________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
-
ऐन्द्रधाम हृदि स्मृत्वा नत्वा गुरुपदाम्बुजम् ।
नयोपदेशः सुधियां विनोदाय विधीयते ॥ १॥ नया०- ऐन्द्रमिति-"इदि परमैश्वर्ये" इति धात्वनुसाराद् इन्द्रः- आत्मा, तस्य संबन्धि ऐन्द्रम् , धाम- अखण्डज्ञानानन्दलक्षणम् , अत्र इन्द्र-धामपदाभ्यामात्म-तद्गुणयोः साध्यवसानया इन्द्र-तेजोऽभेदलाभादवश्योपासनीयत्व-मायातमोनिराकर्तृत्वप्रतीतिः । नन्विदमात्मनोऽनुध्यानम् , तच्च न मङ्गलम् , देवतानमस्कारादेरेव मङ्गलत्वेन प्रसिद्धेरिति चेत् ? न- नैश्चयिकस्याऽस्याऽऽत्मानुध्यानस्याऽऽत्मनि परमात्मसमापत्तिफलाऽऽवहतायाः योगशास्त्रप्रसिद्धत्वात् तदनुध्याने परमात्माऽनुध्यानस्यावश्यकत्वात् , यथावदात्मानुध्याने परमात्मध्यानस्य कारणत्वाच, तदुक्तं समानतान्त्रिकै:--- मतमवलम्ब्योक्तम्- 'विघ्नविघाताय' इति । 'समुचितेति- सम्यग्योग्येत्यर्थः, 'ऐन्द्रधाम हृदि स्मृत्वा' इति मङ्गलपद्यप्रथमचरणेन समुचितेष्टदेवप्रणिधानलक्षणं मङ्गलमावेदितम् , 'नत्वा गुरुपदाम्बुजम्' इत्यनेन समुचितेष्टगुरुनमस्कारलक्षणं मङ्गलमा. वेदितम् । आचरन् कुर्वन् । शिष्येति- 'नयोपदेशः सुधियां विनोदाय वितन्यते' इत्यनेन शिष्याचधानाय प्रतिज्ञा कृता, प्रतिज्ञा च वर्तमानकालावधिकोत्तरकालीनकर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारः, शिष्यावधानं च श्रवणार्थ शिष्यस्य चित्तैकाग्री.. करणम् , गुरुरन्तरकाले नयोपदेशं करिष्यतीति ज्ञात्वा शिष्यो नयोपदेशशुश्रूषुरेकाग्रचित्तो भवतीति ।
मङ्गलपचं व्याख्यातुं तत्प्रतीकं गृह्णाति- ऐन्द्रमितीति । इन्द्रः इन्द्रपदबोध्यः । तस्य आत्मनः । यत्र भिन्नशब्दाभिधेये उपमेये उपमानाभेदाधिगतिः सा सारोपलक्षणा, यथा- 'अयं गौः' इत्यादाविदमाऽधिगते भारवाहकादौ 'गौः' इत्युपमानवाचकपदेन गवाभेदाधिगतिर्भवति, यत्र तु शब्दान्तरानभिहित एकोपमेये उपमानवाचकशब्देनोपमानाभेदाध्यवसितिः सा साध्यवसाना, यथा- 'गौः' इत्यतेतावन्मात्रेण गवाऽभिन्नतया भारवाहीकाधिगतिः, यथा वा
" वापी काऽपि स्फुरति गगने तत्परं सूक्ष्मपद्या, सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशौ तत्रत्यानां सुलभममृतं सविधानात् सुधांशोः" ॥ १ ॥
j इत्यादौ वाप्यादिशब्देनोपमानवाचकेन वाप्याद्यमिन्नतया नाभ्याद्यपमेयार्थाध्यवसितिः, प्रकृते च स्वर्गाधिपतिसहस्राक्षवाचकेन्द्रशब्देनेन्द्राभिन्नतयाऽऽत्मनः, तेजोवाचकधामन्शब्देन तेजोऽभिन्नतयाऽऽत्मगुणस्याखण्ड. ज्ञानानन्दस्याधिगतिः, सेयं लक्षणा साध्यवसाना, तया प्रतीतादात्मन इन्द्राभेदादुपासनीयत्वमात्मनः प्रतीयते, एवं तया प्रतीतादात्मगुणस्याखण्डज्ञानानन्दस्य तेजोऽभेदान्मायातमोनिराकर्तृत्व प्रतीयत इति भवति प्रयोजनवतीय लक्षणोपादेया परीक्षकाणामिति 'आत्मज्ञानं हृदि स्मृत्वा' इत्यनमिधाय 'ऐन्द्रधाम हृदि स्मृत्वा' इत्युक्तियुज्यतेतरामित्याशयेनाह-- अत्रेति । परमात्मनो देवत्वात् तदनुध्यानस्य मङ्गलत्वेऽप्यात्मनो देवत्वाभावेन न तदनुध्यानं मलमिति शङ्कते- नन्विति । इदम् 'ऐन्द्रधाम हृदि स्मृत्वा' इतिवाक्यप्रतिपाद्यम् । समाधत्ते- नेति । नैश्चयिकनयेनायमात्माऽखण्डज्ञानानन्दलक्षण इत्यखण्डज्ञानानन्दगुणवत्त्वेनाऽऽत्मनोऽनुध्यानं नैश्चयिकम् , तच्च निरन्तरमभ्यस्यमानं परमात्मना सहाऽऽत्मन एकरूपतामेव सम्पादयति, परमात्मा हि अखण्ड ज्ञानानन्दलक्षण एव, आत्माऽपि निरन्तरं तथैव ध्यानेन गोचरीक्रियमाणो ध्यानरूपतपोबलेन कर्माणि निर्जरयन् परमात्मस्वरूप एव सम्पद्यत इति नैश्चयिकस्याखण्डज्ञानानन्दरूपत्वेनाऽऽत्मानुध्यानस्य परमात्मसमापत्तिफलकस्य योगशास्त्रप्रसिद्धस्य समभ्यसने परमात्मानुध्यानस्यावश्यम्भावित्वेन तत्पर्यवसायिनोऽस्याऽऽत्मानुध्यानस्य भवति मङ्गलत्वमित्याह-नैश्चयिकस्येति । तदनुध्याने परमात्मसमापत्तिफलकात्मानुध्याने । किश्छ, अखण्डज्ञानानन्दस्वरूपता परमात्मन एव प्रतीतेति यावदखण्डज्ञानानन्दस्वरूपपरमात्मानुध्यान न भवति न तावदखण्डज्ञानानन्दगुणवत्तयाऽऽत्माऽनुध्यानसम्भव इति तथाभूताऽऽत्माऽनुध्याने तत्कारणीभूतपरमात्मानुध्यानं समस्त्येवेति तद्रपं मङ्गलं युकमित्याह- यथावदात्मानुध्यान इति ।