क्षतिः। उक्तजातिविशेषप्रत्यक्षत्वमितिद्वित्वमारभ्य पराई पर्यन्तं यैका जातिस्तद्विशिष्टप्रत्यक्षत्वमित्यर्थः । धान्यसमूहगतकत्वं यद् उत्पद्यते तत्रोक्तसङ्ख यावृत्तिजातिविशेषो न वर्तते, नवा तत्प्रयक्षं तादृशजातिविशिष्ट प्रत्यक्षं भवति, अथापि तदेकत्वमेकत्वेन जन्यते, अपेक्षाबुद्धया तु नैकरवं नवा तत्प्रत्यक्षमिति तत्रोक्तकार्यकारणभावो नास्ति, नवा तदुपपादको मतद्वयेऽपि कश्चित् कार्यकारणभावोऽस्ति, यच्च समवायेनैकत्वं प्रति स्वसमवायिसमवेतत्वसम्बन्धेनैकत्वं कारणम् , तथा कारणस्यकत्वस्याभावेऽपि तदेकत्वं तदेकत्वप्रत्यक्ष चोपजायत इति व्यभिचारो मतद्वयेऽपि दुरुद्धर इत्यतो व्यङ्गयत्व-जन्यत्वपक्षौ न समीचीनावित्याह-द्वयोरपीति । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः। तत्र धान्यसमूहे, उत्पाद्यत इति न्यायमते, व्यज्यत इति प्रभाकरमते 'एको धान्यराशिः' इत्येवमेकत्वमेव स्वरसतोऽनुभूयते, न च स्वरसतोऽनुभूयमानस्य गौणत्वं युक्तम् , नवा तत्राप्रतीयमानस्य बहुत्वविशेषस्य कल्पनं युक्तमिति निषेधे हेतुमुपदर्शयति- स्वारसिकैकत्येति । अपि च 'एते बहवः कणा राशिः' इति, 'एते बहवः करि-तुरग-रथ-पदातयः सेना' इति, 'एते बहव आम्र-निम्ब-धव-खदिरादयो वनम्' इति च प्रत उक्तमतद्वये तु राशित्वं सेनात्वं वनत्वं च बहुत्वविशेषरूपमपेक्षाबुद्ध्योत्पद्यतेऽभिव्यज्यते वेत्युपेयते, तथा च बहवः' इत्यनेनैव बहुत्वस्यावभासमानत्वादाशित्वादिकं तदनधिकं तत एवं लब्धमिति तथाप्रतीतिन स्यादित्याह-एत इति । त्वया नैयायिकेन प्रभाकरेण वा । ननु बहुपदशक्यतावच्छेदके यद् बहुत्वत्वं तद्वयाप्यजातिविशेष एव राशित्वादि. रूपबहत्वे इति सामान्यरूपेण बहुत्वत्वेन विशिष्टस्याश्रये तद्वयाप्यवहत्वत्वविशेषविशिष्टस्यावच्छिन्नान्वयसम्भवाद् एते बहवः कथा राशिः, एते बहवः करि-तुरग-रथ-पदातयः सेना, एते बहव आम्र-निम्ब-धव-खदिरा वनम्' इत्यादौ शाब्दबोधस्य नानुपपत्तिः, उक्तबहुत्वद्वयस्य सत्वेऽपि प्रत्यक्षे यदेकमेव बहुत्वत्वमनुभूयते तत्र सौसादृश्यलक्षणदोषविशेष एव बहत्वत्वान्तरमहप्रतिबन्धक इति तदप्रतिभासनमप्युपपद्यत इत्याशङ्कय प्रतिक्षिपति- न चेति- अस्य 'बाच्यम्' इत्यनेनान्वयः । 'राशित्वादि' इत्यादिपदात् सेनात्व-वनस्वादेरुपग्रहः । तद्वयाप्य एव त्रित्वादिपरार्द्धपर्यन्तसङ्ख्यावृत्तिजातिविशेषव्याप्य एव । तदवच्छिन्नोपस्थितिश्च त्रित्वादिपरा पर्यन्तसङ्घयावृत्तिजातिविशेषव्याप्यजातिविशेषावच्छिन्नोपस्थितिच, तथा च यत्र 'एते बहवः कणाः' इत्याद्येव प्रयुज्यते न तु राश्यादिपदमपि तत्र प्रयुज्यते तत्रोक्तजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्य प्रतीतिर्न भवति, यत्र तु 'एते बह्वः कणा राशिः' इत्यादि प्रयुज्यते तत्रोक्तजातिविशेषव्याप्यजातिविशेषावच्छिन्नस्यापि शाब्दबोधो भवति । शब्दाऽनियन्त्रितविषये प्रत्यक्षे च कथमुकजातिद्वयावच्छिन्नस्य क्वचिदनवभासनमित्यपेक्षायामाह-प्रत्यक्षे चेति । तदग्रहात् उक्तजातिविशेषव्याप्यजातिविशेषाऽमहात् । निषेधे हेतुमाह- अनुभय