________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
११
किञ्च, एवं 'द्वयोर्गुरुत्वम् , न गन्धः' इत्यादौ का गतिः ? गुरुत्वसामानाधिकरण्येनेव गन्धत्वसामानाधिकरण्येनापि पृथिवी-जलोभयस्वाश्रयवृत्तित्वसाम्यात् विधि-निषेधविषयार्थानिरुक्तः । अत्र सप्तम्याः स्वार्थान्वयितावच्छेदकस्वरूपात् समव्याप्यातिरिक्कैवाऽऽधेयताऽर्थः, तत्र च प्रकृत्यर्थस्य तन्निष्ठ. निरूपितत्वविशेषेणान्वयात्, पृथिवी-जलोभयविशिष्टाधेयतात्वेन गुरुत्वं विधेयतया गन्धश्च निषेध्यतया प्रतीयत इत्युक्तौ च नामान्तरेण गुरुत्वसामान्यस्यैव विधेयत्वं गन्धसामान्यस्यैव च निषेध्यत्वमुक्तमायुष्मता, अतिरिक्ताधारताया अनिरूपणात् , अन्यथा 'घट-पटयोन घटरूपम्' इत्यादौ 'जाति-घटयोर्न सत्ता'
अपेक्षात्मकान्वयबोधानभ्युपगन्तृणां परेषां दोषान्तरमप्युपदर्शयति-किञ्चति । द्वयोः पृथिवी-जलयोः, पृथिव्यां गुरु- • त्वमन्यत् , तदन्यच जले गुरुत्वमिति नैकस्य गुरुत्वस्य पृथिवी-जलोभयनिरूपितवृत्तित्वमिति यथा गन्धे पृथिवी-जलोभयनिरूपितवृत्तित्वस्याभावात् 'पृथिवी-जलयोन गन्धः' इत्येवं निषेधस्तथा गुरुत्वस्यापि पृथिवी-जलोभयनिरूपितवृत्तित्वाभावाद् 'द्वयोर्न गुरुत्वम्' इति निषेध एवं स्यात्, न तु 'द्वयोर्गुरुत्वम्' इति विधिः स्यात्, यदि च पृथिवी-जलो. भयत्वाश्रयवृत्तित्वरूपमर्थमुपादाय 'पृथिवीजलयोगुरुत्वम्' इति गुरुत्वत्वसामानाधिकरण्येन 'पृथिवी-जलोभयत्वाश्रयनिरूपित. वृत्तित्ववद् गुरुत्वम्' इति बोधसम्भवतः 'पृथिवी-जलयोगुरुत्वम्' इति विधिरुपपाद्यते तदा तादृशवृत्तित्वस्य गन्धत्वसामाना. धिकरण्येन गन्धेऽपि सम्भवेन तदन्वयबोधस्यापि सम्भवात् 'धृथिवी-जलयोर्गन्धः' इति विधिरेव स्यात् , न तु 'पृथिवी. जलयोर्न गन्धः' इति निषेधस्योपपत्तिरित्यर्थः । गुरुत्वसामानाधिकरण्येनेव' इति स्थाने 'गुरुत्वत्वसामानाधिकरण्येनेव' इति पाठो युक्तः । अत्र विधि-निषेधोपपादनपरविधि-निषेधार्थ निरुक्तर्नामान्तरेणापेक्षात्मकबोधसमर्थकत्वमुपदर्शयतिअत्रेति- 'द्वयोर्गुरुत्वम्' इति वाक्यघटकेत्यर्थः । सप्तम्याः द्विपदोत्तरसप्तमीविभक्तेः, अस्य 'अर्थः' इत्यनेनान्वयः । स्वार्थेति- खं सप्तमीविभक्तिः, तस्यार्थ आधेयत्वम् , तदन्वयिता गुरुत्वनिष्ठा, तदवच्छेदकं गुरुत्वत्वम् , तत्स्वरूपाद् अतिरिक्तव-भिन्नैव, समव्याप्या-समनियता, आधेयता सप्तमीविभक्तरर्थः । तत्र च आधेयतायां पुनः । प्रकृत्यर्थस्य द्विपदार्थस्य पृथिवी-जलोभयस्य । तन्निष्ठनिरूपितत्वविशेषेण सप्तमीविभक्त्यधेियत्वनिष्ठनिरूपितत्वविशेषरूपसम्बन्धेन । अन्वयात् सम्बन्धात् । तथा च पृथिवी-जलोमयविशिष्टाधेयतास्वेन' इति स्थाने 'पृथिवी-जलोभयविशिष्टाधेयतावत्वेन' इति पाठो युक्त:-निरूपितत्वविशेषलक्षणसम्बन्धेन पृथिवी-जलोभयविशिष्टा याऽऽधेयता तद्वत्त्वेनेति तदर्थः, तस्य 'विधेयतया' इत्यत्र 'निषेध्यतया' इत्यत्र चान्वयः, गुरुत्वविशेषस्यैकव्यक्तिमात्रवर्तिनः पृथिवी-जलोभयविशिष्टाधेयतावत्वं न सम्भवतीति तादृशाधेयतावत्वेन गरुत्वसामान्यवर्तिना गुरुत्वसामान्यस्यैव विधेयत्वम्, यद्यपि पृथिवी-जलोभयविशिष्टाघेयतावत्वं गन्धसामान्ये यथा नास्ति तथा गन्धविशिषेऽपि नास्तीति पृथिवी-जलोभयविशिष्टाधेयतावत्त्वेन निषेध्यत्वं गन्धविशेषस्यापि सम्भवति, तथाऽपि तादृशनिषेध्यत्वं गुरुत्वविशेषस्यापि सम्भवतीति विशेषापेक्षया निरुक्तनिषेध्यत्वस्याभिमतत्वे 'द्वयोर्न गुरुत्वम्' इत्यपि स्यात् , अतः सामान्यापक्षयव निषेध्यत्वमप्यभिमतमिति गन्धसामान्यस्यैव पृथिवी-जलोभयविशिष्टाधेयतावत्वेन निषेध्यत्वं 'दूयोर्गुरुत्वं न गन्धः' इति वाक्येनोक्तं परेशायीति सामान्यपेक्षाया आवश्यकत्वादपेक्षात्मकान्वयबोधरूपनयसिद्धिरित्यर्थः। 'पृथिवी-जलोभयविशिष्टाधेयतात्वेन' इति पाठप्रामाण्ये तु 'स्वार्था०' इत्यादिस्थाने 'स्वार्थान्वयितावच्छेदकस्वरूपात समव्याप्यानतिरिक्तवाऽऽधेयतार्थः' इति पाठो युक्तः । 'अतिरिक्ताधारताया अनिरूपणाद' इति स्थाने 'अतिरिक्ताधेयताया अनिरूपणाद्' इति पाठः सम्यक्, तच्च 'अनतिरिक्तवाऽऽधेयताऽर्थः' इत्यत्र हेतुकथनरूपतया सङ्गतिमङ्गति, यतश्चाधेयताऽऽधेयस्वरूपा तत आधेयस्याऽऽधेयतात्वेन विधानं निषेधश्च सम्भवतीति बोध्यम् । अन्यथा सामान्यापेक्षया विधेयत्व-निषेध्यत्वयोरनभ्युपगमे। घट-पटयोरिति- घट-पटोभयत्वाश्रयघटनिरूपितवृत्तित्वस्य घटरूपे सत्त्वात् तनिषेधस्तत्र न स्यात् , घट-पटोभयनिरूपितवृत्तित्वं च न क्वचिदपि रूपे इति तदभावबोधने 'घट-पटयोर्न रूपम्' इत्यपि स्याद्, अत: 'जाति-घटयोर्न सत्ता' इत्यादौ घटवृत्तिस्वस्य समवायसम्बन्धावच्छिन्नस्य सत्तायां सत्त्वेऽपि जातौ न सत्ता वर्तते, नापि कोऽपि पदार्थः समवायेन तत्र वर्तत इत्यतो जाति-घटोमयनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वप्रसिद्धचा तदभावोऽपि न बोधयितुं शक्यः, किन्तु जाति घटोभयनिरूपितत्त्वाभाववत्समवायसम्बन्धा