________________
नयामृतसरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
पटयो रूपम्' इत्यादौ च घट-पटोभयवृत्तित्वस्यापि रूपत्वादिसामानाधिकरण्येनान्वयबोध एव साकात्वाद् 'न तयोर्घटरूपम्' इत्यपि स्यादिति कैश्चित् कल्प्यते, तदसत्- प्रतिवस्तुन्याकासावैचित्र्यस्यापेक्षाबोधात्मकफलवैचित्र्यार्थमेवाश्रयणात् , उभयरूपसामान्यस्य प्रत्येकरूपविशेषात् कथबिद्भेदानभ्युपगमे स्वदुक्तान्यव्युत्पत्तिग्रहास् 'घट-पटयोघंटरूपम्' इति जायमानस्य बोधस्य प्रामाण्यापत्तेश्च, अस्माकं तु स्यादर्थानुप्रवेशस्यैवातिप्रसङ्गभञ्जकत्वान्न दोषः । सामान्यात्मनैकमिति तत्र घट-पटोभयनिरूपित वृत्तित्वं सम्भवत्यैवेति कृत्वा रूपत्वसामानाधिकरण्येनान्वयबोध उक्तवाक्यात् सम्भवति, रूपस्वावच्छेदेनान्वयबोधस्तु तावताऽपि न सम्भवति, यतो घटावृत्ति-पटावृत्तिरूपव्यक्त्योरपि रूपसामान्यान्तर्गततया तत्र घटवृत्तित्व पटवृत्तित्वयोरभावे घट-पटोभयवृत्तित्वस्याप्यभावेन बाधितत्वाद् रूपत्वावच्छेदेन घट-पटोभयवृत्तित्वान्वये उक्तवाक्यस्य निराकात्वात् , किन्तु रूपत्वसामानाधिकरण्येनान्वय एवोक्तवाक्यं साक मिति विभाव्यते, तदा घटरूपस्य घटवृत्तिस्वऽपि न पटवृत्तित्वमिति कृत्वा घट-पटवृत्तित्वाभावस्य तत्र सत्त्वेन घटरूपेऽबाधितस्य घट-पटोभयनिरूपितवृत्तित्वाभावस्यान्वये 'घट-पटयोन घटरूपम्' इति वाक्यं साकाई स्यादेवेत्याह- घट-पटयोरिति- इत्थं च 'घट-पदयोन रूपम्' इति वाक्याद् 'घट-पटयो रूपम्' इति वाक्याद् 'घट-पटयोने घटरूपम्' इति वाक्याचापेक्षामन्तरेणैवान्वयबोधस्योपपत्ते पक्षात्मकान्वयबोधस्वरूपनयसिद्धिरित्यभिप्रायः । प्रतिक्षिपति - तदसदिति । प्रतिवस्तुनीति- 'घट-पटयोन रूपम्' इति वाक्यं रूपस्वावच्छेदेन घट-पटोभयनिरूपितवृतित्वाभावान्वयबोधने साकाङ्क्षम् , घट-पटयो रूपत्वावच्छिन्नप्रतियोगिताकाभावान्वये न साकासम्, 'घट-पटयो रूपम्' इति वाक्यं च रूपत्वसामानाधिकरण्येन घट-पटोभयनिरूपितवृत्तिस्वाम्बयबोधने साकाङ्गम् , न तु रूपत्वावच्छेदेन घट-पटोभयनिरूपितवृत्तित्वान्वयबोधने इत्येवं यद् आकाक्षावैचित्र्यमभ्युपे स्यान्वयबोधवलक्षण्यमभ्युपेयते तदेतद् अपेक्षाबोधात्मकफलबैलक्षण्यमेव शब्दान्तरेणाभ्युपगत परैः, अन्यथैकान्तवादिनो यदन्वयबोधसमर्थ यद् वाक्यं तत् तदन्चयबोधं जनयिष्यत्येव, यच्च यत्रासमर्थ तत् तन्न जनयिष्यतीत्येवाभ्युपगमनीयं स्याद्, न त्वाकाङ्क्षावैचित्र्यं फलवैचित्र्यार्थमाश्रितं भवेदित्यर्थः । रूपत्वसामानाधिकरण्येन घट-पटोभयनिरूपिवृत्तित्वान्वयस्य बोधे साका.
क्षाद् ‘घट-पटयो रूम्' इति वाक्यात् तथाविधान्वयबोधस्तदा भवेद् यदि घट पटरूपविशेषयोः रूपसामान्येन सहाऽभेदो भेदश्चाभ्युपगतो भवेत् , तथा सति सङ्ग्रहनयाभ्युपगतरूपसामान्याभेदापेक्षामाश्रित्य रूपसामान्याभिन्नत्वेनैकीभूतयो रूपविशेषयोर्घट-पटोभयवृत्तित्वस्य सम्भवेन तादृशान्वयबोधस्योपपत्तिः, तयो रूपसामान्याद् भेदस्य व्यवहा माश्रित्य तु 'घट पटयोर्न रूपम्' इति वाक्याद् 'घट-पटोभयनिरूपितवृत्तित्वाभाववद् रूपम्' इति बोधस्य सम्भवः, भवद्भिर्यदि रूपसामान्यस्य प्रत्येकरू विशेषात् सर्वथाऽभेद एवोपेयते, न तु कथञ्चिद्भेदस्तदा यात्मके वस्तुनि 'एकस्यापेक्षाऽन्यस्य नापेक्षा' इत्युक्तिः सम्भवति, न त्वेकात्मके वस्तुनोत्यपेक्षाश्रयणस्थानावश्यकत्वेऽपि घटरूपस्यापि रूपसामान्यात्यन्ताभिन्नस्य घट-पटोभयवृत्तत्वेन 'घट-पटयोघंटरूपम्' इति वाक्यतो जायमानस्य 'घट-पटोभयनिरूपितवृत्तित्ववद् घटरूपम्' इति बोधस्य प्रामाण्यं स्यात् , सामान्य-विशेषयोर्भदाभेदपक्ष तु रूपसामान्यस्य रूपत्वेनैव रूपविशेषादभेदो घटरूपत्वादिना तु भेद एवेति घटरूपत्वेनोपस्थितस्य रूपविशेषस्य रूपसामान्याद् भेदो न स्वभेद इति घटरूपत्वेन तस्य न घट पटोभयवृत्तित्वमिति 'न घट-पटयोर्घटरूपम्' इते वाक्यतो जायमानस्य प्रामाण्यातिप्रसनोऽपेक्षाश्रयणे इत्याह- उभयरूपसामान्यस्येति । कथञ्चिद्भेदानभ्युपगम इति- कथचिढ़ेदानभ्युपगमः सर्वथा भेदाभ्युपगमे सर्वथाऽभेदाभ्युपगमे वा स्यात् , तत्र सर्वथा भेदाभ्युपगमः 'घट-पटयो रूपम्' इति वाक्यजन्यबोधस्य न समर्थक इति सर्वथाऽभेदाभ्युपगम इति तदर्थः । त्वदुक्तान्यव्युत्पत्तिमहात् 'घट-पटयो रूपम्' इति वाक्यं रूपत्वसमानाधिकरण्येन घट पटोभयवृत्तित्वस्यान्वयबोधे साकासमिति त्वदुःक्तद्वितीयव्युत्पत्तिमहात्, अस्य 'जायमानस्य' इत्यनेन सम्बन्धः । 'घट-पटयोघटरूपमिति' इत्यत्र इतिशब्दो वाक्यस्वरूपवचनः पञ्चम्यन्तश्च । बोधस्य 'घट पटोभयनिरूपितवृत्तित्ववद् घटरूपम्' इत्याकारकबोधस्य । अस्माकं तु रूपसामान्य रूपविशेषयोर्भेदाभेदाभ्युपगन्तॄणां स्याद्वादिनां पुन: । स्थादर्थानुप्रवेशस्यैव 'सामान्य-विशेषयोः कथञ्चिद् भेदः कथञ्चिदभेदः' इत्येवं स्याच्छब्दार्थस्य कथञ्चिलक्षणस्य भेदाभेदस्वरूपसन्निवेशस्यैव । अतिप्रसक्तमजकत्वात् 'घट-पटयोर्घटरूपम्' इतिवाक्यजन्यबोधप्रामाण्यप्रसनवारकत्वात् ।