Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 59
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । प्रागेवोपस्थितौ तद्दोषताया बाहुलेयत्वात्, तददोषत्वे प्रागनुपस्थितेरेव बीजत्वात् । अपि च मानसत्वादिव्याप्यजातिविशेषेणापेक्षा बुद्धेर्द्वित्वादिहेतुत्वे ईश्वरापेक्षा बुद्ध्या परमाणुद्वित्वाद्यजननापत्तिः, ईश्वरज्ञानसाधारणद्वित्वादिजनकतावच्छेदकजातिस्वीकारे च जन्य साक्षात्कारत्वादिना सांकर्यम्, त्रित्वाद्युत्पत्तिकाले द्वित्वाद्युत्पत्त्यात्तिश्च दुर्निवारा । एतेन द्वित्वादिजनकतावच्छेदकतयाऽपेक्षा बुद्धिनिष्ठलौकिकविषयत्वस्वीकारोऽपि निरस्तः परार्द्धादिसंख्यानुत्पत्तिप्रसक्तेश्च तदाश्रययावद्द्रव्यवृत्तिलौकिक विषयताया असम्भवात् । ईश्वरीयापेक्षा बुद्ध्यैव तदुत्पत्त्यङ्गीकारे चान्यत्रापि कारणान्तरोच्छेद इति न किश्चिद् एतद् इत्याहुः । 39 ३३ केचित्तु - " द्वित्व-त्रित्वादिकं तुल्यव्यक्तिवृत्तिकमेव सामान्यम्, अनित्यस्य संयोगादेखि नित्यस्यापि द्वित्वादेर्व्यासज्यवृत्तित्वे विरोधाभावात् । भिन्नेन्द्रियग्राह्याणां रूप रसादीनामिव सामान्येन्द्रियप्राह्माणामपि सत्यप्येकावच्छेदेन समानदेशत्वे प्रतिनियतव्यञ्जकव्यङ्ग्यत्वे विरोधाभावात्, सहचारदर्शन स्थितं तस्य फलमुखस्यादोषत्वेऽपि यच्च गौरवं पूर्वमेवोपस्थितं सत् कल्पनाप्रतिप्रन्थि तस्य फलमुखस्यापि दोषत्वमेवेति निषेधहेतुमुपदर्शयति- अस्यामिति । तद्दोषतायाः फलमुखगौरवदोषतायाः । तददोषत्वे फलमुखगौरवस्यादोषत्वे । यच, द्वित्वादिजनकतावच्छेदिका मानसत्वव्याप्या या जातयः, तद्रूपेण चांपेक्षा बुद्धेर्द्वित्वादिकं प्रति कारणत्वम्, तदपि न समीचीनमित्याह- अपि चेति । मानसत्वव्याप्यजातिविशेषो मनोरूपैन्द्रियजन्यप्रत्यक्ष एव स्यात्, ईश्वरपेक्षा बुद्धिस्तु नित्यत्वान्न मनोरूपेन्द्रियजन्येति न तत्र मानसत्वव्याप्यजातिरिति कारणतावच्छेदकधर्माऽनाक्रान्तत्वादन्यस्या अपेक्षाबुद्धेः परमाणुगतैकत्वविषयाया अभावात् परमाणुद्वित्वाद्युत्पत्तिर्न स्यात् यदि चेश्वरज्ञान- तदन्यापेक्षबुद्धिगतमेकं सामान्यमुररीकृत्य तस्यैव द्वित्वादिजनकतावच्छेदकत्वं स्वीक्रियते तदा जन्यसाक्षात्कारत्वादिना तस्य सामान्यस्य साङ्कर्यं दुष्परिहरमेव, जन्यसाक्षात्कारत्वाभाववतीश्वरज्ञाने तस्य सामान्यस्य तदभाववत्यपेक्षा बुद्धयनात्मके जन्यसाक्षात्कारे जन्यसाक्षात्कारत्वस्य तदुभयोश्च जन्यसाक्षात्कारात्मकापेक्षा बुद्धौ समावेशात् एवमुक्तसामान्येनापेक्षा बुद्धिर्द्वित्वादिकं त्रित्वादिकं च प्रति कारणमिलेकेन केनचिदपक्षात्मक ज्ञानेन यदा त्रित्वादिकमुत्पद्यते तदा द्वित्वादिकमप्युत्पद्येत, तद्रूपकारणस्य सर्वान् प्रत्यविशिष्टत्वाद् विशिष्य कारणान्तरस्यानिरूक्तेरित्याह- ईश्वरापेक्षा बुद्धयेति । 'एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः, एतेन - त्रित्वाद्युत्पत्तिकाले द्वित्वाद्युत्पत्तिप्रसङ्गेन । निरासे हेत्वन्तरमाह-परार्द्धादीति । तदाश्रयेति- परार्द्धसङ्ख्याश्रयेत्यर्थः, परार्द्धसङ्ख्याश्रयाणां यावतां द्रव्याणां लौकिकप्रत्यक्षस्यास्मदादीनामसम्भवेन तद्वृत्तिलौकिकप्रत्यक्षविषयताया असम्भवादित्यर्थः । ईश्वरीयेति ईश्वरस्य सर्वविषयको लौकिक एव साक्षात्कारः, तदात्मकापेक्षा बुद्धिनिरूपितलौकिक विषयतायाः परार्द्धादिसङ्ख्याश्रययावद्द्रव्यवृत्तित्वेन तथाभूतलौकिक विषयताश्रयेश्वरीयापेक्षाबुद्धयैव परार्द्धादिसङ्खयोत्पत्तिस्वीकारे त्वन्यत्रापीश्वरीयापेक्षा बुद्धिरेव कारणमित्यस्मदाद्यपेक्षा बुद्धेर्द्वित्वादिकारणत्वमुच्छियेत, अतो द्वित्वादिजनकतावच्छेदकतयाऽपेक्षा बुद्धिनिष्टलौकिक विषयत्वस्वीकारोऽपि न समीचीन इत्येवं प्रभाकरानुसारिण आहुरित्यर्थः ॥ अन्येषां मतमुपदर्शयति- केचित् त्विति - अस्य 'आहुः' इत्यनेन सम्बन्धः । समानव्यक्तिवृत्तिकं द्वित्वमेकमेव, एवं त्रित्वादिकमपि तच सामान्यमेवेत्यर्थः । ननु द्वित्वादिकं व्यासज्यवृत्ति, सामान्यं च व्यासज्यवृत्ति न भवतीति कथं द्वित्वादेः सामान्यरूपत्वमत आह- अनित्यस्येति । यदा च द्वित्व-त्रित्वादिकं तुत्यव्यक्तिवृत्तिकं सामान्यरूपं तदा तेषां समानेन्द्रियप्रायाणां कथं नैकव्यञ्जकव्यञ्जयत्वम् ? कुतः प्रतिनियतव्यञ्जकव्यङ्गयत्वमित्पेक्षायामाह - भिन्नेन्द्रियग्राह्याणामिति । 'सामान्येन्द्रियग्राह्याणामपि' इति स्थाने 'समानेन्द्रियग्राह्याणाम्' इति पाठो युक्तः । ननु समानेन्द्रियप्राह्माणां घटपटादीनां प्रतिनियतव्यञ्जकत्र्याचत्वं न किन्त्वैकल्यणकव्ययत्वमेवेति कथं प्रकृते प्रतिनियतव्यञ्जकव्यमयत्यमित्यत आह- सहचारेति केषाञ्चित् समानेन्द्रियप्राह्माणामेकव्यञ्जकव्यजयत्वदर्शनेन यत्र समानेन्द्रियग्राह्यत्वं तत्रैकव्यञ्जक ५ -

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210