________________
·
नयामृततरङ्गिणी-तरङ्गिणीसरणिभ्यां समलङ्कृतो नयोपदेशः ।
इत्यादा 'घट-पटोभयनिरूपितत्वाभाववदाधेयतावद् घटरूपम्' इत्यन्वयोपपादनेऽपि 'घट-पटरूपे' इत्यस्योपपादयितुमशक्यत्वात्, घटरूपत्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात् । तत्र द्वित्वादिस्वरूपैवाऽऽवेयतेति चेत् द्वयोः प्रत्येकरूपावच्छेदेन द्वित्वाभावान्निषेधस्यापि प्रवृत्तिः स्यात् । अनुयोगितावच्छेदकावच्छेदेनैव सप्तम्यर्थाघेयत्वान्वयव्युत्पत्तेनायं दोष इति चेत् तथाऽपि 'घटरूपाऽऽकाशे' इत्यादिकं कथम् एतद् द्वित्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात्, तत्र तात्पर्यवशात् द्वेधाऽन्वयेऽप्युभयस्यानाधेयत्वाभावात् । तस्मान्नयापेक्षाभेदेनात्र विचित्र एव बोधः स्वीकार्यः ॥ २ ॥ वच्छिन्नाधेयतावती सप्तेति यथा बोध्यते तथा प्रकृतेऽपि घट-पटोभयनिरूपितत्वाभाववत्समवायसम्बन्धावच्छिन्नाथेयतावद् घटरूपम्' इत्येवमन्वयबोधोपपादनसम्भवेऽपि 'घट-पटयोर्घट-पटरूपे ' इत्यत्र निरुतदिशा 'घट-पटोभयनिरूपितत्ववदायतावती घट-पटरूपे' इत्येवमन्वयस्य वाच्यतया सामान्यपेक्षाभावे तादृशान्वयस्य बाधितत्वेन वक्तुमशक्यत्वाद् घटरूपत्वस्वरूपाया आधेयताया घटनिरूपितत्वम्, पदरूपत्वस्वरूपाया आधेयतायाः पटनिरूपितत्वम्, घट-पटोभयनिरूपितत्वस्य तु घटरूपत्वादिस्वरूपाचेयतायामभावादित्यर्थः । 'घट-पटरूपे इत्यस्य' इत्यत्र 'घट- पटयो:' इत्यस्यानुकर्षाद् 'घट-पटयोर्घट-पटरूपे इत्यस्य' इति लभ्यते । 'घट-पटयो र्घट-पटरूपे' इत्यत्र सप्तम्यर्थाधियतान्वयितावच्छेदकं घट-पररूपद्वयगतद्वित्वम्, तत्स्वरूपैषाऽऽदेयता, तस्या घट-पटोभयनिरूपित्वस्य सम्भवाद् 'घट पटयोर्घट-पटरूपे' इत्युपपद्यत इति शङ्कते - तत्रेति- 'घट-पटयोर्घट-पटरूपे' इत्यत्रेत्यर्थः । घट-पटरूपयोर्घटरूपत्व - पररूपत्वलक्षणप्रत्येकधर्मावच्छेदेन न द्वित्वम्, तस्य व्यासज्यवृत्तितया द्वित्वावच्छेदेन सत्त्वादिति तद्रूपाऽऽधेयतापि घटरूपत्वादिप्रत्येकधम विच्छेदेन न तत्र वर्तत इति तादृशाऽऽधेयत्वाभावस्य प्रत्येक रूपावच्छेदेन घट-पटरूपयोः सत्वाद् 'घट-पटयोर्न घट-पटरूपे' इति निषेधस्यापि प्रवृत्त्यापत्तेरिति समाधत्ते द्वयोरिति- घट-पटरूपयोरित्यर्थः । प्रत्येकरूपावच्छेदेन घटरूपत्वाययवच्छेदेन । नन्वन्वयिताबच्छेदकस्वरूपा यथाऽऽधेयता स्वीक्रियेत तथा तस्या अनुयोगितावच्छेदकावच्छेदेनैवान्वय इत्यपि स्वीक्रियते, एवं च घट-पटरूपद्वयगत द्वित्वस्वरूपाऽऽधेयतायास्तादृशद्वित्वावच्छेदेनैवान्वयो न प्रत्येक रूपावच्छेदेनेति तादृशद्वित्वावच्छेदेन तादृशद्वित्वरूपाऽऽधेयतायाः सत्त्वाद् विधिरूपपद्यते, तदभवस्य तादृशद्वित्वावच्छेदेनाभावान्न निषेधस्य प्रवृत्यापत्तिरिति शङ्कते - अनुयोगितावच्छेदकावच्छेदेनैव । अयं दोषः निषेधप्रवृत्त्यापत्तिलक्षणो दोषः । घटे समवायेन घटरूपं पटे च संयोगेनाऽऽकाश इति विवक्षया 'घट-परयोर्घटरूपाऽऽकाशे' इति प्रयुज्यते, तत्र घटरूपाऽऽकाशगतद्वित्व रूपाssधेयता न भवति घट-पटोभयनिरूपितेति तत्रान्वयानुपपत्तिरिति समाधत्ते - तथापीति- अनुयोगिताच्छेदकावच्छेदेन ' सप्तम्यर्था धियस्वान्वयव्युत्पत्तेः स्वीकारेऽपीत्यर्थः । यद्यपि आकाशस्य नित्यद्रव्यतया तत्सम्बन्धो वृत्त्यनियामक एवेति आकाशस्य न किञ्चिन्निरूपिताऽऽधेयत्वमिति घटरूपा -ऽऽकाशगत द्वित्व स्वरूपाऽऽधेयतैव न सम्भवतीति कुतस्तस्याः शशशृङ्गकल्पाया उभयनिरूपितत्वम् ? इत्येवमपि 'उभयानिरूपितत्वाद्' इति घटते तथापि काले सर्व वस्तु कालिकेन वर्तत इति कालनिरूपितैव घटरूपाऽऽकाशगताधयता घटरूपा ऽऽकाशगतद्वित्वस्वरूपा सम्भवति, तस्यां कालनिरूपितायां घट-पटोभयनिरूपितत्वाभावादिति सम्मुखीनोऽर्थ एवाश्रयितव्य इति । वस्तुतः 'तत्र तात्पर्यवशाद्' इत्याद्युत्तरग्रन्थस्वारस्यात् ' तथापि' इत्यस्यानन्तरं 'घट - रूपाकाशे' इत्यारभ्य उभयानिरूपितत्वाद्' इति पर्यन्तस्य स्थाने 'घट- पटयोर्न घटरूपाऽऽकाशे इत्यादिकं कथम् ? एतद्वित्वादिस्वरूपाया आधेयताया असम्भवेनोभय निरूपितत्वाभाववदाधेयत्वान्वयासम्भवाद्' इति पाठो युक्तः, तस्य चायमर्थः --- 'घट पटयोर्न घटरूपम्' इत्यत्र यथा ' घट-पटोभयनिरूपितत्वाभाववदाधेयताव घटरूपम्' इत्येवमन्वयबोध उररीक्रियते तथा 'घट-पटयोर्न घटरूपाssकाशे' इत्यत्र 'घट-पटोभयनिरूपितत्वाभाववदाधेयतावती घटरूपाऽऽकाशे इत्येवमन्वयबोधः स्वीकरणीयः, स च न सम्भवति, घटरूपाकाशगत द्वित्वस्वरूपाया आधेयताया असम्भवेन घट-पटोभयनिरूपितत्वाभाववदाधेयतात्वेन तस्या ग्रहणासम्भवेनान्याऽऽधेयताया ग्रहणेऽपि तद्वत्वस्य घटरूपाऽऽकाशयोरभावाद् घटरूपस्य किश्चिन्निरूपिताधेयतावत्त्वेऽपि नित्यद्रव्यस्याकाशस्याश्रितत्वाभावेन किञ्चिन्निरूपिताधेयत्वाभावात् तथाविधाधेयताय स्वान्वयासम्भवादिति ।
१२
4