Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 40
________________ १४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । प्रत्यक्षत्वस्य तादृशज्ञानत्वस्य वा कार्यतावच्छेदकताया न्यायसिद्धत्वात् , अत एव- " जे एगं जाणा से सव्वं जाणइ " [ आचाराङ्ग-श्रु० १, अ० ३, उ० ४, सू० १२२ ] इति पारमर्षवचनानुरोधोऽपि, एकवस्तुग्रहे तद्गतस्व-परपर्यायकुक्षिप्रवेशेन सर्वेषामेव ग्रहात् , अनुवृत्ति-व्यावृत्तिसंबन्धपर्यालोचने तावत्प्रमाणस्यैव वस्तुनोऽनुभवात् । तदाह महावादी सम्मतीएगदविअम्मि जे अत्थपज्जया वयणपजवा वा वि। तीयाऽणागयभूआ, तावइयं तं हवइ दव्वं"। --[सम्मतितर्क-का० १, गाथा-३३ ] इति । नन्वेवं सर्वस्य सार्वज्यापत्तिरिति चेत् ? न- द्रव्यार्थिकतयेष्टत्वात्, उक्तभगवद्वचनरुच्यनुवेधेन सम्यक् संपत्त्या चानतिप्रसङ्गात् । यद्यप्येवं तथापि स्पष्टबोधः सत्त्वाऽसत्वादिप्रतिनियतधर्मप्रकारको बोधः सदसदाद्याकारको वा बोधः, सापेक्षः शाब्दस्थले नयापेक्षया जनितः, प्रत्यक्षस्थले चावध्यवच्छेदकादिज्ञानापेक्षः स्यात् । किंवद् ? दीर्घतादिवत् आदीयतेऽनेनेत्यादि ज्ञानम् , दीर्घताप्रत्यक्षवदित्यर्थः, यथा हि दण्डादिज्ञानकाले तत्परिमाणपहेऽपि 'अयमस्माद् दीर्घः' इति दीर्घत्वप्रकारकं ज्ञानं नियतावध्यपेक्षथैव, तथा सदसदात्मक. वस्तुग्रहेऽपि सत्त्वादिप्रकारकं ज्ञानं स्वद्रव्यापेक्षयैवेत्यर्थः, 'अयमेतदपेक्षया दीर्घः' इतिवद् 'अयं स्वद्रव्याद्यपेक्षया सन् , परद्रव्याचपेक्षया चासन् ' इत्येव व्यवहारात् । नन्वेवं व्यवहार एव सापेक्षो स्ववृत्तिधर्मेषु वर्तत इति तेन सम्बन्धेन तस्य व्यापिका विषयता यावद्घटधर्मावगाहिप्रत्यक्षस्यैवेति निरुक्तकार्यकारणभावाद घटवृत्तियावद्धर्मावगाहि प्रत्यक्षं सिध्यतीति । अत एव तद्विषयकोर्ध्वतासामान्योपयोगलक्षणसामान्यलक्षणप्रत्यासत्तिबलात् तद्तसकलधर्मज्ञानसम्भवादेव । जे० इति-“य एकं जानाति स सर्व जानाति" इति संस्कृतम् । तावत्प्रमाणस्यैव अनुवृत्त-व्यावृतसकलधर्मात्मकस्यैव ।। उक्तार्थे श्रीसिद्धसेनदिवाकरसूरिवचनसंवादमाह--तदाहेति । एग० इति-"एकद्रव्ये ये अर्थ पीया वचनपर्याया वाऽपि : अतीतानागतभूतास्तावत् तद् भवति द्रव्यम्"॥ इति संस्कृतम्। नन्वेकपदार्थज्ञस्योक्तदिशा सर्वपदार्थज्ञत्वाभ्युपगमे सर्वस्य सर्वज्ञत्वं स्यादिति शङ्कते-नन्धमिति । द्रव्यार्थाऽऽदेशात् सर्वस्य सर्वज्ञत्वमिष्टमेवेति समाधत्ते-नेति । उक्तभगवद्वचनेति- “जे एग जाणइ से सव्वं जाण" इति भगवद्वचनश्रद्धासम्बन्धेनेत्यर्थः, यस्य चोक्तवचनश्रद्धा नास्ति स मिध्यादृष्टिवस्तु एकमपि न जानात्येव, तस्य ज्ञानमज्ञानमेवेति न तस्व सर्वज्ञत्वप्रसक्तिरपीति। एतावता पूर्वार्द्ध व्याख्यातम् । अथोत्सरार्द्ध विवृणोति-यद्यप्येवमिति । 'सापेक्षः' इति किं सर्वत्रैकापक्ष एव? उतास्ति तत्र विशेषः? इत्यपेक्षायामाह-शाब्दस्थल इति। 'दीर्घतादिषद्' इत्यस्य विवरणम्-- ' दीर्घताप्रत्यक्षवद्' इति, तद् यथा सम्पद्यते तथोपदर्शयितुम् ' आदि ' इत्यस्य ज्ञानरूपमर्थ निरूक्तिलभ्यमावेदयति-आदीयत इति । दृष्टान्त-दार्टान्तिकयोः सापेक्षत्वमुपपादयति-यथा हीति । तत्परिमाणग्रहेऽपि दण्डादि परिमाणग्रहऽपि । 'स्वद्रव्यापेक्षयैव' इत्यत्र 'स्वद्रव्याद्यपेक्षयैव' इति पाठो युक्तः, आदिपदात् स्वक्षेत्रादीनां पर द्रव्यादीनां चोपग्रहः, अनादिपदात् परद्रव्यादीनां ग्रहणादेव 'सत्त्वादि'इत्यादिपदग्राह्यासत्त्वस्य यज्ज्ञानं तस्य सापेक्षत्वस्याप्युपपादनसम्भवेन न्यूनोक्तब्युदासः । यथा यस्य वानं तथैव तस्य व्यवहार इति स्वद्रव्याचपेक्षया सत्त्वादिप्रकारकज्ञानाभावे स्वद्रव्याद्यपेक्षया सत्त्वादिव्यवहारो न स्यादिति तादृशव्यवहारान्यथानुपपत्त्यया तथा ज्ञानमावश्यकमिति दृष्टान्तावष्टम्भेन द्रढयति-अयमेतदक्षयति । ननु सापेक्षतया दीर्घत्वादिय॑हियत इत्येतावता दीर्घत्वादिव्यवहारस्य सापेक्षत्वमस्तु दीर्घस्वादिज्ञानस्य कुतः सापेक्षत्वमिति शङ्कते-नन्वेवमिति । म्यवहारो व्यवहर्तव्यज्ञानं व्यवहारेच्छां चापेक्षते, म तु तदतिरिक्तस्य कस्यचिद् व्यवहारेऽपेक्षेति व्यवहारकारणीभूतस्य

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210