________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपवेशः । रिति परिप्रहः, तैः, उपेता:-तदात्मकाः, ये अर्था:-जीव-पुद्गलादयः, तेषु, अपेक्षावचनं प्रतिनियत. धर्मप्रकारकापेक्षाख्यशाब्दबोधजनकं वचनम् , नयवाक्यमित्यर्थः, इदं वचनरूपस्य नयस्य लक्षणम् , ज्ञानरूपस्य तु नयस्य अपेक्षात्मकशाब्दबोधत्वमेवेति द्रष्टव्यम् , अपेक्षात्वं च क्षयोपशमजन्यतावच्छेदको जातिविशेषो विषयिताविशेषो वेत्यन्यदेतत् । ननु 'घटोऽस्ति' इत्यादिवाक्यश्रवणात् 'घटविषयकशाब्दझानं मम जातम्' इत्येव लोकाः प्रतियन्ति, न तु तत्रापेक्षात्वमपीत्यपेक्षात्मकनयज्ञानसत्वे किं प्रमाणमत आह-हि निश्चितम् , मिश्रित विरुद्धत्वेन प्रतीयमानैर्नानाधर्मैः करम्बितं वस्तु, अपेक्षां विना, विवेचयितुं विवक्षितकधर्मप्रकारकनिश्चयविषयीकर्तुम् , न शक्यम् , तद्विरुद्धधर्मवत्ताज्ञानस्यानपेक्षात्मकस्यानुपपत्तेः, बाधप्रतिबध्यतावच्छेदककोटौ लाघवेनापेक्षात्मकस्यैव निवेशात् , अव्याप्यवृत्तित्वज्ञानका
नन्तधर्मात्मकस्य वस्तुनोंऽशभूतधर्मग्राहिज्ञानात्मकनयजनकस्य वचनस्यापेक्षावचनरूपत्वेन नयत्वस्योपपत्तिः, अत उपेतशब्देनात्र तादात्म्यं विवक्षितमित्याशयेनाह- तदात्मका इति- सत्यासत्त्वादिधर्मात्मका इत्यर्थः । 'अपेक्षावचनम' इति चापेक्षात्मकज्ञानजनकं वचनमित्यर्थकम् । अपेक्षात्मक ज्ञानं च प्रतिनियतधर्मप्रकारकजीवादिवस्तुविशेष्यकशाब्दबोधरूप
ह-अपेक्षाववनमिति । इदम 'सत्त्वा-ऽसत्वाद्युपेत.' इत्याभिहितलक्षणम् । अपेक्षाशब्दोऽनेकस्मिन्नर्थे प्रयज्यते, यथा- 'वृक्षः शाखापेक्षया कपिसंयोगी, मूलापेक्षया कपिसंयोगाभाववान्' इत्यत्रावच्छेदकत्वमपेक्षाशब्दार्थः, 'दण्डो घटापेक्षया कारणम्, न पटाद्यपेक्षया' इत्यादौ निरूपितवं निरूपकत्वं वाऽपेक्षाशब्दार्थः, एवम् 'अयं देवदत्तापेक्षया पिता, यक्षदत्ताचपेक्षया गुरुः' इत्यादावपि निरूपितत्व-निरूपकत्वे तदर्थः, 'दण्डो घटजनने चक्रादिकमपेक्षते' इत्यादौ सहकारित्वं तदर्थः, 'घटः स्वोत्पत्तौ दण्डादिकमपेक्षते' इत्यादौ कारणत्वं तदर्थः, 'आम्रफलं बदरीफलाद्यपेक्षया महत् , नारिके लफलाद्यपेक्षयाऽणुः, आम्रपल्लवं तालपत्राद्यपेक्षया कोमलम् , कमलदलाद्यपेक्षया कठिनम्' इत्यादाववधित्वं तदर्थ इत्येवं यत्र यस्यान्वययोग्यता तस्य तत्र तदर्थतेत्यतः प्रकृतेऽप्यपेक्षात्वं नयानुगतमपेक्षाशब्दप्रतिनिमित्तं किञ्चिद् वाच्यमित्यपेक्षायामाह- अपेमात्वं चेति । धर्मि प्रत्यक्षे तदतजातिरपि प्रत्यक्षेति 'साक्षात् करोमि, अनुमिनोमि, शणोमि' इत्यादिरूपं यथा प्रत्यक्षस्वा-ऽनुमितित्व-शाब्दत्वादीनां प्रत्यक्षं न तथा शाब्दबोधात्मकनयाध्यक्षेऽपेक्षात्वं भासत इति कथं तस्य जातिरूपतेत्यत आह-विषयिताविशेषो वेतीति । शाब्दत्वावान्तरजातिविशेषस्य युक्तचाऽनन्तरमेव व्यवस्थापनीयतया शाब्दात्मकनयानुव्यवसायोल्लेखेऽपेक्षाशब्देनानुलेरवेऽपि य एव नयोलेखकः शब्दः स एव तस्याप्युल्लेखक इति जातिरूपस्यापि तस्याध्यक्षसमधिगम्यत्वं समस्त्येवेति, अन्यथा विषयिताविशेषोऽपि तथाऽनुल्लिख्यमानः कथं स्यादित्याशयेनोक्तम्अन्यदेतदिति ।
उत्तरार्द्ध व्याख्यातुमक्तारयति-नन्विति । तत्र घटविषयकशाब्दज्ञाने। 'अपि' इत्यनन्तरं 'लोकाः प्रतियन्ति' इत्यनुकृष्यते । 'मिश्रितम् इत्यस्य विवरणम्-विरुद्धत्वेन प्रतीयमान नाधमः करम्बितं वस्त्विति । 'विवेचयितुम्' इत्यस्य विवरणम्-विवक्षितकधर्मप्रकारकनिश्चयविषयीकर्तुमिति । निषेधे हेतुमाह- तद्विरुद्धति'तद्विरुद्धधर्मवत्ताज्ञानस्य' इति स्थाने 'तद्वत्ताज्ञाने सति तद्विरुद्धधर्मवत्ताज्ञानस्य' इति पाठो युक्तः । सामान्यतस्तद्वत्ताज्ञानं यदि तद्विरुद्धधर्मवत्ताज्ञान प्रति प्रतिबन्धकं तदा तद्वत्ताज्ञाने सति अपेक्षात्मकमपि तद्विरुद्धधर्मवत्ताज्ञानं न भवेत् , न चैवम्, किन्तु तद्वत्ताज्ञानमपेक्षाऽनात्मकतद्विरुद्धधर्मवत्ताज्ञान प्रति प्रतिबन्धकमित्येवमपेक्षाऽनात्मकत्वस्य प्रतिबध्यतावच्छेदककोटी प्रवेशे अपेक्षात्मकतद्विरुद्धधर्मवत्ताज्ञानस्य प्रतिबध्यतावच्छेदकवर्मानाकान्ततया स्यादेव सम्भवः, अपेक्षाऽनात्मकं तु तद्विरुद्धधर्मवत्ताज्ञानमुक्तप्रतिबध्यतावच्छेदकधर्माकान्तत्वात् तद्वत्ताज्ञाने सति न भवेद्, अतोऽपेक्षात्मकं तद्विरुद्धधर्मवत्ताज्ञानं नयस्वरूपमुपगन्तव्यमित्याह-बाधप्रतिबध्यतावच्छेदककोटाविति । लाघवेनेति-नैयायिकादिमते तद्वत्ताज्ञाने सति अध्याप्यवृत्तित्वज्ञानकालीनम् आहार्य दोषविशेषजन्यं च तद्विरुद्धधर्मवत्ताज्ञानमुपजायतेऽतस्तस्य प्रतिबध्यतावच्छेदकाभावसम्पादनाय प्रतिबध्यतावच्छेदककोटावव्याप्यवृतिज्ञानकालीनान्यत्वमनाहार्यत्वं दोषविशेषाजन्यत्वं च निवेश नीयम्, तद