________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
न तु बोध इति चेत् ? न- व्यवहर्तव्यज्ञाने सति सत्यां चेच्छायां व्यवहारे आधिक्यताऽनपेक्षणात् , अन्यथाऽभावज्ञानेऽपि प्रतियोग्यपेक्षा न स्यात् , तव्यवहार एव सप्रतियोगिकत्वस्थितेः । अथ 'दी? दण्डः' इति ज्ञानं चक्षुःसन्निकर्षमात्राज्जायत एव, 'अमुकापेक्षया दीर्घः' इति दीर्घत्वत्वावान्तरजात्यवगाहिज्ञान एव चावधिज्ञानापेक्षेति चेत् ? न- इस्वत्वेन ज्ञाने दीर्घत्वेन ज्ञानस्यैवापेक्षां विनाऽनुपपत्तिः, तद्वदिहापि परद्रव्यादिनाऽसत्त्वेन ज्ञाने स्वद्रव्याद्यपेक्षयैव सत्त्वज्ञानमिति प्रतिपत्तव्यम् । अवच्छेदकानवगाहिनस्तु अनवधारणरूपत्वादेवानुपयोगः । द्विहस्तादिमात्रेऽनावृतैकहस्तावच्छेदेन महत्त्व. ग्रहस्तु देशापेश्यैवेति न तस्य निरपेक्षत्वम् , अत एवाऽऽवरणापगमे स्कन्धापेक्षया परिमाणे द्विहस्तत्वग्रहेऽपि तावदवच्छेदेन हस्तत्वग्रहस्य नाप्रामाण्यम् , देश-स्कन्धभेदेनोमयोपपत्तेः ।
एतेन, भूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावान्नाईनिखातवंशादेर्द्विहस्तादिपरिमाणग्रह इति प्राच्यनैयायिकानां प्रलापो निरस्तः, यावति भागे नाऽऽवरणं तावति भागे परिमाणस्य महादेव, स्कन्धव्यवहर्तव्यज्ञानस्य सापेक्षत्वत एव व्यवहारस्य सापेक्षत्वं नान्यथेति समाधत्ते- नेति । 'आधिक्यतानपेक्षण!द्' इति स्थाने 'अधिकानपेक्षणाद्' इति पाठो युक्तः तस्य व्यवहर्तव्यज्ञान व्यवहारेच्छाव्यतिरिक्तान पेक्षणादित्यर्थः । अन्यथा व्यवहर्तव्यज्ञानस्यानपेक्षरवेऽपि व्यवहारस्य सापेक्षत्वाभ्युपगमे । तद्वयवहार एव अभावव्यवहार एव, अभावज्ञानं प्रतियोगिज्ञानमन्तरेणैव भवतीत्यभावो न सप्रतियोगिकः, किन्त्वभावव्यवहार एवं प्रतियोगिज्ञानमभावज्ञानं चापेक्षत इति तस्येव सप्रतियोगिकत्वं स्यादित्यर्थः । दीर्घत्वप्रकारकं ज्ञानं न नियतावध्यपेक्षम्, अवधिज्ञानमन्तरेणापि 'दी? दण्डः' इति ज्ञानस्य चक्षुस्सन्निकर्षमात्रादुत्पत्तेः, किन्त्वमुकापेक्षया यद् दीर्घत्वत्वं दीर्घत्वत्वव्याप्यसामान्यम् , तत्प्रकार कदीर्घत्वविशेषविशेष्यक ज्ञान एवावधिज्ञानं कारणमिति तत्रैवावधिज्ञानापेक्षेति शङ्कते-अथेति । ह्रस्वत्वस्य दीर्घत्वविरुद्धतया तद्रूपेण दण्डशाने सति नापेक्षामन्तरेण 'दीपों दण्डः' इति ज्ञानं सम्भवतीति दीर्घत्वप्रकारकज्ञानेपि नियतावधिज्ञानापेक्षत्वमेवेति समाधत्ते-नेति । तद्वत नियतावधिज्ञानापेक्षदीर्घत्वप्रकारकज्ञानवत् । इहाऽपि सदसदात्मकवस्तुज्ञानेपि । नन्ववच्छेदकानवगायपि वस्तुशानं भवत्येवेति न तत्रावधिज्ञानापेक्षेत्यत आह-अवच्छेदकानवगाहिनस्त्विति-तादृशज्ञानं भवतु नाम, न ततः सत्त्वादेरवधारणमिति न स्पष्टबोधः स इति स्पष्टबोधोऽपेक्षा विना न सम्भवतीति प्रतिज्ञायां न तेन किञ्चित् क्षुण्णमित्यभिसन्धिः । अनुपयोगः वस्तु सद्धाबुपयोगो न भवति, तत्तत्प्रकारेण वस्तुसिद्धयर्थं च यज्ज्ञानं मृग्यते तद् अवच्छेदकावगायव भवतीति । द्विहस्तादिमात्रे द्विहस्तादिप्रमाणे वस्तुनि, आदिपदात् त्रिहस्तादग्रहणम् । देशापक्षयैवेतीति-द्विहस्तप्रमाणे यादृशं महत्त्वं ततो विलक्षणमेवैकहस्तप्रमाणगत महत्त्वम् , तच्च देश-देशिनोः कथञ्चिद् भेदाद् देशे वर्तमानं देशिन्यपि वर्तत एव, परन्तु दशिन एकदेशावच्छेदेनाऽऽवरणमन्यदेशावच्छेदेनानावरणमित्यनावृतो य एकहस्तप्रमाणो देशस्तदवच्छेदेन ताशमहत्त्वग्रहणं देशापेक्षयैवेतीति । तस्य महत्त्वग्रहस्य त निरपेक्षत्वमित्यर्थः । अत एव द्विहस्तप्रमाणे वस्तुनि अनावृतकहस्तावच्छेदेन महत्त्वग्रहस्य सापेक्षत्वादेव । तावदवच्छेदेन एकहस्तमितदेशावच्छेदेन । देशेतिदेशापेक्षयकहस्तमितत्वं स्कन्धापेक्षया द्विहस्तमितत्वमित्येवं देश-स्कन्धभेदेनैकस्मिन् वस्तुन्येकहस्तत्व-द्विहस्तत्वोभयोरपि सम्भवेन तत्र द्विहस्तत्वग्रहस्यक हस्तस्वग्रहस्यापि प्रामाण्यसम्भवादित्यर्थः ।। ___ 'एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः, प्राच्यनैयायिकानां मते द्विहस्तमिते वस्तुनि द्विहस्तपरिमाणमेव, नैकहस्तपरिमाणम् , तद्गतद्विहस्तपरिमाणग्रहे च भूयोऽवयवावच्छेदेन चक्षुस्संयोगो हेतुरित्यर्द्धनिखातवंशादेरुक्तकारणाभावान द्विहस्तपरिमाणप्रहः एकहस्तपरिमाणं तु तत्र नास्त्येवेति न तद्गतपरिमाणग्रह इत्याशयः । एतेन इत्यतिदिष्टमेव निरासहेतुमाहयावति भाग इति । परिमाणस्य तद्वस्तुगतस्य निरावृतदेशावच्छिन्नस्यैक हस्तपरिमाणस्य । ननु भूयोऽवयवावच्छेदेन चक्षुःसंयोगाभावेऽपि तत्परिमाणग्रहणं यापेयः तर्हि अर्द्धनिखातवंशादेरेकहस्तग्रहणवद् द्विहस्तपरिमाणग्रहणमपि स्यादित्यत आह-स्कन्धपर्याप्तेति । 'तत्पर्याप्तावच्छेदक' इति स्थाने 'तत्पर्यायवच्छेदक' इति पाठो युक्तः, स्कन्धे परिमाणस्य