________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । त्पत्तिशालिनाम् , विनोदः- सम्यगूनयार्थव्युत्पादकत्वपरामर्शजनितः प्रशंसा-पुलको दादिव्यङ्गयः प्रमोदः, तदर्थम् । न चाज्ञखेद-खलपीडाद्यनुबन्धित्वेनास्य तुल्याऽऽय-व्ययत्वादकामत्वम् , तदोषापेक्षयाऽस्य गुणस्थानन्तगुणोत्कृष्टत्वात् , तदाहुः श्रीहरिभद्राचार्याः प्रथमविशतिकायाम्
" इक्को उण इह दोसो, जं जायइ खलजनस्स पीड त्ति । ___ तह वि पयट्टो इत्थं, दटुं सुयणाण मइतोसं " ॥ १ ॥ [
]ति । इदमुपलक्षणम् , 'बालानां व्युत्पत्तये' इत्यपि द्रष्टव्यम् , बालव्युत्पत्त-रेव सर्वत्र ग्रन्थप्रयोजनस्वात्, बालश्चात्राधीतान्यतर्कः सम्यगनभ्यस्तनय-प्रमाण विभागो द्रष्टव्यः, इतरस्यानधिकारित्वात् " नाऽत्यन्ततदज्ञो नातदज्ञः स एवाधिकारवान् ” [ ] इति श्रवणात् ॥ १ ॥ तत्रादौ नयलक्षणं तत्त्वस्वरूपोपपत्ति चाह
सत्त्वाऽसत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः।
न विवेचयितुं शक्यं विनाऽपेक्षां हि मिश्रितम् ॥ २॥ नया०-सत्त्वाऽसत्त्वेति- सत्वाऽसत्त्वादयो ये धर्माः, आदिना नित्याऽनित्यत्व-भेदाऽभेदादिधारणम् , तच्छालिनाम्- तद्वतामित्यर्थः । सम्यगिति- 'अयं नयोपदेशः सम्यग् नयार्थव्युत्पादकः' इत्या कारकनिर्णयजनित इत्यर्थः । ननु यथैतद्वन्यात् सुधियां प्रमोदस्तथाऽतिमूढानामुपाध्यायादिसकाशादध्ययनेनाप्येतदर्थं विज्ञातुमयोग्यानां खेदः, परगुणद्वेषिणां खलानां चैतदपूर्वग्रन्थदर्शनतः पीडैव भविष्यतीत्येकस्योपकारकत्वमन्यस्यापकारत्वमित्येवं तुल्याऽऽयव्ययत्वान्न काम्योऽयं प्रन्थ इत्याशङ्कय प्रतिक्षिपति-न चेति-अनुबन्धित्वेन कारणत्वेन । अस्य नयोपदेशस्य । निषेधे हेतुमाहतहोषापेक्षयेति- अज्ञखेदजनकत्व-खलपीडादिजनकत्वलक्षणदोषापेक्षयेत्यर्थः । अस्य गुणस्य सुधीप्रमोदजनकत्वलक्षणगुणस्य ।
उक्तार्थे श्रीहरिभद्राचार्यवचनसंवादमाह- तदाहुरिति । इक्को० इति- “एकः पुनरिह दोषो यज्जायते खलजनस्य पीडेति । तथाऽपि प्रयत्नोऽत्र दृष्ट्वा सुजनानां मतितोषम्" ॥ इति संस्कृतम् ।
इदं 'सुधियां विनोदाय' इति सुधीगतविनोदफलार्थत्वम् । ननु स्तनन्धयो लोके बालशब्दव्यपदेश्यः, न च तस्यैतस्माद् प्रन्थानयव्युत्पत्तिः सम्भवतीत्यत आह- बालश्चेति । अघीतान्यतर्क इति- यद्यन्यशास्त्रार्थपरिज्ञानशून्यः स्यात् , तर्हि स कथमवगच्छेत् ?- सङ्ग्रहनयाद् वेदान्तदर्शनप्रवृत्तिः, नैगमनयाद् वैशेषिकादिदर्शनप्रवृत्तिरित्यादिकम्, सामान्यादिपदार्थस्वरूपापरिज्ञाने 'सामान्यमात्रमाहिपरामर्शः सङ्ग्रहः' इत्यादेरपि परिज्ञानं यथावन भवेत् , अतो मावश्यकम् । सम्यगनभ्यस्तनय-प्रमाणविभाग इति-- यस्य नय-प्रमाणविभागस्य सम्यगभ्यासः स नयस्वरूपं प्रमाणस्वरूपं च विवेकेन जानात्येवेति प्रथमत एव नयव्युत्पनस्य तस्य नातो नयव्युत्पत्तिः, अतो युज्यते 'सम्यगनभ्यस्तनय-प्रमाणविभागः' इति । इतरस्य अनधीतान्यतर्कस्याभ्यस्तनय-प्रमाणविभागस्य च । अनधिकारित्वास प्रस्तुतनयोपदेशग्रन्थाध्ययन श्रवणाधिकारित्वाभावात् । उक्तार्थे प्राचां वचनं प्रमाणयति-नात्यन्तेति- यः प्रकृतग्रन्थाईत्यन्ताज्ञानशून्यः, यश्च प्रकृतप्रन्यातिरिक्तप्रन्धार्थाज्ञानशून्यः स एव प्रकृतग्रन्थाध्ययनादावधिकारीत्यर्थः ॥ १॥
नयलक्षणप्रतिपादकमाद्यपद्यमवतारयति-- तत्रेति- नयोपदेश इत्यर्थः । तत्त्वेति- नयलक्षणेत्यर्थः । सत्त्वेति- पूर्वाद्ध नयलक्षणप्रतिपादकम् , उत्तरार्द्ध तदुपपादकम् । विवृणोति- सत्त्वाऽसत्त्वेतीति । आदिना 'सत्त्वासत्त्वादिः' इत्येतद्धटकादिपदेन 'भेदादिरिति परिग्रहः' इत्यस्य स्थाने 'भेदादेः परिग्रहः' इति पाठो युक्तः । तैः सत्त्वासत्त्वादिधर्मः । 'पुत्रोपेतः [पुत्रेण सह] पिता समागतः' इत्यादी भेदे उपेतशब्दप्रयोगो दृश्यत इति प्रकृतेऽपि सत्त्वा-ऽसत्त्वादिधमैः समं जीवादिधर्मिणो भेदः प्रतीयेत, तथा चानन्तधर्मात्मकत्वं जीवादीनां न लभ्येत, विवक्षितं च तत्, तथा सत्येवा