________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । " जो जाणदि अरहंते, दवत्त-गुणत्त-पजवत्तेहिं ।
सो जाणदि अप्पाणं, मोहो खलु जादि तस्स लयं " ॥ १ ॥ [ ] इति । ननु तथाऽप्येतदनुध्यानं न मङ्गलम् , स्वापकर्षावधिकोत्कर्षप्रतियोगित्वेन नमस्कार्यज्ञानस्यैव नमस्काररूपमङ्गलत्वात् , ध्यानस्य चोत्कर्षानवगाहित्वादिति चेत् ? न- ध्यानस्यान्तरङ्गतपोभेदत्वेन भावमललत्वात्, स्मरन्ति हि परमगुरुवः-" धम्मो मङ्गलमुक्किटुं० "ति [ दशवकालिक०, अ० १, गाथा० १] । ननु तथाऽप्यत्र निर्जरामात्रोद्देशेन प्रवृत्तिः स्यात्, न तु विघ्नविघातोदेशेनेति कथमभीष्टफलसिद्धिरिति चेत् ? न- सामान्योद्देशेन प्रवृत्तावपि विशेषहेत्वन्तर्भावेन विशेषफलसिद्धेरप्रत्यू. हत्वात्, इष्यते हि मोक्षार्थं विहितमपि चरित्रं सरागत्वादिहेत्वन्तर्भावेन स्वर्गफलकम् , तत्राऽऽदिफलं सामान्य निर्जरामात्रम् , तद्विशेषश्च स्वर्गप्रापकः क्लिष्टकर्मविगम इति दिक् । सुधियां परिणतनयव्यु
उक्तार्थे दिक्पटवचनसंवादमुपदर्शयति-तदुक्तमिति-श्वेताम्बर-दिगम्बरयोः केवलिकवलाहार- स्त्रीमुक्त्यादौ परस्परविरुद्धाभ्युपगन्तृत्वेऽपि स्याद्वाद- सप्तभझ्याद्यभ्युपगमस्य समानत्वात् समानतान्त्रिकत्वं बोध्यम् । जो जाणदि० इति-- "यो जानाति महतो द्रव्यत्व- गुणत्व-पर्यवस्वैः । स जानात्यात्मानं मोहः खलु याति तस्य लयम्" ।। इति संस्कृतम् ।।
ननु स्वावधिकोत्कृष्टत्व प्रकारकनमस्कार्यविशेष्यकज्ञानानुकूलव्यापार स्य द्रव्यमङ्गलत्वम् , तादृशज्ञानस्य च भावमङ्गलत्वम् , प्रकृते चाऽऽत्मानुध्याने स्वस्यारकर्षस्तदवधिको नमस्कार्यस्योत्कर्षश्च न भासत इति न तस्य नमस्कारलक्षणमलत्वमिति शङ्कते-नन्विति । तथाऽपि आत्माऽनुध्यानस्य परमात्मसमापत्तिफलकत्वेऽपि, आत्मानुध्याने तत्कारणतया परमात्मानुध्यानस्यावश्यम्भावित्वेऽपि वा । एतदनुध्यानम् आत्मानुध्यानम् । आत्मानुध्यानस्य नमस्कारात्मकमङ्गलवाभावेऽपि अन्तरगतपोविशेषरूपत्वेन भावमङ्गलत्वं सम्भवत्येवेति समाधत्ते-नेति । अन्तरङ्गतपोविशेषस्य ध्यानस्य मालत्वे आगमवाक्यं प्रमाणयति-स्मरन्तीति- प्रवाहतोऽनादिसिद्धस्यागमस्यापूर्वत्वाभावान्न करणम् , किन्तु पूर्वपूर्वसिद्धस्य तस्य स्मरणमेव तीर्थङ्करैः क्रियत इत्यागमस्य सर्वप्रमाणज्येष्ठत्वख्यापनाय 'स्मरन्ति' इत्युक्तम् । धम्मो० इति- अत्र 'अहिंसा संजमो तवो। देवा वि तं नमंसति, जस्स धम्मे सया मणो"॥ इति गाथाशेषः । “धर्मो मङ्गलमुत्कृष्टमहिंसा संयमस्तपः। देवा अपि तं नमस्यन्ति यस्य धर्म सदा मनः" ॥ इति संस्कृतम् । ननु भवत्वभ्यन्तरतपोविशेषरूपस्याऽऽत्मानुध्यानस्य भावमङ्गलत्वम् , परमेतत्कर्म निर्जरोद्देशेनैव विधीयते, न तु विघ्नविधातोद्देशेन, अभिमतं च ग्रन्थकर्तुर्विघ्नविघात एव मङ्गलफलम्, तस्यात्मानुभ्यानलक्षणभावमङ्गलेनासंपादनान्न युक्तं विघ्नविधातोद्देशेन कर्तव्ये मङ्गलेऽस्य विधानमिति शङ्कते-नन्विति। तथाऽपि आत्मानुभ्यानस्य भावमङ्गलत्वेऽपि । अत्र आत्मानुध्याने । यद्यपि भावमझलस्यात्मानुध्यानस्य निर्जरामात्रोद्देशेन प्रवृत्तिविषयवान्निर्जरामात्रफलकत्वं तथाऽपि निर्जरणीयकर्मसमष्टौ समाप्तिप्रतिबन्धकदुरितविशेषलक्षणकर्मणोऽप्यन्तर्भूतत्वात् तन्नाशकविशेषसहकारिसमवधानतस्तन्नाशस्यापि सम्भवेन विघ्नविधातलक्षणविशेषफलस्याऽपि निर्जरामात्रसामान्यफलकात्मानुध्यानतः सम्भवात् , दृष्टं च मोक्षार्थविहितचरित्रान्मोक्षमात्रफलकात् सरागस्वादिलक्षणस्वर्गकारणसहकारिविशेषसमवहितात् स्वर्गकारणीभूतस्वर्गप्रतिबन्धकर्मविशेषविगमद्वारा स्वर्गफलमिति समाधत्ते-- नेति । सामान्योद्देशेन निर्जरामात्रोद्देशेन । प्रवृत्तावपि आत्मानुध्याने प्रवृत्तावपि । विशेषहेत्वन्तर्भावन 'आत्मानुध्यानतः समाप्तिप्रतिबन्धकदुरितविशेषो मे निवर्तताम्' इतीच्छालक्षणविशेषहेत्वन्तविन। तत्र मोक्षार्थविहितचरित्रस्थले । आदिफलं प्रथमफलम् । तद्विशेषश्च निर्जराविशेषश्च । गुरुनमस्कारस्य मलत्वे न कस्यापि विप्रतिपत्तिरतो 'नत्वा गुरुपदाम्बुजम्' इत्यत्र न किमपि चर्चितम् ,. शब्दार्थस्य स्पष्टत्वान विवरणम् । जैननयतत्त्वानभिज्ञा अपि न्यायादिशास्त्रनिष्णाता: सुधियः, तेषां नयोपदेशो नयतत्त्वावगतये एवाधीतः सन् स्यात् , न तु विनोदायातः 'सुधियाम्' इत्यस्य विवरणम्- परिणतनयव्युत्पत्तिशालिनामिति— परिणता- सम्यग् नयप्रतिपादकशास्त्राभ्यासेन परिनिष्ठिता, या, नयव्युत्पत्तिः- 'अयं नय एतदर्थावगाहनकुशलः, अयं पुनरेतदर्थनिर्णयप्रवीणः' इत्येवं विवेकेन नयस्वरूपाव