________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः ।
कथं चैवं सामान्य-विशेषापेक्षां विना 'घट-पटयो रूपम् , घट-पटयो रूपम्' इत्यादयो विचित्रनयापेक्षाः प्रत्ययाः समर्थनीयाः ? संग्रहनयाश्रयणेनैव हि घट-पटोभयरूपसामान्योद्भूततत्त्वविवक्षया 'घट-पटयोः रूपम्' इति प्रत्ययस्योपपत्तेः, द्वयोर्भेदविवक्षायां प्रत्येकान्वयस्य धर्मद्वयावच्छिन्नवाचकपदयोः संधानस्थल एव व्युत्पन्नत्वात्, व्यवहाराश्रयणात् तु प्रकृतप्रयोगोऽनुपपन्न एव, मिलितवृत्तित्वान्वये एव तस्य साकाहत्वात् , 'घट-पटयो रूपम्' इति बोधस्यैव तस्मादुत्पत्तेः । ___ यत् तु-'घट-पटयोन रूपम्' इति वाक्यं तात्पर्यभेदेन योग्यायोग्यम् , घट-पटयो रूपत्वावच्छि. आभावान्वयतात्पर्येऽयोग्यमेव, रूपत्वावच्छेदेन घट-पटोभयवृत्तित्वाभावान्वयतात्पर्ये च योग्यमेव; 'घटसंयोगाभावः स्कन्धरूपदेशे कपिसंयोगाभावयुक्त एव, अन्यथा शाखावच्छिन्ने वृक्षे कपिसंयोगोऽस्त्येव, स्कन्धावच्छिन्नेऽपि तस्मिन् यदि कपिसयोगः स्यात् , कोऽयं शाखा-स्क्रन्धाभ्यामन्यः सम्पूर्णो वृक्षः ? यत्र कपिसंयोगाभावो भवेदिति, ततश्च स्कन्धे कपिसंयोगो नास्तीत्यैतावतैव सम्पूर्णः 'कपिसंयोगाभाववान्' इति व्यवाहियते, अतः स्कन्धदेशापेक्षामाश्रित्यैव तथाव्यवहारः, अन्यथा तदनुपपत्तरित्यर्थः । प्रत्ययान्तराणामपि केषाश्चिन्नापेक्षामन्तरेणोपपत्तिरित्याह- कथं चेति- अस्य 'समर्थनीयाः' इत्येननान्वयः । एवं यथा 'शाखावच्छिन्नो वृक्षः कपिसंयोगी' इत्यादिव्यवहारस्यापेक्षा विना न समर्थन तथा । विचित्रनयापेक्षा इति- 'घट-पटयो रूपम्' इति प्रत्ययः सङ्ग्रहनयापेक्षः, 'घट-पट्योर्न रूपम्' इति प्रत्ययो व्यवहारनयापेक्ष इत्येवं विचित्रनयापेक्षत्वं बोध्यम् । विचित्रनयापेक्षत्वमेव भावयति-सङ्गहनयाश्रयणेनैवेति-घटे यद् रूपम् , यच्च पटे रूपम् , तदुभयानुगतं यद् रूपसामान्यलक्षणमुद्भूत तत्त्वं सङ्घहनयाभिमतम् , तद्विवक्षया 'घट-पटयो रूपम्' इति प्रत्ययस्य सङ्ग्रहनयाश्रयणेनैवोपपत्तेः, यदि सङ्ग्रहनयो नाश्रीयते तर्हि घटे रूपमन्यत् , तदन्यच्च पटे रूपमित्येकस्य रूपस्य घट-पटोभयनिरूपितवृत्तित्वस्याभावाद् 'घट-पटयो रूपम्' इति प्रत्ययो न स्यात् , सङ्ग्रहनयसमाश्रयणे तु रूपसामान्यस्यैकस्य घट-पटोभयसमाश्रितस्थ सम्भवेन तत्र घट-पटोभयनिरूपितवृत्तित्वस्य सम्भवादुपपद्यते 'घट-पटयो रूपम्' इति प्रत्यय इत्यर्थः । यदा तु घटरूप-पटरूपयो दो विवक्ष्यते, एकस्मिन् रूपे घटवृत्तित्वस्यापरस्मिन् रूपे परवृत्तित्वस्यान्वयोऽभिमतस्तदा 'घटे रूपम् , पटे रूपम्' इत्येव प्रत्ययः, घटस्वावच्छिन्नवाचकशब्दस्य षष्ठीविभक्त्या पटत्वावच्छिन्नवाचकस्य षष्ठीविभक्त्या पृथगेवाऽऽनुपूर्वीलक्षणसमभिव्याहारः, षष्ठ्यन्तयोश्च तयोः 'रूपम्' इत्यनेन पृथगेव पूर्वापरीभावलक्षण: समभिव्याहारस्तादृशप्रत्ययनिबन्धोऽपेक्षितः, तथासन्धानस्थल एव घटवृत्तिरूप-पटवृत्तिरूपयोः प्रतीतिरित्याह-द्वयोमेदविवक्षायामिति । 'घट-पटयोन रूपम्' इति प्रत्ययो व्यवहारनयाश्रयणेनोपपद्यत इत्यावेदयितुमाह-व्यवहारश्रयणात् स्विति । प्रकृतप्रयोगः 'घट-पटयो रूपम्' इति प्रयोगः, एतच्च तादृशप्रत्ययस्याप्युपलक्षणम्, तादृशप्रयोगाभावे तदभिलाप्यप्रत्ययाभावस्यापि न्यायप्राप्तत्वात् । अनुपपत्नत्वे हेतुमाह-मिलितेति- घट-पटोभयनिरूपितवृत्तित्यान्वये इत्यर्थः । तस्य 'घट-पटयो रूपम्' इत्यस्य, यदि घटनिरूपितवृत्तित्वान्वये पटनिरूपितधृत्तित्वान्वये साकार तद् भवेत् तदा प्रत्येक घटनिरूपित वृत्तित्वस्य च पटनिरूपितवृत्तित्वस्य च रूपे घटमानत्वात् स्यादप्युक्तप्रयोगस्योपपन्नता, यदा च मिलितवृत्तित्वान्वय एवोकप्रयोगस्य साकारत्वं तदैकस्मिन् रूपे घट-पटोभयनिरूपितवृत्तित्वान्वयस्य बाधित्वानोक्तप्रयोगस्योपपन्नत्वमित्यर्थः । तस्मात् व्यवहारनयाश्रयणात् , तथा च व्यवहारनयाश्रयणे 'घट-परयोने रूपम्' इति प्रयोग उपपन्न इत्याशयः ।
अन्येषां मतं प्रतिक्षेप्तुमुपन्यस्यति-यत् त्विति । अयोग्यमेवेति-रूपत्वावच्छिन्नस्य रूपसामान्यस्य घट-पटयोः सत्त्वेन रूपत्वावच्छिन्नप्रतियोगिताकस्य रूपसामान्यस्याभावस्य घट-पस्योरभावेन 'घट-पटयोन रूपम्' इत्यनेन घट-पटयो रूपसामान्याभावस्य बोधितस्य बोधयितुमशक्यत्वेन तादृशबोधेच्छयोच्चरितमुक्तवाक्यमयोग्यमेवेत्यर्थः । रूपत्वावच्छेदेनेतियद् यद् रूपं तत् किमपि घट-पटोभयनिरूपितवृत्तितावन्न भवत्येवेति रूपमात्र एव घट-पटोभयनिरूपितवृतित्वाभावस्य सत्त्वेन रूपत्वावच्छेदेनाबाधितस्य घट-पटोभयनिरूपितवृत्तित्वाभावस्यान्वयबोधसम्भवात् तादृशबोधतात्पर्येण प्रयुज्यमानं 'घट-पटयोर्न रूपम्' इति वाक्यं योग्यमेवेत्यर्थः । यदि च, यत्किञ्चिद्रूपे घटवृत्तित्वं यत्किञ्चिद्रूपे पटवृत्तित्वमिति, तद्रूपद्यं च रूप