________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तथैव भवितव्यमित्यसंकीर्णप्रतिनियतधर्मप्रकारक व्यवहारसिद्धये नयानामेव सामर्थ्यात् तद्व्युत्पादनार्थमयमारम्भः । तत्रादौ शिष्टाचारपरिपालनाय विघ्नविघाताय च समुचितेष्टदेव गुरुप्रणिधाननमस्कारलक्षणं मङ्गलमाचरन् शिष्यावधानाय प्रतिजानीते
३
'se' इति शब्देनाssवेद्यते, अत एव 'वीरप्रवचने' इत्यनुक्त्वा 'जिनप्रवचने' इत्युक्तम्, जितराग-द्वेषादिशत्रोः पुरुषधौरेयस्य प्रवचनमवितथमिति तदुपदिष्टमनेकान्तधर्मात्मकतया सङ्कीर्णस्वभावं वस्तु सर्वैरपि वादिभिः स्वीकर्तुमुचितमित्यभिसन्धिः । तत्परिच्छेद केन अनन्तधर्मात्मकवस्तु निश्चायकेन । तथैव अनन्तधर्मात्मिकतया सङ्कीर्णस्वभावेनैव । यदि प्रमाणमेकधर्मात्मकं स्यात् तदैकधर्मावगाहित्वस्वभावस्य तस्यान्यधर्मावगाहिलस्वभावाभावान्नानन्तधर्मात्मकतया वस्तुपरिच्छेदकत्वं भवेद् अतो वस्तुनि यावन्तो धर्मास्तत्सर्वधर्मावगाहित्वस्वभावः प्रमाणस्याभ्युपगन्तव्य इत्येवं प्रमाणस्यापि सङ्कीर्णस्वभावत्वमिति प्रमाणेन सङ्कीर्णस्वभाववस्तुमाहिणा सङ्कीर्णस्वभावतयैव वस्तुनो व्यवहृतिः स्यात् नासङ्कीर्णप्रतिनियतधर्मप्रकारेण वस्तुनो व्यवहृतिरिति तथाभूतव्यवहारसिद्धये प्रतिनियतधर्मग्राहकाणां नयानामेव सामर्थ्यम्, अतो नयस्वरूपागमाय नयोपदेशारम्भो युक्त इत्याह-- इत्यसङ्कीर्णेति । तद्व्युत्पादनार्थं नयव्युत्पादनार्थम् ' को नयः कं वस्त्वंशभूतधर्म परिच्छिनत्ति ?" इति जिज्ञासानिवृत्तये प्रतिनियततत्तद्धर्मस्वरूपांशावगाहिनयप्रतिपत्त्यर्थमिति यावत् । अयम् अनन्तरनिरूप्यमाणनयविषयकः । आरम्भः आयप्रयत्नः । तत्र कर्तव्ये नयोपदेशे | आदौ शिष्टाचार परिपालनायेति'शिष्टाः कचिदभीष्टे वस्तुनि प्रवर्तमाना इष्टदेवता- गुर्वादिनमस्कारादिलक्षणं मङ्गलं कृत्वैव प्रवर्तन्ते' इत्येवं यः शिष्टाचारस्तद्रक्षणार्थमित्यर्थः ग्रन्थकारो यदि शिष्टाचारं न परिपालयेत् तर्हि अपरिपालितशिष्टाचारस्यास्याशिष्टत्वभ्रान्तिविषयीकृतस्य वचसि शिष्टानामध्ययनादौ न प्रवृत्तिः स्यात्, अतः शिष्टाचार परिपालनं न्याय्यमिति तदर्थं मङ्गलाचरणमावश्यकमित्याशयः । विघ्नविघाताय चेति यद्यपि, विघ्नध्वंसद्वारा समाप्तिफलकं मङ्गलमिति प्रारब्धग्रन्थसमाप्त्यर्थं मङ्गलाचरणम्, अनुमानं च मङ्गलस्य समाप्तिफलकत्वे प्रमाणम्, तथाहि - 'मङ्गल सफलम्, अविगीतशिष्टाचारविषयत्वाद्' इति सफलत्वमत्र बलवदनिष्टाननुबन्धित्वे सतीष्टसाधनत्वम्, अविगीतत्वं च बलवदनिष्टाननुवन्धित्वम्, शिष्टत्वं फलसाधनतांशे भ्रान्तिरहितत्वम् अनेनानुमानेन सफलत्वे सिद्धे 'मङ्गलं न समाप्यतिरिक्तफलकं समाप्यतिरिक्तफलेच्छयाऽक्रियमाणत्वाद्' इत्यादीतर बाधकानानुमानेन समाप्यतिरिक्तफलकत्वे बाधिते 'मङ्गलं समाप्तिफलकं समाप्यन्याफलकत्वे सति सफलत्वाद्' इत्यनुमानं मङ्गलस्य समाप्तिफलकत्वं साधयतीति प्राचीननैयायिकाः सन्निरन्ते, तथापि, यत्र व्यापारिणः प्रमाणान्तर विगतफलविशेषसा घनत्वनिर्वाहार्थं व्यापारस्य कल्पना तत्र व्यापारेण व्यापारिणो नान्यथासिद्धि:, यथा - स्वर्गाद्यर्थं विहितस्य कर्मणः स्वर्गाद्युत्पत्त्यव्यवहितपूर्वक्षणपर्यन्तमस्थायिनो नादृष्टलक्षणव्यापारकल्पनमन्तरेण स्वर्गादिकं प्रति कारणत्वं निर्वहतीति सन्निर्वाहार्थमदृष्टमन्तरा कर्मजन्यं परिकरुप्य तद्द्वारा कर्मणः फलविशेषं प्रति कारणत्वमिति, तत्र यदि कर्मणोऽन्यथासिद्धया फलविशेषं प्रति कारणत्वमेव नोपेयेत तर्हि अदृष्टपरिकल्पनाऽपि न स्यादेवेत्यदृष्टरूपव्यापारस्यैवासिद्धया कथं तेन तस्यान्यथासिद्धिरिति व्यापारिणः कर्मणः फलविशेषं प्रति कारणत्वे सिद्धे सत्येव तदुपपत्त्यर्थं व्यापारस्यादृष्टविशेषस्य कल्पितस्य कारणत्वकल्पनेति उपजीव्यवाधान्न तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धिः, यत्र तु ब्यापारिणः कारणत्वमन्तरेणापि व्यापारस्य कारणत्वं सिद्धं तत्र व्यापारेण व्यापारिणोऽन्यथासिद्धिर्भवत्येव यथा 'काशीमरणान्मुक्तिः' इत्यत्र काशीमरणस्य मुक्ति प्रति कारणत्वं तत्त्वज्ञानद्वारा वाच्यम्, न तु साक्षात् 'ऋते तत्त्वज्ञानान्न मुक्ति:' इति वचनेन तत्त्वज्ञानमन्तरेण मुक्तेरसम्भवस्य प्रतिपादनात् तत्त्वज्ञानस्य मुक्तिसाधनत्वं च " तमेव विदित्वाऽतिमृत्युमेति, नाऽन्यः पन्था विद्यतेऽयनाय " [वा. सं. ३१, १८.] इत्यादिवचनप्रमितं युक्त्या चोपपन्नम्, यतस्तत्त्वज्ञानान्मिथ्याज्ञाननिवृत्तौ ततो राग-द्वेष- मोइलक्षणदोषनिवृत्तौ ततो विहित निषिद्धाचरणलक्षणत्रवृत्यपायाज्जन्माऽपाये भवति दुःखनिवृत्तिलक्षणो मोक्ष इति, एवं च काशीमरणस्य मुक्तिकारणत्वमन्तराऽपि तत्त्वज्ञानस्य मुक्ति प्रति कारणत्वं क्लृप्तमिति तत्त्वमानलक्षणव्यापारेण काशीमरणरूपव्यापारिणोऽन्यथासिद्धि:, अत एव 'काशीमरणाद्' इति पञ्चम्या काशीमरणस्य मुक्तिं प्रति प्रयोजकत्वमेव प्रतीयते, तथा मङ्गलस्य समाप्तिं प्रति कारणत्वमन्तराऽपि विघ्नध्वंसस्य प्रतिबन्धकाभावविधया समाप्तिरूपकार्थं प्रति कारणत्वं क्लुप्तमिति भवति विघ्नध्वंसरूपव्यापारेण मङ्गलरूपव्यापारिणोऽन्यथा सिद्धिरिति मङ्गलस्य विघ्नध्वंस एव फलमिति नव्यनैयायिक