________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । नन्वनन्तधर्ममिश्रितं वस्तु कथं विवेचयितुमशक्यम् ? अनन्तानामपि धर्माणां धर्म्य भिन्नत्वेन धर्मिग्राहकप्रत्यक्षादेरेव तद्विवेकरूपत्वात् , सति च तद्विवेके किमपेक्षाश्रयणेनेत्याशङ्कयाऽऽह
यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्षगोचरः।।
तथापि स्पष्टबोधः स्यात् सापेक्षो दीर्घतादिवत् ॥ ३ ॥ नया०- यद्यपि वस्तु घटपटादिकम् , अनन्तधर्मात्मकं सत् प्रत्यक्षगोचरः प्रत्यक्षादिप्रमाणविषयः, एकस्मिन् घटादौ गृह्यमाणे गृह्यमाणधर्मोपरागेण द्रव्यार्थादेशेनातीता-ऽनागत-वर्तमानानां तद्वृत्तिधर्माणां यावतामेव ग्रहात् , परेषां सामान्यलक्षणप्रत्यासत्तिस्थानेऽभिषिक्तस्य घटविषयकतिर्यक्सामान्योपयोगस्य घटत्वव्यापकविषयताकप्रत्यक्षत्वं तादृशज्ञान वा यथा कार्यतावच्छेदकं तथा तद्विषयकोर्ध्वतासामान्योपयोगस्यापि तादात्म्यसंबन्धेनाधेयत्वसंबन्धेन वा घटत्वव्यापकविषयताक
ननु 'घट-पटयोन घटरूपाऽऽकाशे' इत्यत्र नबो द्वेधाऽन्वय उपेयते, तथा च 'घट-पटोभयनिरूपितत्वाभाववदाधेयत्वाभाववती घटरूपा-ऽऽकाशे' इत्येवमन्वयबोध उपपद्यत इत्यत आह-तंत्रेति- 'घट-पटयोर्न घटरूपाऽऽकाशे' इत्यप्रेत्यर्थः । तात्पर्यवशात् इदं वाक्य घट-पटोभयनिरूपितत्वाभाववदाधेयत्वाभाववद्घटरूपाकाशरूपार्थ बोधयतु' इति तात्पर्यबलात्। द्वधाऽन्वये नमोऽर्थस्याभावस्य द्वेधान्वये । उभयस्य घटरूपाऽऽकाशोभयस्य । अनाधेयत्वाभावात् आकाशस्य नित्यद्रव्यतयाऽऽधेयत्वाभाववत्त्वेऽपि घटरूपस्य घट-पटोभयनिरूपितत्वाभाववदाधेयत्ववत्तया तदभावस्य तत्राभावेन घटरूपाऽऽकःशोभयस्य निरूक्ताधेयत्वाभाववत्त्वासम्भवात् । उपसंहरति--तस्मादिति-अपेक्षा विना तत्तत्स्थलेऽऽन्वयबोधस्योपपादयितुमशक्यत्वादित्यर्थः ॥ २॥
तृतीयपद्यमवतारयति-नन्विति । तद्विवेकेति-- अनन्तधर्मविवेकेत्यर्थः, एवमप्रेऽपि, अनन्तधर्मविवेके सति तद्वारा:नन्तधर्मात्मकवस्तुविवेकोऽपि सुशक एव, प्रत्यक्ष प्रमाणं सर्वतो बलवत् , तत् सर्वधर्माभिन्न वस्तुविषयकत्वात् सर्वधर्म. विषयकमिति किमवशिष्टं विवेके ? यदर्थमपेक्षाश्रयणमित्य भिसन्धिः । 'यद्यपि' इत्यादि पद्यं विवृणोति- यद्यपीति । ननु प्रत्यक्ष प्रतिनियतधर्मविशिष्टघटादिधार्मिग्राहक चक्षुरादिप्रभवं भवतु नाम, कथं पुनस्तस्य घटादिगतानामतीतानागत धर्माणां प्राहकत्वम् ! येनानन्तधर्मात्मकवस्तु प्रत्यक्षगोचर इति गदितुमनुगुणम् , नानन्तधर्माणां प्रत्यक्षेणाऽनवगाहनेउनम्तधर्मात्मकवस्तु प्रत्यक्षगोचरो भवितुमर्हतीत्यत आह- एकस्मिन्निति । द्रक्ष्यार्थादेशेनेति-गृह्यमाणधर्मविशिष्टधर्मिरूपद्रव्याभेदाश्रयणेनेत्यर्थः । तवृत्तिधर्माणां घटादिवृत्तिधर्माणाम् । ननु सनिकृष्टं प्रत्यक्ष भासते, अतीतानागतधर्माणां पुन: द्रव्याभेदेऽपि सन्निकृष्टत्वं नास्तीति फथं तेषां प्रत्यक्षे भानामत्यत आह-परेषामिति- नैयायिकादीना. मित्यर्थः, 'मते' इति शेषः । घटविषयकतिर्यक्सामान्योपयोगस्य पुरोवर्तियत्किचिटविशेष्यकघटत्वप्रकारकप्रत्यक्षस्य, तस्य प्रत्यासत्तितानियामकसम्बन्धश्च स्वविषयघटत्ववश्वरूपः, तेन सम्बन्धन निरूकोपयोगो। यावत्स्वतीतानागतविप्रकृष्टेषु घटेषु वर्तत इति । घटत्वव्यापकेति-घटत्वव्यापकविषयताकप्रत्यक्षत्वावच्छिन्नं प्रति घटत्वव्यापकविषयताकज्ञानत्वावच्छिन्नं प्रति वा घटविशेष्यघटत्वप्रकारकप्रत्यक्षस्य कारणत्वाद् यावकिपिघट प्रत्यक्षानन्तरं यथाऽतीतानागत. सकलघटविषयकप्रत्यक्षमित्यर्थः । तथेति-- 'तादात्म्यसम्बन्धेन' 'आधेयतासम्बन्धेन' इति च व्याप्यताया नियमनम् , घटविषयकोर्चतासामान्योपयोगस्यापि प्रत्याससितानियामक: स्वविषयतादात्म्यं स्वविषयाधेयत्वं वा सम्बन्धः तादृशसम्बन्धश्च विषयनिष्ठप्रत्यासत्त्या कार्य-कारणभावे बोध्यः, आत्मनिष्टप्रत्यासत्त्या कार्य-कारणभावे तु कथञ्चित्तादात्म्यमेव कार्यतावच्छेदकः कारणतावच्छेदकश्च जैनमते. परमते तु समवायस्तथा बोध्यः । 'घटत्वव्यापक' इति स्थाने 'घटव्यापक' इति पाठा युक्तः तथा च तादात्म्यसम्बन्धेनाऽऽधेयतासम्बन्धेन वा घटव्यापकविषयताकप्रत्यक्षत्वावच्छिन्नं प्रति घटव्यापकविषयताकज्ञानत्वा. वच्छिनं प्रति वा घटविषयकोचंतासामान्योपयोग: कारणमिति, तादात्म्यसम्बन्धेनाऽऽधेयतासम्बन्धेन वा घटो यावत्सु