________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः ।
च प्रतिबन्धकतावच्छेदकमित्यनतिप्रसङ्गात् । न चैवं निखातसन्निकर्षात् तादृशवैलक्षण्यनिर्विकल्पकापत्तिः, इष्टत्वाद् ” इति मथुरानाथाभिहितम् , तत् तुच्छम्- एवमपि निखातसन्निकर्षान्महत्त्वप्रकारकतादृशवैलक्षण्यविशेष्यकसाक्षात्कारापत्तेर्दुरित्वात् । किञ्च, एवमावृतकपाविच्छेदेन यस्य चक्षुःसंयोगानोक्तवैजात्यस्य ग्रहस्तस्यैवान्यदा, पुरुषान्तरस्य वा तदानी पान्तिरावच्छेदेन चक्षुःसंयोगेऽप्यग्रहः स्यात् , आवारकसंयोगस्य विरोधिनः सत्वात् । तत्तत्कालीनतत्तत्पुरुषीयमहत्त्वादिप्रत्यक्षं प्रत्येयोक्तप्रतिबन्धकत्वे त्वनावरणकालीनस्य विलक्षणमहत्त्वादिप्रत्यक्षस्यावरणदशायामुत्पत्तिप्रसङ्गः, नहि तत्रापि सन्निकर्ष विना अन्यद् विशिष्य कारणं क्लप्तं येन तद्विलम्बात् तद्विलम्बः स्यात् । अपि च, एवमावृता-ऽदृष्टनष्टस्थले प्रतिबध्याप्रसिद्धिः ।
प्रत्येवावारकसंयोगानां प्रतिबन्धकत्वे तादशलक्षण्यविषयकनिर्विकल्पकप्रत्यक्षं न निरुक्तप्रतिबध्यतावच्छेदकाक्रान्तमिति निखातवंशचक्षुस्सन्निकर्षात् तत्राचारकसंयोगे सत्यपि स्यादित्याशङ्कामिष्टापत्त्या परिहरति-न चैवमिति | उक्तमथुरानाथमतस्य तुच्छत्वे हेतुमाह-एवमपीति - उक्तदिशा प्रतिबध्य-प्रतिबन्धकभावाभ्युपगमेऽपीत्यर्थः । निखातवंशवर्तिमहत्त्वविशेष्यकतादृशवैजात्यप्रकारकप्रत्यक्षमेवाऽऽत्मनि समवायेनोत्पद्यमान सद् विशेष्यतया निरुक्तमहत्त्वे उत्पत्तुमर्हतीति तस्यैव निरुक्तप्रतिबध्यतावच्छेदकाकान्तत्वादुत्पत्तिर्मा भवतु नाम, समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेन महत्त्वप्रकारकतादृशवैजात्यविशेष्यकप्रत्यक्षं तु प्रकारतासम्बन्धेन महत्त्वे उत्पद्यते, तथा तद् वैजात्यविशेष्यकमेव, न तु वैजात्यप्रकारकमिति प्रतिवध्यतावच्छेदकधर्माऽनाकात्वात् तदुत्पत्तिर्निखातसन्निकर्षादापद्यत इत्याइनिखातसन्निकर्षादिति । अपि च विषयनिष्ठप्रत्यासत्योक्तप्रतिबध्य-प्रतिबन्धकभावे यस्य प्रमातुरावृतकपाविच्छेदेन चक्षुस्संयोगादुक्तवैजात्यस्य प्रत्यक्षमेकदा न भवति तस्यैव कालान्तरे एकपार्धावच्छेदेनावारणसंयोगे विद्यमानेऽपि पान्तिरावच्छेदेन चक्षुस्संयोगात् तादृशवजात्यस्य प्रत्यक्षसुपजायते, एवं यदकस्य पुंस आवृतकपाविच्छेदेन चक्षुःसंयोगात् तादृशवैजात्यस्य प्रत्यक्षं न भवति, तदानीमेवान्यस्य पुंसः पान्तिरावच्छेदेन चक्षु:संयोगात् तादृश वजात्यस्य प्रत्यक्षं भवति, तदेतन स्यात् , तादृशप्रत्यक्षस्याऽपि प्रतिबध्यतावच्छेदकाक्रान्तत्वादावारकसयोगस्य च प्रतिबन्धकस्य सत्त्वादित्याह-किञ्चेति । अन्यदा वैज्ञात्याऽग्रहकालभिन्नकाले । तदानीम् एकपुरुषस्य यदा वैजात्याग्रहस्तत्काले । यत्काले यत्पुरुषस्यावारणसंयोगे सति महत्त्व प्रत्यक्षं न भवति तत्कालीनतत्पुरुषीयमहत्त्वप्रत्यक्षं प्रत्ति आवरणसंयोग: प्रतिबन्धक इति तत्कालीनान्यपुरूषीयमहत्त्वप्रत्यक्षस्याऽन्यकालीनतत्पुरुषीयमहत्त्वप्रत्यक्षस्य च प्रतिबध्यतावच्छेदकानाक्रान्तत्वादुत्पत्तियद्यपि सम्भवति तथापि इन्द्रियसन्निकर्षस्य कार्यतावच्छेदकं महत्त्व प्रत्यक्षत्वं यथाऽऽवारणकालीनान्यपुरुषीयमहत्त्वप्रत्यक्ष समस्तीति तदिन्द्रिय सन्निकर्षबलात् समुत्पद्यते तथाऽनावारणकाले यन्महत्त्वप्रत्यक्षं समुत्पद्यते तदपि निरुक्तसझिकर्षकार्यतावच्छेदकाकान्तमेव, न चोक्तसन्निकर्षातिरिक्तमपि विशिष्य तत् प्रति कारणमित्यावरणकाले तस्यापि समुत्पत्तिः स्यात्, तद्विलम्बे हेत्वभावादित्याह-तत्तत्कालीनेति । 'नहि' इत्यस्य 'क्लप्तम्' इत्यनेनान्वयः । तत्रापि अनावरण कालीनविलक्षणमहत्त्वादिप्रत्यक्षेऽपि विशिष्येति-यद्यपि यत्काले यदुत्पद्यते तत्कार्य प्रति तत्कालोऽपि कारणमित्यनावरणकालीन. विलक्षणमहत्त्वादिप्रत्यक्षेऽनावरणकालस्य कारणत्वात् तस्यावरणकालेऽभावान्न तदानीं तदुत्पत्यापत्तिः, तथापि कालस्य विशिष्य कारणत्वे तत्तत्कालरूपकारणाभावादेव तत्तत्कालजन्यतत्तत्कार्यस्य नान्यदोत्पत्तिस्तत्काल एव चोत्पत्तिरिति कालमात्रमेव कार्यमा कारणम् , किमन्यकारण कल्पनेन ? अन्य कारणाभावेऽपि तत्कालाऽभावस्थावश्यकत्वेन तद्विलम्बादेव तत्कार्यविलम्बस्य सम्भवादिति कालैककारणमात्रांपैत्तिभिया सामान्यत एव कालस्य कार्यमानं प्रति कारणत्वमिति तत्तकार्यस्य स्वाखिलकारणसमवधानकाल एव स्वकारणकाल इति कालोऽपि न विशिष्य कारणं क्लप्तमित्यभिसन्धिः । किञ्च, यद् विलक्षणमहत्त्वादिकं सर्वदावृतमेव जन्यप्रत्यक्षाविषय एव विनष्टं तन्महत्त्वादेः कदापि प्रत्यक्षाभावात् तत्र प्रतिबध्याप्रसिद्धिरप्युक्तप्रतिबध्य-प्रतिन्धकभावकल्पनायां दोष इत्याह-अपि चेति। आवृतेति-आवृतमदृष्टमेव सद् यदु नष्टं तत्स्थले इत्यर्थः । प्रकारान्तरेण विशिष्य प्रतिब