________________
नयामृततरहिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । पर्याप्तपरिमाणग्रहे तत्पर्याप्तावच्छेदकयावदवयवावच्छेदेनावरणाभावलक्षणयोग्यताया एव हेतुत्वे दोषाभावात् । किञ्च, 'भूयोऽवयवावच्छेदेन' इत्यस्य कोऽर्थः ? यावदवयवसंन्निकर्षस्य कुत्राप्यसम्भवात् , अनेकतत्संयोगस्य चातिप्रसञ्जकत्वात् , भूयोऽवयवावच्छिन्नत्वोपलक्षिताधारताविशेषस्य च देश-स्कन्धापेक्षावैचित्र्यमुखनिरीक्षकत्वादिति न किश्चिदेतत् ।
यत् तु-" विषयतासंबन्धेन परिमाणसाक्षात्कारत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्वसंबन्धेन तत्तदावारकसंयोगत्वेन प्रतिबन्धकत्वान्नार्द्धनिखातवंशादिपरिमाणमहः, यद्वा, अर्द्धनिखातवंशादेमहत्त्वादिक गृह्यत एव, 'महानयं वंशः' इति प्रतीतेः, तदवान्तरबैजात्यं तु नानुभूयत इति तत्तद्वैजात्यग्रहं प्रत्यावारकसंयोगस्य विरोधिता । न च निखाताऽनिखातसदृशवंशयोः सन्निकर्षदशायां तन्महत्वादिवृत्तिवलक्षण्यानुभवाद् वैजात्यप्रत्यक्षं प्रत्यावारकसंयोगानां प्रतिबन्धकत्वासंभव इति वाच्यम्, तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येव तेषां विरोधित्वात् , विशेष्यत्वं प्रतिबध्यतावच्छेदकः संबन्धः, स्वाश्रयमेव तत्त्वं
या पर्याप्तिस्तदवच्छेदका यावन्तोऽवयवास्तदवच्छेदेनेत्यर्थः। भूयोऽवयवावच्छेदेन चक्षुःसंयोगस्याक्यविगतपरिमाणग्रहं प्रति कारणत्वं यत् परेणोच्यते तत्र 'भूयोऽवयवावच्छेदेन' इत्यस्य निर्वचनमेव प्रकृतानुगुण न कर्तुं शक्यमित्याह-किञ्चेति । यदि 'यावदवयवावच्छेदेन' इति तदर्थ उपवर्ण्यते तदसम्भवग्रस्तमेव, सर्वशनारोऽप्यवयविनि अन्तलीनमध्याद्यवयवावच्छेदेन चक्षुस्संयोगस्याभावादित्याह- यावदघयवेति । अनेकावयवचक्षुस्संयोग एव यदि भूयोऽवयवावच्छेदेन चक्षुस्संयोगः स तर्हि अद्धनिस्वातवंशादावपि समस्तीति । तत्परिमाण ग्रहणापत्तिरित्याह-अनेकतत्संयोगस्य चेति- अनेकावयवचक्षुस्सयोगस्य चेत्यर्थः । यदि च भूयोऽवयवावच्छिन्नत्वोपलक्षितचक्षुस्संयोगाधारताविशेष उक्तशब्दार्थोऽभिमतः, स कार्यानुरोधेन कल्पनीय: स्यादिति देशविशेषापेक्षतादृशाधारताविशेषोऽन्यो यो हस्तावच्छेदेन तदतपरिमाणग्रहणे कारणम् , तदन्यश्च स्कन्धापेक्ष तादृशाधारताविशेषो यो द्विहस्तादिपरिमाणग्रहणे कारणमित्यर्द्धनिखातस्थले स्कन्धापक्षतादृशाधारताविशेषाभावाद् द्विहस्तादिपरिमाणाहणेऽपि देशविशेषापेक्षतादृशाधारताविशेषसद्धावादु हस्तपरिमाणग्रहणं स्यादेवत्यपेक्षासिद्धिरप्यायतिवेत्याशयेनाह-भूयोऽवयवावच्छिन्नत्वोपलक्षितेति ।
अत्र नैयायिकधुरन्धरमथुरानाथमतं प्रतिक्षेप्तुमुपन्यस्यति-यत् त्विति । विषयतेति- परिमाणविषयकसाक्षात्कारो विषयतासम्बन्धेन परिमाणे उत्पद्येत. तत्र तदाश्रयेण सहाऽऽवारकसंयोगोऽपि स्वाश्रयसमवेतस्वसम्बन्धन वर्तत इति तादृशसंयोगस्य प्रतिबन्धकस्य समवधानदशायां ताशसंयोमाश्रयसमवेतस्य परिमाणस्य न भवति प्रत्यक्षमित्यर्द्धनिखातवंशादिपरिमाणग्रहो नेत्यर्थः । अर्द्धनिखातवंशादेः परिमाणस्य साक्षात्कारो भवत्येवेति न तं प्रत्यावारकसंयोगस्य निरुक्तसम्बन्धन प्रतिबन्धकत्वम् , किन्तु तत्परिमाणगतं यद् महत्त्वत्वावान्तरबैजात्यं तद् नानुभूयत इति तत्प्रत्यक्षं प्रत्येवाऽऽवारक. संयोगस्य प्रतिबन्धकत्वमिति कल्पान्तरमाह- यद्वेति । तदवान्तरेति- महत्वत्वव्याप्येत्यर्थः । 'न च' इत्यस्य 'वाच्यम् इत्यनेन सम्बन्धः, तस्य वैजातस्यैकस्य निखाताऽनिखातसदृशवंशद्वयपरिमाणद्वयवर्तिनः प्रतिबन्धकीभूतावारकसंयोगस्य स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन सम्बन्धिनो यथा निखातधंशगतपरिमाणगततया न प्रत्यक्ष तथानिखातवंशगतपरिमाणगततयापि प्रत्यक्षं न भवेत् , भवति चानिखातवंशगतपरिमाणगततया प्रत्यक्षम् , अतो न तादृशवैजात्यग्रहं प्रत्यावारकसंयोगस्य प्रतिबन्धकतेति शङ्कार्थः । तादृशवैजातस्य ग्रहं प्रति प्रतिबन्धकत्वाऽसम्भवेऽपि विशेष्यतासम्बन्धेन तादृशवै जात्यप्रकारकप्रत्यक्ष प्रति स्वाश्रयसमक्तत्वसम्बन्धेनाऽऽचारकसंयोगस्य प्रतिबन्धकत्वं सम्भवत्येव, आवारकसंयोगो हि स्वाश्रयसमबेतत्वसम्बन्धेन निखातवंशवर्तिपरिमाण एव समस्ति, तत्र विशेष्यतासम्बन्धेन तादृशवैजात्यप्रकारकप्रकारकं नोल्पद्यते, अनिखातवंशवर्तिपरिमाणे तु स्वाश्रयसमवेतत्वसम्बन्धेनावारकसंयोगो नास्ति, ततस्तत्र विशेष्यता सम्बन्धेन निरूक्तवैजात्यप्रकारकप्रत्यक्षं स्यादेवेति निषेधे हेतुमुपदर्शयति- तादृशलक्षण्यप्रकारकप्रत्यक्षं प्रत्येवेति । तेषाम आवरकसंयोगानाम् । 'स्वाश्रयमेव तत्वं च' इति स्थाने 'स्वाश्रयसमवेतत्वं च' इति पाठो युक्तः। ननु तादशलक्षण्यप्रकारकप्रत्यक्षं