________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । लीनाऽऽहार्य-दोषविशेषजन्यादीनामपेक्षात्मकत्वेनैव तद्वारकविशेषणानुपादानात्, तथा च तद्धर्मप्रतिपक्षधर्मवत्तया ज्ञातेऽपि तद्धर्मवत्तया जायमानस्यानुभवस्यान्यथानुपपत्तिरेवापेक्षात्वे मानम् , तस्या एव सर्वतो बलवत्प्रमाणत्वात् , तदाह श्रीहर्षः-- " अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका । पिनष्ट्यदृष्टवैमत्यं सैव सर्वबलाधिका " ॥ इति ।
-[खण्डनखण्डखाद्य० परि० १, श्लो० ५ ] न चाऽपेक्षां विना लौकिकोऽपि व्यवहारः संगच्छते, अग्राघवच्छेदेन कपिसंयोगाभाववति वृक्षे शाखापेक्षयव कपिसंयोगवत्त्वव्यवहारात् । न चावच्छेदकावगाह्येवायम् , न स्वपेक्षात्मक इति वाच्यम् , 'शाखावच्छिन्नो वृक्षः कपिसंयोगवान् , न तु संपूर्णः' इति प्रत्ययस्य स्कन्धदेशापेक्षां विनाऽनुपपत्तेः । पेक्षया लाघवेनेत्यर्थः । 'अपेक्षात्मकत्वस्यैव' इति स्थाने अपेक्षाऽनात्मकत्वस्यैव' इति पाठो युक्तः । अपेक्षानात्मकत्वस्य प्रतिबध्यतावच्छेदककोटौं निवेशे अव्याप्यवृत्तित्वज्ञानकालीनस्याऽऽहार्यस्य दोषविशेषजन्यस्य च तद्विरुद्धधर्मवत्ताज्ञानस्यापेक्षात्मकस्यैवोररीकारेणापेक्षाऽनात्मकत्वस्य तेष्वभावेन प्रतिबध्यतावच्छेदकानाक्रान्ततया तद्वत्ताज्ञाने सत्यपि तदुत्पत्तेः सम्भवन प्रति बध्यतावच्छेदककोटौ तद्वारकाणामव्याप्यवृत्तिज्ञानकालीनान्यत्वादीनामनिवेशेन लाघवं सुव्यत्तमित्याह- अव्याप्यवृत्तित्वेति । तद्वारकेति- अव्याप्यवृत्तित्वज्ञानकालीन ज्ञानादिवारकेत्यर्थः । तथा च लाघवादपेक्षाऽनात्मकत्वस्यैव प्रतिबध्यतावच्छेदककोटी निवेशे च। अन्यथाऽनुपपत्तिरेवेति- यदि तद्धर्मप्रतिपक्षधर्मवत्ताज्ञानकाले जायमानं तद्धर्मवत्ताज्ञानमपेक्षात्मकं न स्यात् तदाऽपेक्षानात्मकत्वेन प्रतिबध्यतावच्छेदकाक्रान्तस्य तस्योत्पत्तिरेव न भवेदित्यपेक्षात्मकत्वाभावे तस्यानुपपत्तिरेवेत्यर्थः । तस्या एव अन्यथाऽनुपपत्तेरेव । ___ अन्यथाऽनुपपत्तेः सर्वप्रमाणापेक्षया बलवत्त्वे खण्डनखण्डखाद्यकर्तुः श्रीहर्षस्य वचनं संवादकतयोपदर्शयति- तदाहेति । अन्यथेति- अन्यथानुपपत्तिर्वस्तुप्रसाधिकाऽस्ति चेद्, सा अन्यथानुपपत्तिरेव, सर्वबलाधिका सर्वप्रमाणापेक्षयाऽधिकबला सती, 'इत्थं वचिदपि न दृष्टं कथमभ्युपगन्तुं शक्यम्' इत्येवम् अदृष्टवैमत्यं पिनष्टि, अर्थाद् अन्यथानुपपत्तिलक्षणप्रमाणबलाद् दृष्टविरुद्धमपि कल्पनीयमेवेत्याशयः ।। एतद्वचनानन्तरं श्रीहर्ष एवं प्राह"वाच्याऽन्यथोपपत्तिा त्याज्यो वा दृष्टताऽऽग्रहः । न ह्येकत्र समावेशश्छाया-ऽऽतपवदेतयोः॥"
-[खण्डनखण्डखाद्य परि० १, श्लो० ६ ] अस्यायमर्थ:-- प्रकारान्तरेणोपपत्तिर्वाच्या. येनान्यत्रादृष्ट प्रकृतमुपपादकं न कल्पनीयं स्यात्, वा- अथवा, उपपादकान्तराऽभावे प्रकृतमदृष्टमप्युपपादकं कल्पनोयमेव, गत्यन्तराऽभावात् . तथा च दृष्टताऽऽग्रहः- दृष्टमेव स्वीकरणीयम् , दृष्टविरुद्धं न स्वीकरणीयम् ' इत्येवमाग्रहः, त्याज्यः, हि-यतः, छाया-ऽऽतपवत्- यथा छाया-ऽऽतपयोर्नेकत्र समावेशस्तथा, एतयो:-- दृष्टताऽग्रहा-ऽन्यथाऽनुपपत्त्योरेकत्र समावेशो नेत्यर्थः, यदि दृष्टताऽऽग्रहं न मुञ्चसि तदा प्रका
म् , यदि प्रकारन्तरेणार्थमुपादयितुं न शक्नोषि तहिं येन बिना सोऽर्थो नोपपद्यते तमदृष्टमम्युररीकुरु, परिहर दृष्टाऽऽहमित्येवमन्यथानुपपत्तेः सर्वतो बलवत्त्वं श्रीहर्ष आहेति ॥
लौकिकव्यवहारान्यथाऽनुपपत्त्याप्यपेक्षा स्वीकरणीयेत्याह-न चेति - अस्य 'संगच्छते' इत्यनेनान्वयः। अपक्षानिबन्धनं लौकिकव्यवहारं दर्शयति - अग्राद्यवछेदेनेति । उक्तव्यवहारेऽवच्छदकावगाहित्वमेव, न स्वपेक्षात्मकत्वमित्याशङ्कय प्रतिक्षिपति-न चेति- अस्य 'वाच्यम्' इत्यने नान्वयः । अयं 'वृक्षः शाखापेक्षया कपिसंयोगवान्' इति व्यवहारः । निषेधे हेतुमाह-शास्त्रावच्छिन्न इति- अत्र वृक्ष एव शाखावच्छिन्नस्त्रं विशेषणमिति न तु शाखावच्छेद्यत्वं कपिसंयोगे कपिलंयोगावच्छेदकत्वं वा शाखा यां भासते, तथा चैकस्यैव वृक्षस्य शाखावच्छिन्नस्य कपिसंयोगवत्वं सम्पूर्णस्य कपिसंयोगाभाववत्वं यत् तत्र भासते तत् स्कन्धदेशापेक्षां विना न सम्भवति, यतः शाखावच्छिन्ने वृक्षे कपिसंयोगवत्त्वे सम्पूर्ण तत्र कपि