________________
१४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
प्रत्यक्षत्वस्य तादृशज्ञानत्वस्य वा कार्यतावच्छेदकताया न्यायसिद्धत्वात् , अत एव- " जे एगं जाणा से सव्वं जाणइ " [ आचाराङ्ग-श्रु० १, अ० ३, उ० ४, सू० १२२ ] इति पारमर्षवचनानुरोधोऽपि, एकवस्तुग्रहे तद्गतस्व-परपर्यायकुक्षिप्रवेशेन सर्वेषामेव ग्रहात् , अनुवृत्ति-व्यावृत्तिसंबन्धपर्यालोचने तावत्प्रमाणस्यैव वस्तुनोऽनुभवात् । तदाह महावादी सम्मतीएगदविअम्मि जे अत्थपज्जया वयणपजवा वा वि। तीयाऽणागयभूआ, तावइयं तं हवइ दव्वं"।
--[सम्मतितर्क-का० १, गाथा-३३ ] इति । नन्वेवं सर्वस्य सार्वज्यापत्तिरिति चेत् ? न- द्रव्यार्थिकतयेष्टत्वात्, उक्तभगवद्वचनरुच्यनुवेधेन सम्यक् संपत्त्या चानतिप्रसङ्गात् ।
यद्यप्येवं तथापि स्पष्टबोधः सत्त्वाऽसत्वादिप्रतिनियतधर्मप्रकारको बोधः सदसदाद्याकारको वा बोधः, सापेक्षः शाब्दस्थले नयापेक्षया जनितः, प्रत्यक्षस्थले चावध्यवच्छेदकादिज्ञानापेक्षः स्यात् । किंवद् ? दीर्घतादिवत् आदीयतेऽनेनेत्यादि ज्ञानम् , दीर्घताप्रत्यक्षवदित्यर्थः, यथा हि दण्डादिज्ञानकाले तत्परिमाणपहेऽपि 'अयमस्माद् दीर्घः' इति दीर्घत्वप्रकारकं ज्ञानं नियतावध्यपेक्षथैव, तथा सदसदात्मक. वस्तुग्रहेऽपि सत्त्वादिप्रकारकं ज्ञानं स्वद्रव्यापेक्षयैवेत्यर्थः, 'अयमेतदपेक्षया दीर्घः' इतिवद् 'अयं स्वद्रव्याद्यपेक्षया सन् , परद्रव्याचपेक्षया चासन् ' इत्येव व्यवहारात् । नन्वेवं व्यवहार एव सापेक्षो
स्ववृत्तिधर्मेषु वर्तत इति तेन सम्बन्धेन तस्य व्यापिका विषयता यावद्घटधर्मावगाहिप्रत्यक्षस्यैवेति निरुक्तकार्यकारणभावाद घटवृत्तियावद्धर्मावगाहि प्रत्यक्षं सिध्यतीति । अत एव तद्विषयकोर्ध्वतासामान्योपयोगलक्षणसामान्यलक्षणप्रत्यासत्तिबलात् तद्तसकलधर्मज्ञानसम्भवादेव । जे० इति-“य एकं जानाति स सर्व जानाति" इति संस्कृतम् । तावत्प्रमाणस्यैव अनुवृत्त-व्यावृतसकलधर्मात्मकस्यैव ।।
उक्तार्थे श्रीसिद्धसेनदिवाकरसूरिवचनसंवादमाह--तदाहेति । एग० इति-"एकद्रव्ये ये अर्थ पीया वचनपर्याया वाऽपि : अतीतानागतभूतास्तावत् तद् भवति द्रव्यम्"॥ इति संस्कृतम्। नन्वेकपदार्थज्ञस्योक्तदिशा सर्वपदार्थज्ञत्वाभ्युपगमे सर्वस्य सर्वज्ञत्वं स्यादिति शङ्कते-नन्धमिति । द्रव्यार्थाऽऽदेशात् सर्वस्य सर्वज्ञत्वमिष्टमेवेति समाधत्ते-नेति । उक्तभगवद्वचनेति- “जे एग जाणइ से सव्वं जाण" इति भगवद्वचनश्रद्धासम्बन्धेनेत्यर्थः, यस्य चोक्तवचनश्रद्धा नास्ति स मिध्यादृष्टिवस्तु एकमपि न जानात्येव, तस्य ज्ञानमज्ञानमेवेति न तस्व सर्वज्ञत्वप्रसक्तिरपीति। एतावता पूर्वार्द्ध व्याख्यातम् ।
अथोत्सरार्द्ध विवृणोति-यद्यप्येवमिति । 'सापेक्षः' इति किं सर्वत्रैकापक्ष एव? उतास्ति तत्र विशेषः? इत्यपेक्षायामाह-शाब्दस्थल इति। 'दीर्घतादिषद्' इत्यस्य विवरणम्-- ' दीर्घताप्रत्यक्षवद्' इति, तद् यथा सम्पद्यते तथोपदर्शयितुम् ' आदि ' इत्यस्य ज्ञानरूपमर्थ निरूक्तिलभ्यमावेदयति-आदीयत इति । दृष्टान्त-दार्टान्तिकयोः सापेक्षत्वमुपपादयति-यथा हीति । तत्परिमाणग्रहेऽपि दण्डादि परिमाणग्रहऽपि । 'स्वद्रव्यापेक्षयैव' इत्यत्र 'स्वद्रव्याद्यपेक्षयैव' इति पाठो युक्तः, आदिपदात् स्वक्षेत्रादीनां पर द्रव्यादीनां चोपग्रहः, अनादिपदात् परद्रव्यादीनां ग्रहणादेव 'सत्त्वादि'इत्यादिपदग्राह्यासत्त्वस्य यज्ज्ञानं तस्य सापेक्षत्वस्याप्युपपादनसम्भवेन न्यूनोक्तब्युदासः । यथा यस्य वानं तथैव तस्य व्यवहार इति स्वद्रव्याचपेक्षया सत्त्वादिप्रकारकज्ञानाभावे स्वद्रव्याद्यपेक्षया सत्त्वादिव्यवहारो न स्यादिति तादृशव्यवहारान्यथानुपपत्त्यया तथा ज्ञानमावश्यकमिति दृष्टान्तावष्टम्भेन द्रढयति-अयमेतदक्षयति । ननु सापेक्षतया दीर्घत्वादिय॑हियत इत्येतावता दीर्घत्वादिव्यवहारस्य सापेक्षत्वमस्तु दीर्घस्वादिज्ञानस्य कुतः सापेक्षत्वमिति शङ्कते-नन्वेवमिति । म्यवहारो व्यवहर्तव्यज्ञानं व्यवहारेच्छां चापेक्षते, म तु तदतिरिक्तस्य कस्यचिद् व्यवहारेऽपेक्षेति व्यवहारकारणीभूतस्य